| YouTube Channel

पुंसवन (puMsavana)

 
शब्दसागरः
English
पुंसवन
n.
(-नं) The first of the essential ceremonies of Hindu initia-
tion
a religious and domestic festival held on a woman's per-
ceiving the first signs of a living conception.
2. Milk.
3. Fetus.
E.
पुम् a male, सू to bear
aff.
ल्युट्
Capeller Eng
English
पुंसवन
a.
bringing forth a male
n.
(±व्रत) a
cert.
ceremony to get a son.
Yates
English
पुं-सवन (नं) 1.
n.
Festival held on the
mother's perceiving the signs of
a living conception
milk.
Spoken Sanskrit
English
पुंसवन - puMsavana -
adj.
- producing a male child
पुंसवन - puMsavana -
adj.
- bringing forth a male
पुंसवन - puMsavana -
n.
- fetus
पुंसवन - puMsavana -
n.
- male-production rite
पुंसवन - puMsavana -
n.
- milk
पुंसवन puMsavana
adj.
producing a male child
पुंसवन puMsavana
adj.
bringing forth a male
पुंसवन puMsavana
n.
fetus
पुंसवन puMsavana
n.
male-production rite
पुंसवन puMsavana
n.
milk
पुंसवन puMsavana
n.
male-production rite
Wilson
English
पुंसवन
n.
(-नं) The first of the essential ceremonies of
Hindū initiation
a religious and domestic festival held on the mother's
perceiving the first signs of a living conception.
2 Milk.
E.
पुम् a male, षू to bear,
aff.
ल्युट्.
Monier Williams Cologne
English
पुं—सवन
mfn.
bringing forth a male, producing a child,
BhP.
Car.
पुं—सवन
n.
(with or sc. व्रत), ‘male-production rite’,
N.
of the 2nd of the 12 Saṃskāras performed in the third month of gestation and before the period of quickening,
GṛS.
MBh.
&c.
(cf.
RTL.
353
355)
a fetus,
BhP.
milk,
L.
Macdonell
English
पुंसवन puṃ-savana,
a.
causing the birth of 🞄a male child
n.
vrata) domestic rite (at 🞄the beginning of conception) for the obtainment 🞄of a son.
Benfey
English
पुंसवन पुंसवन, i. e. पुंस्-सवन,
adj.
1. Causing the birth of a male
child, Bhāg. P. 9, 6, 28.
2.
n.
with or
without व्रत, A religious and do-
mestic festival, held on the mother's
perceiving the first signs of a living
conception, Bhāg. P. 6, 19, 1.
II.
n.
Fœtus, 5, 24, 15.
Apte Hindi
Hindi
पुंसवन
वि* पुंस्-सवन -
पुत्रोत्पत्ति करने वाला
पुंसवनम्
नपुं*
पुंस्-सवनम् -
"सर्व प्रथम पर्रिप्कारात्मक या शुद्धीकरण संबंधी संस्कार, स्त्री के गर्भाधान के प्रथम चिह्न प्रकट होने पर पुत्रोत्पत्ति के उद्देश्य से यह संस्कार किया जाता है"
पुंसवनम्
नपुं*
पुंस्-सवनम् -
"भ्रूण, गर्भ"
पुंसवनम्
नपुं*
पुंस्-सवनम् -
दूध
Shabdartha Kaustubha
Kannada
पुंसवन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಸ್ತ್ರೀಯು ಗರ್ಭಧರಿಸಿದಾಗ ಪುತ್ರಸಂತಾನದ ಅಪೇಕ್ಷೆಯಿಂದ ನಡೆಯುವ ಒಂದು ಸಂಸ್ಕಾರ
निष्पत्तिः - > षूङ् (प्राणिगर्भविमोचने) - "ल्युट्" (३-३-११७)
व्युत्पत्तिः - > पुमांसं सूतेऽननेन
प्रयोगाः - > "यथाक्रमं पुंसवनादिकाः क्रियाः धृतेश्व धीरः सदृशीर्व्यधत्त सः"
उल्लेखाः - > रघु० ३-१०
पुंसवन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಕ್ಷೀರ /ಹಾಲು
निष्पत्तिः - > कर० "ल्युट्" (३-३-११७)
व्युत्पत्तिः - > पुमांसमिव सूते पुरुषवत् जनयत्यनेन
L R Vaidya
English
puMsavana {% n. %} 1. a religious ceremony held on a woman’s perceiving the first signs of a living conception, R.iii.10
2. fetus
3. milk.
