| YouTube Channel

पुण्डरीकं (puNDarIkaM)

 
शब्दकल्पद्रुमः
Sanskrit
पुण्डरीकं,
क्ली,
(पुण्डति अन्यपुष्पाणां गर्व्वं चूर्णी-करोतीति पुण्ड मर्द्दे + “फर्फरीकादयश्च ।”उणां २० इति ईकन्प्रत्ययेन निपा-तनात् साधुः “पुणतेः पुण्डरीकम् ।” इत्यु-ज्ज्वलदत्तः ।) शुक्लपद्मम् तत्पर्य्यायः सिता-म्भोजम् इत्यमरः १० ४१
शत-पत्रम् महापद्मम् सिताम्बुजम् इतिरत्नमाला
अस्य पर्य्यायान्तरं गुणाश्च श्वेत-पद्मशब्दे द्रष्टव्याः
(यथा, रघुः १७ ।“पुण्डरीकातपत्रस्तं विकसत्काशचामरः ।ऋतुर्विडम्बयामास पुनः प्राप तच्छ्रियम्
”)पद्ममात्रम् इति भरतधृतव्याडिः
श्वेत-च्छत्रम् भेषजभेदः इति मेदिनी के, १९९
सप्तमहाकुष्ठानामन्यतमः तल्लक्षणं यथाहमाधवकरः ।“सश्वेतं रक्तपर्य्यन्तं पुण्डरीकदलोपमम् ।सोत्सेधञ्च सरागञ्च पुण्डरीकं तदुच्यते