| YouTube Channel

पुण्यकव्रत (puNyakavrata)

 
Yates
English
पुण्यक-व्रत (तं) 1.
n.
The vow of a wo-
man who to obtain a son wor-
ships
Krishna for a year with
daily presents.
Wilson
English
पुण्यकव्रत
n.
(-तं) The worship of KṚṢṆA for a year, with daily
presents, to be performed by a woman desirous of a son.
E.
पुण्यक, and व्रत religious obligation.
Monier Williams Cologne
English
पुण्यक—व्रत
n.
the worship of Kṛṣṇa for a year with daily presents (to be performed by a woman desirous of a son),
BrahmaP.
Shabdartha Kaustubha
Kannada
पुण्यकव्रत
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಉತ್ತಮ ಪತಿಯ ಮತ್ತು ಶ್ರೀಕೃಷ್ಣನಂತಹ ಪುತ್ರನ ಪ್ರಾಪ್ತಿಗಾಗಿ ಸ್ತ್ರೀಯರು ಮಾಡುವ ಒಂದು ವ್ರತ
शब्दकल्पद्रुमः
Sanskrit
पुण्यकव्रतं,
क्ली,
(पुण्यकं व्रतमिति ।) पतिसौभा-ग्यस्य श्रीकृष्णतुल्यपुत्त्रस्य जनकः स्त्रीकर्त्तव्य-नियमविशेषः तस्य विधिर्यथा, --महादेव उवाच ।“हरेराराधनं कृत्वा व्रतं कुरु वरानने ! ।व्रतञ्च पुण्यकं नाम वर्षमेकं करिष्यसि
देवि ! शुद्धे कालेऽत्र परं नियमपूर्व्वकम् ।माघशुक्लत्रयोदश्यां व्रतारम्भः शुभः प्रिये !
गात्रं सुनिर्म्मलं कृत्वा शिरःसंस्कारपूर्व्वकम् ।उपोष्य पूर्व्वदिवसे वस्त्रं प्रक्षाल्य यत्नतः
धौते वाससी धृत्वा उपविश्यासने शुचौ ।आचम्य तिलकं कृत्वा निर्व्वाप्य आह्निकं पुरः
घटस्यारोपणं कृत्वा स्वस्तिवाचनपूर्व्वकम्
पुरोहितस्य वरणं पुरः कृत्वा प्रयत्नतः ।संकल्प्य वेदविहितं व्रतमेतत् समाचरेत्
व्रते द्रव्याणि नित्यानि चोपहाराणि षोडश ।देयानि नित्यं देवेशि ! कृष्णाय परमात्मने ।आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम्
मधुपर्कश्च स्नानीयं वस्त्राण्याभरणानि ।सुगन्धिपुष्पं धूपश्च दीपनैवेद्यवन्दनम्
यज्ञसूत्रञ्च ताम्बूलं कर्पू रादिसुवासितम् ।द्रव्याण्येतानि पूजायाश्चाङ्गरूपाणि सुन्दरि !
देवि ! किञ्चिद्बिहीनेनैवाङ्गहानिः प्रजायते ।अङ्गहीनञ्च यत् कर्म्म चाङ्गहीनो यथा नरः
अङ्गहीने कार्य्ये फलहानिः प्रजायते ।अष्टोत्तरशतं पुष्पं पारिजातस्य विष्णवे ।देयं प्रतिदिनं दुर्गे ! स्वात्मनो रूपहेतवे
श्वेतचम्पकपुष्पाणां लक्षमक्षतमीप्सितम् ।प्रदेयं हरये भक्त्या बहुसौन्दर्य्यहेतवे
नीलोत्पलानां लक्षञ्च देयं कृष्णाय भक्तितः ।व्रताङ्गभूतं देवेशि ! चक्षुषो रूपहेतवे
हिमालयोद्भवं लक्षं रुचिरं श्वेतचामरम् ।प्रददौ केशवायैव केशसौन्दर्य्यहेतवे
अमूल्यरत्नरचितं दर्पणानां सहस्रकम् ।देयं नारायणायैव नाभिसौन्दर्य्यहेतवे
अमूल्यरत्नरचितं पुटकानां सहस्रकम् ।प्रदेयं गोपिकेशाय नासिकारूपहेतवे
बन्धूकपुष्पलक्षञ्च देयं राधेश्वराय ।स्वस्यौष्ठाधरयोश्चैव बहुसौन्दर्य्यहेतवे
मुक्ताफलानां लक्षञ्च दन्तसौर्य्यहेतवे ।देयं गोलोकनाथाय शैलजे ! भक्तिपूर्व्वकम्
रत्नगेण्डूकलक्षञ्च गण्डसौन्दर्य्यहेतवे ।मदीश्वराय दातव्यं व्रते शैलेन्द्रकन्यके !