Aufrecht Catalogus Catalogorum
English
पुंसवन prayoga. Oppert II. 6921.
पुंसवन prayoga. Gov. Or. Libr. Madras 51.
अभिधानचिन्तामणिः
Sanskrit
--source--
गुड इक्षुरसक्वाथः शर्करा तु सितोपला ४०२
सिता मधुधूलिस्तु खण्डस्तद्विकृतिः पुनः
मत्स्यण्डी फाणितं चापि रसालायां तु भार्जिता ४०३
शिखरिण्यथ यूर्यूषो रसो दुग्धं तु सोमजम्
गोरसः क्षीरमूधस्यं स्तन्यं पुंसवनं पयः ४०४
-wordlist-
गुड (पुं), ईक्षुरसक्वाथ (पुं), शर्करा (स्त्री), सितोपला (स्त्री), सिता (स्त्री), मधुधूलि (स्त्री), खण्ड (पुंक्ली), मत्स्यण्डी (स्त्री), फाणित (क्ली), रसाला (स्त्री), मार्जिता (स्त्री), शिखरिणी (स्त्री), यू (पुं), यूष (पुंक्ली), रस (पुं), दुग्ध (क्ली), सोमज (क्ली), गोरस (पुं), क्षीर (पुंक्ली), ऊधस्य (क्ली), स्तन्य (क्ली), पुंसवन (क्ली), पयस् (क्ली)
Vedic Reference
English
Puṃ-savana (‘male-production’ ceremony) is found in the
Atharvaveda^1 in a hymn which is obviously intended to accom-
pany a rite aiming at securing the birth of a male child and
which is so applied in the ritual.^2
1) vi. 11, 1.
2) Kauśika Sūtra, xxxv. 8. Cf. Bloom-
field, Hymns of the Atharvaveda, 460
Whitney, Translation of the Atharva-
veda, 288. The later Gṛhya ritual
knows a special rite called Puṃsavana.
See Āśvalāyana Gṛhya Sūtra, i. 13
Sāṅkhāyana Gṛhya Sūtra, i. 20
Gobhila Gṛhya Sūtra, ii. 6, 1 et seq.
Hillebrandt, Rituallitteratur, 41.
शब्दकल्पद्रुमः
Sanskrit
पुंसवनं,
क्ली,
(पुमांसमिव सूते बलप्रदानेन पुरुष-वत् जनयत्यनेनेति सू + करणे ल्युट् ।) दुग्धम् ।इति हेमचन्द्रः ४०४
(पुमासं सूतेऽने-नेति सू + करणे ल्युट् ।) संस्कार-विशेषः इति त्रिकाण्डशेषः
(यथा, रघु-वंशे १० ।“यथाक्रमं पुंसवनादिकाः क्रियाःधृतेश्च धीरः सदृशीर्व्यधत्त सः
”)अस्येतिकर्त्तव्यता यथा “गर्भस्य तृतीयमासो-पक्रमे यच्छुद्धदिनं तस्मिन् पतिः कृतनित्यक्रियःकृतवृद्धिश्राद्धः चन्द्रनामानमग्निं संस्थाप्य विरू-पाक्षजपान्तां कुशण्डिकां समाप्य कृतस्नानांबधूमग्नेः पश्चिमायां दिशि स्वदक्षिणतः कुशेषुप्राङ्मुखीमुपवेश्य प्रकृतकर्म्मारम्भे प्रादेश-प्रमाणां घृताक्तां समिधं तूष्णीमग्नौ हुत्वामहाव्याहृतिहोमं कुर्य्यात् यथा प्रजापति-रृषिर्गायत्त्री छन्दोऽग्निर्देवता महाव्याहृति-होमे विनियोगः ओँ भूः स्वाहा प्रजापति-रृषिरुष्णिक् छन्दो वायुर्द्देवता महाव्याहृति-होमे विनियोगः ओँ भुवः स्वाहा प्रजापति-रृषिरनुष्टुप् छन्दः सूर्य्यो देवता महाव्याहृति-होमे विनियोगः ओँ स्वः स्वाहा ततः पति-रुत्थाय बधूपृष्ठदेशे स्थितो बधूदक्षिणस्कन्धंस्पृष्ट्वा अवतीर्णेन दक्षिणहस्तेन अव्यवहितंबधूनाभिदेशं स्पृशन् जपति प्रजापतिरृषि-रनुष्टुप् छन्दो मित्रावरुणाग्निवायवो देवताःपुंसवने विनियोगः ।ओँ पुमांसौ मित्रावरुणौ पुमांसावश्विनावुभौ ।पुमानग्निश्च वायुश्च पुमान् गर्भस्तवोदरे
इत्येकं पुंसवनम्
*
अपरपुंसवनकर्म्मार्थञ्च वटवृक्षस्य पूर्व्वोत्तर-शाखायां फलयुगलशालिनीं कृमिभिरनुपहतांवटशुङ्गां यवानां माषाणां वा त्रिभिस्त्रिभि-र्गुडकैः सप्त वारान् सप्तभिर्मन्त्रैः क्रीणीयात् ।सप्तानां मन्त्राणामृष्यादयः साधारणाः प्रजा-पतिरृषिः सोमवरुणवसुरुद्रादित्यमरुद्विश्वेदेवा देवता न्यग्रोधशुङ्गापरिक्रयणे विनियोगःओँ यद्यसि सौमी सोमायत्वा राज्ञे परिक्री-णामि इति गुडकत्रयेण एकं क्रयणम्
ओँ यद्यसि वारुणी वरुणायत्वा राज्ञे परि-क्रीणामि इति गुडकत्रयेण द्बितीयं क्रय-णम्
ओँ यद्यसि वसुभ्यो वसुभ्यस्त्वा परि-क्रीणामि इति गुडकत्रयेण तृतीयं क्रय-णम्
ओँ यद्यसि रुद्रेभ्यो रुद्रेभ्यस्त्वा परि-क्रीणामि इति गुडकत्रयेण चतुर्थं क्रयणम्
ओँ यद्यसि आदित्येभ्य आदित्येभ्यस्त्वा परि-क्रीणामि इति गुडकत्रयेण पञ्चमं क्रयणम्
ओँ यद्यसि मरुद्भ्यो मरुद्भ्यस्त्वा परिक्रीणामि ।इति गुडकत्रयेण षष्ठं क्रयणम्
ओँ यद्यसिविश्वेभ्यो देवेभ्यो विश्वेभ्यो देवेभ्यस्त्वा परि-क्रीणामि इति गुडकत्रयेण सप्तमं क्रय-णम्
ततः क्रीतां वटशुङ्गां अनेन मन्त्रेणवृक्षादाहरेत् प्रजापतिरृषिरोषध्यो देवतान्यग्रोधशुङ्गाच्छेदने विनियोगः ओँ ओषधयःसुमनसो भूत्वा अस्यां वीर्य्यं समाधत्त इयं कर्म्मकरिष्यति ततस्तां तृणवेष्टितामन्तरीक्षेणानीयअन्तरीक्षे स्थापयेत् ततः कृतशोभननाम्नो-ऽग्नेरुत्तरतः प्रक्षालितशिलायां ब्रह्मचारी गर्भ-वती वा श्रुतस्वाध्यायहीनो वा ब्राह्मणः प्राङ्मुखआचारतो नीहारजलेन अनावृत्तलोष्टेन पुनःपुनः पेषयेत् ततोऽग्नेः पश्चिमत उत्तराग्रेषुकुशेषु पश्चिमाभिमुखीं बधूं पूर्व्वदिगानतमस्तकांकृत्वा तत्पृष्ठदेशे स्थितः पतिर्दक्षिणपाणे-रङ्गुष्ठानामिकाभ्यां वस्त्रवद्धां पेषितवटशुङ्गांगृहीत्वा गर्भवत्या दक्षिणनासाविवरे शुङ्गारसंनिःक्षिपति प्रजापतिरृषिरनुष्टुप् छन्दो-ऽग्नीन्द्रबृहस्पतयो देवता न्यग्रोधश्रुङ्गारसस्यदाने विनियोगः ।