| YouTube Channel

पुटं (puTaM)

 
शब्दकल्पद्रुमः
Sanskrit
पुटं,
क्ली,
(पुटतीति पुट संश्लेषे + कः ।) जाती-फलम् इति राजनिर्घण्टः
उपर्य्यधोभावा-पन्नसंयुक्तमृदादिकपालद्वयरूपौषधपाकपात्रम् ।धात्वादिमारणोपयुक्तान् पुटप्रकारानाह रस-प्रदीपे ।“लोहादेरपुनर्भावस्तद्गुणत्वं गुणाढ्यता ।सलिले तरणञ्चापि तत्सिद्धिः पुटनाद्भवेत्
गम्भीरे विस्तृते कुण्डे द्विहस्ते चतुरस्रके ।वनोपलसहस्रेण पूरिते पुटनौषधम्
कोष्ठे रुद्धं प्रयत्नेन गोविष्ठोपरि धारयेत् ।वनोपलसहस्रार्द्धं कोष्ठिकोपरि निःक्षिपेत्
वह्निं विनिःक्षिपेत्तत्र महापुटमिति स्मृतम्
कोष्ठं मूषा गोविष्ठा गोइठा इति महापुटम्
सपादहस्तमानेन कुण्डे निम्ने तथायते ।वनोपलसहस्रेण पूर्णमध्ये विधारयेत्
पुठनद्रव्यसंयुक्तां कोष्ठिकां मुद्रितां मुखे ।अधोऽर्द्धानि करण्डानि अर्द्धान्युपरि निःक्षिपेत्
एतद्गजपुटं प्रोक्तं ख्यातं सर्व्वपुटोत्तमम्
हस्तश्चतुर्व्विंशत्यङ्गुलप्रमाणः सपादः तेनत्रिंशदङ्गुलप्रमाणेनेत्यर्थः अतएवोक्तम् ।साधारणो नराङ्गुल्या त्रिंशदङ्गुलको गजः
इति गजपुटम्
अरत्निमात्रके कुण्डे पुटं वाराहमुच्यते
वितस्तिमात्रके खाते कथितं कौक्कुटं पुटम् ।‘अरत्निस्तु निष्कनिष्ठेन मुष्टिना’ इत्यमरः ।२ ८६
निःसृतकनिष्ठया मुष्ट्योपलक्षितोहस्तोऽरत्निरित्यर्थः ।षोडशाङ्गुलके खाते कस्यचित् कौक्कुटं पुटम्
यत् पुटं दीयते खाते ह्यष्टसंख्यैर्वनोपलैः ।कपोतपुटमेतत्तु कथितं पुटपण्डितैः
गोष्ठान्तर्गोखुरक्षुण्णं शुष्कचूर्णितगोमयम् ।गोवरं तत् समाख्यातं वरिष्ठं रससाधने
बृहद्भाण्डस्थितैर्यन्त्रैर्गोवरैर्दीयते पुटम् ।तद्गोवरपुटं प्रोक्तं भिषग्भिः सूतभस्मकृत्
बृहद्भाण्डे तुषैः पूर्णे मध्ये मूषां विधारयेत् ।क्षिप्त्वाग्निं मुद्रयेद्भाण्डं तद्भाण्डपुटमुच्यते
*
इति भावप्रकाशे पूर्व्वखण्डे भागः