रत्नपाषकलक्षञ्च देयं ब्रह्मेश्वराय ।ओष्ठाधःस्थलरूपाय प्राणेशि ! भक्तितो व्रते
कर्णभूषणलक्षञ्च रत्नसारविनिर्म्मितम् ।देयं सर्व्वेश्वरायैव कर्णसौन्दर्य्यहेतवे
माध्वीककलसानाञ्च लक्षं रत्नविनिर्म्मितम् ।देयं विश्वेश्वरायैव स्वरसौन्दर्य्यहेतबे
सुधापूर्णञ्च कुम्भानां सहस्रं रत्ननिर्म्मितम् ।देयं कृष्णाय देवेशि ! वाक्यसौन्दर्य्यहेतवे
रत्नप्रदीपलक्षञ्च गोपवेशविधायिने ।देयं किशोरवेशाय दृष्टिसौन्दर्य्यहेतवे
धुस्तूरकुसुमाकारं रत्नपात्रसहस्रकम् ।देयं गोरक्षकायैव गलसौन्दर्य्यहेतवे
सद्रत्नसाररचितं पद्मनालसहस्रकम् ।देयं तन्तुकपालाय बाहुसौन्दर्य्यहेतवे
लक्षञ्च रक्तपद्मानां कक्षसौन्दर्य्यहेतवे ।देयं गोपाङ्गनेशाय नारायणि ! हरिव्रते
अङ्गुरीयकलक्षञ्च रत्नसारविनिर्म्मितम् ।अङ्गुलीनाञ्च रूपार्थं देयं देवेश्वराय
मणीन्द्रसारलक्षञ्च श्वेतवर्णं मनोहरम् ।देयं मुनीन्द्रनाथाय नखसौन्दर्य्यहेतवे
सद्रत्नसारहाराणां लक्षञ्चातिमनोहरम् ।देयं मदनमोहाय वक्षःसौन्दर्य्यहेतवे
सुपक्वश्रीफलानाञ्च लक्षञ्च सुमनोहरम् ।देयं सिद्धेन्द्रनाथाय स्तनसौन्दर्य्यहेतवे
सद्रत्नवर्त्तुलाकारं लक्षपात्रं मनोहरम् ।देयं पद्मालयेशाय देहस्य रूपहेतवे
सद्रत्नसाररचितनाभीनालसहस्रकम् ।प्रदेयं पद्मनाभाय नाभिसौन्दर्य्यहेतवे
सद्रत्नसाररचितरथचक्रसहस्रकम् ।नितम्बसौन्दर्य्यार्थञ्च प्रदेयञ्चक्रपाणये
सुवर्णरत्नकुम्भानां लक्षञ्च सुमनोहरम् ।प्रदेयं श्रीनिवासाय श्रोणिसौन्दर्य्यहेतवे
शतपत्रस्थलाब्जानां लक्षमम्लानमक्षतम् ।प्रदेयं पद्मनेत्राय पादसौन्दर्य्यहेतवे
सुवर्णरचितानाञ्च खञ्जनानां सहस्रकम् ।गतिसौन्दर्य्यहेत्वर्थं देयं लक्ष्मीश्वराय
राजहंससहस्रञ्च गजेन्द्राणां सहस्रकम् ।सुवर्णच्छत्रलक्षञ्च देयं नारायणाय
विचित्रं रत्नसारेण मूर्द्ध्नः सौन्दर्य्यहेतवे
मालतीनाञ्च कुसुममक्षतं लक्षमीश्वरि ! ।देयं वृन्दावनेशाय हास्यसौन्दर्य्यहेतवे
अमूल्यरत्नलक्षञ्च देयं नारायणाय वै ।सुव्रते ! व्रतपूर्णार्थं शीलसौन्दर्य्यहेतवे
शुद्धस्फटिकसङ्काशं मणीन्द्रसारलक्षकम् ।देयं मुनीन्द्रनाथाय मनःसौन्दर्य्यहेतवे
प्रवालसारसङ्काशं मणिसारसहस्रकम् ।देयं कृष्णाय भक्त्या प्रियानुरागवृद्धये
माणिक्यसारलक्षञ्च देयं कृष्णाय यत्नतः ।जन्मनः कोटिपर्य्यन्तं स्वामिसौभाग्यहेतवे