ओँ पुमानग्निः पुमानिन्द्रः पुमान् देवी बृहस्पतिः ।पुमांसं पुत्त्रं विन्दस्व तं पुमाननुजायताम्
ततो महाव्याहृतिहोमं कृत्वा तूष्णीं प्रादेश-प्रमाणां घृताक्तां समिधमग्नौ हुत्वा प्रकृतं कर्म्मसमाप्य उदीच्यं शाट्यायनहोमादिवामदेव्य-गानान्तं कर्म्म कृत्वा कर्म्मकारयितृब्राह्मणायदक्षिणां दद्यादिति पुंसवनम् ।” इति दशकर्म्म-पद्धतौ भवदेवभट्टः
*
अथ पुंसवनोक्तवाराः ।रविमङ्गलबृहस्पतयः नक्षत्राणि पूर्व्वाषाढो-त्तराषाढापूर्व्वभाद्रपदुत्तरभाद्रपद्पुष्यपुनर्व्वसु-मूलार्द्रारेवतीहस्ताश्रवणामृगशिरसः तिथयः ।नन्दा भद्राः लग्नानि कुम्भसिंहधनुर्मीन-मिथुनानि स्त्रियाश्चन्द्रादिशुद्धौ दशयोगभङ्ग-विष्टिभद्रात्र्यहस्पर्शादीन् परित्यज्य गर्भधारण-दिनावधितृतीयमासे कर्त्तव्यम् इति ज्योति-षम्
*
स्त्रीकर्त्तव्यव्रतविशेषः यथा, --श्रीराजोवाच ।“व्रतं पुंसवनं ब्रह्मन् ! भवता यदुदीरितम् ।तस्य वेदितुमिच्छामि येन विष्णुः प्रसीदति
श्रीशुक उवाच ।शुक्ले मार्गशिरे पक्षे योषिद्भर्त्तुरनुज्ञया ।आरभेत व्रतमिदं सर्व्वकामिकमादितः
निशम्य मरुतां जन्म ब्राह्मणाननुमन्त्र्य ।स्नात्वा शुक्लदती शुक्ले वसीतालङ्कृताम्बरे ।पूजयेत् प्रातराशात् प्राक् भगवन्तं श्रिया सह
अलं ते निरपेक्षाय पूर्णकाम ! नमोऽस्तु ते ।महाविभूतिपतये नमः सकलसिद्धये
यथा त्वं कृपया धृत्या तेजसा महिमौजसा ।जुष्ट ईशगुणैः सर्व्वैस्ततोऽसि भगवान् प्रभुः
विष्णुपत्नि ! महामाये महापुरुषलक्षणे ।प्रीयेथा मे महाभागे लोकमातर्नमोऽस्तु ते
ओँ नमो भगवते महापुरुषाय महानुभावायमहाविभूतिपतये सह महाविभूतिभिर्व्वलि-मुपहरामीति अनेनाहरहर्म्मन्त्रेण विष्णो-रावाहनार्घ्यपाद्योपस्पर्शन-स्नान-वासोपवीत-भूषणगन्धपुष्पधूपदीपोपहाराद्युपचारान् सुस-माहितोपाहरेत् ।हविःशेषञ्च जुहुयादनले द्वादशाहुतीः ।ओँ नमो भगवते महापुरुषाय महाविभूतिपतयेस्वाहेति ।श्रियं विष्णुञ्च वरदावाशिषां प्रभवायुभौ ।भक्त्या संपूजयेन्नित्यं यदीच्छेत् सर्व्वसम्पदः
प्रणमेद्दण्डवद्भूमौ भक्तिप्रह्वेण चेतसा ।दशवारं जपेन्मन्त्रं ततः स्तोत्रमुदीरयेत्
