| YouTube Channel

पुङ्गवः (puGgavaH)

 
Wordnet
Sanskrit
Synonyms:
वृषभः, ऋषभः, वृषः, पुङ्गवः, बलीवर्दः, उक्षा, सौरभेयः, गोनाथः, ककुद्मान्, भद्रः, उस्रः
noun
नरजातीयः गौः यं कृषकः यानादिभिः युनक्ति।
"वृषभः कृषकस्य कृते अतीव उपयुक्तः अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
पुङ्गवः,
पुं,
(पुमान् गौः “गोरतद्धितलुकि ।”५ ९२ इति टच् ।) वृषः (यथा, हरिवंशे ७५ ४१ ।“भवता रक्षिता लोका गोलोकश्च महालयम् ।यद्वयं पुङ्गवैः सार्द्धं वर्द्धामः प्रसवैस्तथा
”)औषधभेदः (पुमान् गौरिव मदबलाद्याति-शय्यादित्युपमितसमासः ।) उत्तरपदस्थः श्रेष्ठ-वाचकः इति मेदिनी वे, ४४
(यथा, भाग-वते ३२ ।“इति मतिरुपकल्पिता वितृष्णाभगवति सात्त्वतपुङ्गवे विभूम्नि
”)ऋषभौषधम् महोक्षः इति राजनिर्घण्टः