| YouTube Channel

पुटपाकः (puTapAkaH)

 
Apte Hindi
Hindi
पुटपाकः
पुं*
पुटः-पाकः -
औषधियाँ तैयार करने की विशेष पद्धति
शब्दकल्पद्रुमः
Sanskrit
पुटपाकः,
पुं,
(पुटेन पाकः ।) पुटाभ्यन्तरितौ-षधपचनम् अथ पुटपाकविधिः ।“पुटपक्वस्य कल्कस्य स्वरसो गृह्यते यतः ।अतस्तु पुटपाकानां युक्तिरत्रोच्यते मया
पुटपाकस्य पाकोऽयं लेपस्याङ्गारवर्णता ।लेपञ्च द्व्यङ्गुलं स्थूले कुर्य्याद्बाङ्गुलिमात्रकम्
काश्मरीवटजम्ब्वादिपत्रैर्वेष्टनमुत्तमम् ।पलमात्रो रसो ग्राह्यः कर्षमात्रं मधु क्षिपेत्
कल्कचूर्णद्रवाद्यास्तु देयाः कोलमिता बुधैः
अपि ।द्वे विल्वे स्निग्धमांसस्य परं द्रव्यं पलं मतम् ।द्रव्यस्य कुडवोन्मानं सर्व्वमेकत्र पेषयेत्
तदेकत्र समालोड्य पत्रैः सूपरिवेष्टितम्
पुटपाकविधानेन तत् पक्त्वा तद्रसं बुधः ।तर्पणोक्तेन विधिना यथावदवचारयेत्
दृष्टिमध्ये निषेच्यः स्यान्नित्यमुत्तानशायिनः ।स्नेहनो लेखनश्चैव रोपणश्चेति त्रिधा
हितः स्निग्धो विरूक्षस्य स्निग्धस्य तु लेखनःदृष्टेर्ब्बलार्थमितरः पित्तासृग्व्रणवातनुत्
इतरो रोपणः ।स्नेहमांसवसामज्जमेदःस्वाद्वौषधैः कृतः ।स्नेहनः पुटपाकः स्याद्धार्य्यो द्वे वाक्शते तु सः
वाक्शतं छोटिकाशतम् ।जाङ्गलानां यकृन्मांसैर्लेखनद्रव्यसंयुतैः ।कृष्णलोहरजस्ताम्रशङ्खविद्रुमसिन्धुजैः
समुद्रफेनकासीसस्रोतोजदधिमस्तुभिः ।लेखनो वाक्शतं तस्य परं धारणमिष्यते
स्तन्यजाङ्गलमध्वाज्यतिक्तकद्रव्यभावितः ।लेखनात्त्रिगुणो धार्य्यः पुटपाकस्तु रोपणः
तिक्तकद्रव्याण्याह ।निम्बामृतावृषपटोलनिदिग्धिकाभिःस्यात् पञ्चतिक्तक इति प्रथितो गणोऽयम्
आचरेत्तर्पणोक्तान्तु क्रियां व्यापत्तिदर्शने
व्यापत्तिदर्शने मिथ्याकृतपुटपाकजनितव्याधि-दर्शने ।तेजांस्यनिलमाकाशमादर्शं भास्कराणि ।नैक्षेत तर्पिते नेत्रे यश्च वा पुटपाकवान्
”इति भावप्रकाशः