युवान्तु विश्वस्य विभू जगतः कारणं परम् ।इयं हि प्रकृतिः सूक्ष्मा मायाशक्तिर्दुरत्यया ।तस्या अधीश्वरः साक्षात् त्वमेव पुरुषः परः
त्वं सर्व्वयज्ञ इज्येयं क्रियेयं फलभुग्भवान् ।गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग्भवान्
त्वं हि सर्व्वशरीर्य्यात्मा श्रीः शरीरेन्द्रियासवः ।नामरूपे भगवती प्रत्ययस्त्वमपाश्रयः
यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ ।तथा उत्तमश्लोक ! सन्तु सत्या महाशिषः
इत्यभिष्टूय वरदं श्रीनिवासं श्रिया सह ।तन्निसार्य्योपहरणं दत्त्वाचमनमर्च्चयेत्
ततः स्तुवीत स्तोत्रेण भक्तिप्रह्वेण चेतसा ।यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्च्चयेद्धरिम्
पतिञ्च परया भक्त्या महापुरुषचेतसा ।प्रियैस्तैस्तैरुपनमेत् प्रेमशीलः स्वयं पतिः
बिभृयात् सर्व्वकर्म्माणि पत्न्या उच्चावचानि ।कृतमेकतरेणापि दम्पत्योरुभयोरपि
पत्न्यां कुर्य्यादनर्हायां पतिरेतत् समाहितः ।विष्णोर्व्रतमिदं बिभ्रन्न विहन्यात् कथञ्चन
विप्रान् स्त्रियो वीरवतीः स्रग्गन्धबलिमण्डनैः ।अर्च्चेदहरहर्भक्त्या देवं नियममास्थिता
उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः ।अद्यादात्मविशुद्ध्यर्थं सर्व्वकामसमृद्धये
एतेन पूजाविधिना मासान् द्वादशहायनम् ।नीत्वाथोपरमेत् साध्वी कार्त्तिके चरमेऽहनि
श्वोभूतेऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्व्ववत् ।पयःशृतेन जुहुयाच्चरुणा सह सर्पिषा ।पाकयज्ञविधानेन द्बादशैवाहुतीः पतिः
आशिषः शिरसादाय द्विजैः प्रीतैः समीरिताः ।प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया
आचार्य्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः ।दद्यात् पत्न्यै चरोः शेषं सुप्रजस्त्वं सुसौभगम्
एतच्चरित्वा विधिवद्व्रतं विभो-रभीप्सितार्थं लभते पुमानिह ।स्त्री चैतदास्थाय लभेत सौभगंश्रियं प्रजां जीवपतिं यशो गृहम्
कन्या विन्देत समग्रलक्षणंपतिं त्ववीरा हतकिल्विषाङ्गतिम् ।मृतप्रजा जीवसुता धनेश्वरीसुदुर्भगा सुभगा रूपमग्रियम्
विन्देदविरूपा विरुजा विमुच्यतेय आमयावीन्द्रियकल्यदेहम् ।एतत् पठन्नभ्युदये कर्म्म-ण्यनन्ततृप्तिः पितृदेवतानाम्
तुष्टाः प्रयच्छन्ति समस्तकामान्होमावसाने हुतभुक् श्रीर्हरिश्च ।राजन्महन्मरुतां जन्मपुण्यंदितेर्व्रतञ्चाभिहितं महत्ते