कुष्माण्डं नारिकेलञ्च जम्बीरं श्रीफलं तथा ।फलान्येतानि देयानि हरये पुत्त्रहेतवे
रत्नेन्द्रसारलक्षञ्च देयं कृष्णाय यत्नतः ।असंख्यजन्मपर्य्यन्तं स्वात्मनो धनवृद्धये
वाद्यं नानाप्रकारञ्च कांस्यतालादिकं परम् ।व्रते सम्पत्तिवृद्ध्यर्थं श्रीहरिं श्रावयेद्व्रती
पायसं पिष्टकं सर्पिःशर्कराक्तं मनोहरम् ।प्रदेयं हरये भक्त्या स्वात्मनो भोगवृद्धये
सुगन्धिपुष्पमाल्यानां लक्षमक्षतमीप्सितम् ।प्रदेयं हरये भक्त्या हरिभक्तिविवृद्धये
नैवेद्यानि प्रदेयानि स्वादूनि मधुराणि ।श्रीकृष्णप्रीतिप्राप्त्यर्थं दुर्गे ! नानाविधानि
नानाविधानि पुष्पाणि तुलसीसंयुतानि ।श्रीकृष्णप्रीतये भक्त्या व्रते देयानि सुव्रते !
ब्राह्मणानां सहस्रञ्च प्रत्यहं भोजयेद्व्रती ।स्वात्मनः शस्यवृद्ध्यर्थं व्रते जन्मनि जन्मनि
पुष्पाञ्जलिशतं देयं नित्यं पूर्णञ्च पुजने ।प्रणामशतकं देवि ! कर्त्तव्यं भक्तिवृद्धये
षण्मासांश्च हविष्यान्नं मासान् पञ्च फलादिकम् ।हविः पक्षं जलं पक्षं व्रते पक्षे सुव्रते !
रत्नप्रदीपशतकं वह्निं दद्याद्दिवानिशम् ।रात्रौ हुताशनं कृत्वा नित्यं जागरणं व्रते
स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।सङ्कल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव
मैथुनं विविधं त्याज्यं व्रते क्रीडाविवृद्धये ।ज्ञानवृद्धिर्जागरणे सुबुद्धिर्मितभोजने
लोभमोहकामक्रोधभयशोकविवादकम् ।कलहञ्च परित्याज्यं व्रते बन्धुविवृद्धये
संपूर्णे व्रते देवि ! प्रतिष्ठा तदनन्तरम्
त्रिशतञ्च षष्ट्यधिकं डल्लकं वस्त्रसंयुतम् ।सभोज्यं सोपवीतञ्च सोपहारं मनोहरम्
त्रिशतञ्च षष्ट्यधिकं सहस्रं विप्रभोजनम् ।त्रिशतञ्च षष्ट्यधिकं सहस्रं तिलहोमकम्
त्रिशतञ्च षष्ट्यधिकं सहस्रं स्वर्णमेव ।देया व्रतसमाप्तौ दक्षिणा विविधेरिता ।अन्यां समाप्तिदिवसे कथयिष्यामि दक्षिणाम्
एतद्व्रतफलं देवि ! दृढा भक्तिर्हरौ भवेत् ।हरितुल्यो भवेत् पुत्त्रो विख्यातो भुवनत्रये
सौन्दर्य्यं स्वामिसौभाग्यमैश्वर्य्यं विपुलं धनम् ।सर्व्ववाञ्छितसिद्धीनां बीजं जन्मनि जन्मनि
इव्येवं कथितं देवि ! व्रतं कुरु महेश्वरि ! ।पुत्त्रस्ते भविता साध्वीत्युक्त्रा विरराम
”इति ब्रह्मवैवर्त्ते गणपतिखण्डे ३-४ अध्यायौ