”इति श्रीभागवते स्कन्धे पुंसवनव्रतकथनं १९अध्यायः
(पुंवत् सूयते इति कर्म्मणि ल्युट् ।गर्भः इति श्रीधरस्वामी
यथा, भागवते ।५ २४ १५ “यस्मिन् प्रविष्टेऽसुरबधूनां प्रायःपुंसवनानिभयादेव स्रवन्ति पतन्ति
*
पुत्त्रोत्पादके, त्रि यथा, भागवते २८ ।“पप्रच्छुः कस्य कर्म्मेदं पीतं पुंसवनं जलम्
”तथा तत्रैव १३ ३७ -- ३८ ।“स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम् ।अवघ्राय मुदा युक्तः प्रादात् पत्न्या उदारधीः
सा तत् पुंसवनं राज्ञी प्राश्य वै पत्युरादधे ।गर्भं काल उपावृत्ते कुमारं सुषुवे प्रजाः
”)
वाचस्पत्यम्
Sanskrit
पुंसवन
न०
पुमान् सूयते अनेन सू--करणे ल्युट् स्त्रीणां गर्भ-पात्रसंस्कारभेदे तच्च कर्म द्विविधम् यथाह ज्यो० त० गोभिलः“तृतीयस्य गर्भमासस्यादिमदशे पुंसवनस्य कालः” गर्भेसति तृतीयमासस्य आदिमदशे दशमदिनाभ्यन्तरे ज्यो-तिःशास्त्रोक्तकाले पुंसवनं कार्य्यम् “प्रातः सशिरस्का-प्लुता पश्चादग्नेरुदगग्रेषु कुशेषु प्राच्युपविशति” गो० आ-प्लुवा स्नाता पश्चात् प्रश्चिमदिशि प्राङ्मुखी उपविशति“पत्युर्दक्षिणतः पाणिग्राहकस्योपविशति” इत्यन्यत्र दर्श-नात् पश्चादित्यभिधानात् अग्निस्थापनं लभ्यते तत्सार्थकत्वाय “आज्वं द्रव्यमनादेशे जुहोतिषु विधीयते ।मन्त्रस्य देवताऽलाभे प्रजाषतिरिति स्थितिः” इति छन्दोग-परिशिष्टोक्तद्रव्यादि लभ्यते जुहोतिषु हवनेषु मन्त्रस्या-नादेशे प्रजापतिः प्राजापत्थोमन्त्रः मन्त्रः व्या-हृत्यात्मकः ततश्च विरूपाक्षजपान्तां कुशण्डिकां समाप्यसमित्प्रक्षेपादिमहाव्याहृतिमिर्होमं कृत्वा प्रजापतिदेव-ताकसमस्तपहाव्याहृतिहोमं कुर्य्यात् ततः प्रकृतंकर्म तत्र गौभिणः “पश्चात् पतिरवस्थाय दक्षिणेनपाणिना दक्षिणमंसमन्ववमृष्यानाहितं नाभिदेशम-भिस्पृणेत् पुमासौ मित्रावरुणावित्येतयर्च्चा” उपवि-ष्टाया बध्याः पश्चिमदेशं गत्वानुपविष्टः पतिर्दक्षिण-हस्तेन तूष्णीं तस्या दक्षिणस्कन्धमवमृव्य वस्त्राद्यव्यव-हितं नाभिं पुंमासाविति मन्त्रेण स्पृशेत् अथअनन्तरं वामदेव्यगानान्तं समापयेत् यदि त्वशक्ते-र्देशाचारात् कुलाचाराद्वा एकस्मिन् दिने द्वितीयपुंस-वनमपि क्रियते तदा गणेष्वेकं परिसमहनम “इष्मोवर्हिःपर्युक्षणमाज्यभागः सर्वेभ्यः समवदोय सक्लदेवपौनिष्टिकृतं प्रुहोतीति” गोमिलसूत्रान्तरात् उभय-कर्मान्ते वामदेव्यगानाद्युदीच्यं कर्म कर्त्तव्यम् अतएवसरलायां दिनद्वये भट्टभाष्यभवदेवयोरेकदिने उभयकरणंलिखितम् “अथापरम्” गो० अथ प्रथमपुंसवनसमाप्ति-कालानन्तरं तदानीमपरमन्यत् पुंसवनं कार्य्यम् “प्रागु-दीच्यां दिशि न्यग्रोधशुङ्गामुभयतःफलामम्लानामकृमि-परिमृष्टां त्रिःसप्तभिर्यवैर्माषैर्वा परिक्रीय उत्थापयेत् ।यद्यसि सौमी सोमाय त्वा वह्ने परिक्रीणामि, यद्यसिवारुणी वारुणाय त्वा वह्ने परिक्रीणामि, यद्यसि व-सुभ्यः वसुभ्यस्त्वापरिक्रीणामि, यद्यसि रुद्रेभ्यो रुद्रेभ्यस्त्वापरिक्रीणामि, यद्यसि आदित्येभ्य आदित्येभ्यस्त्वा परि-कीणामि, यद्यसि मरुद्भ्यो मरुद्भ्यस्त्वा परिक्रीणामि, यद्यसि विश्वेभ्यो देवेभ्यस्त्वापरिक्रीणामि ओषधयः सुम-नसो भूत्वा अस्यां वीर्य्यं समाधत्त इयं कर्म करिष्यती-त्युत्थाप्य तृणैः परिधायाहृत्य वैहायसीं निदध्यात्” सू० ।वटतरोः पूर्वस्यां दिशि शुङ्गा मुकुलितप्लवः “लताग्र-स्यप्लवो गूढः शुङ्गेति परिकीर्त्त्यते पतिव्रता व्रतवतीब्रह्मबन्धुस्तथाऽश्रुतः” इत्युक्तेः अश्रुतो वेदहीनः तांफलयुगलयुतामम्लानां कृमिभिरव्याप्तां त्रिरावृत्तैः सप्त-भिर्यवैर्माषैर्वा त्रिरावृत्तैः क्रीत्वा गृह्णीयात् क्रयश्चवृक्षस्वामिनी, वृक्षात् तेन वृक्षस्वामिने यवा माषा वादेदाः यद्यसीत्यादि सप्तभिर्मन्त्रैः प्रतिमन्त्रञ्च गुडक-त्वयम् दद्यात् ओषधय इति मन्त्रेणीत्थाप्य तृणै-र्वेष्टयित्वा आनीयाकाशस्थां निदध्यात् दृशदं प्रक्षाल्यब्रह्मचारोवतवती वा ब्रह्मबन्धुः कुमारी वा अप्रत्या-हरन्ती पिनष्टि दृशदं शिलां पेषणार्थत्वेन सपुत्रां कुमारीअनूढा व्रतवती पतिव्रता अप्रत्याहरन्ती तिर्य्यक्पुत्रकेण पेषणमकुर्वती किन्तूच्छ्रितपुत्रकेण पुनःपुनः मषणंकुर्वती प्रातःसशिरस्काप्लुता उदगग्रेषु कुशेषु प्राक्-शिराः संविशति शेते शेषं सुगमम् “पश्चात् पतिरव-स्याय दक्षिखस्य प्राणेरङ्गुष्ठेनोपकनिष्ठयाऽङ्गुल्या अ-भिसगृह्य दक्षिणनासिकाग्रेण तस्या नयेत् पुनानग्निःपुमानिन्द्र इत्येतयर्च्चा” सू० पश्चाद्बध्वाः पश्चिम-दिशि उपकनिष्ठयानामिकया तेनाङ्गुष्ठानामिकाभ्याम् ।पिष्टां शुङ्गां वस्त्रबद्धां गृहीत्वा निष्पीड्य दक्षिणना-सारन्धे क्षिपेत् पुमानग्निरिति मन्त्रेण अथ अनन्वरं दाक्षणाद्युदीच्यं कर्म कुर्य्यात् पुंसवनकर्माधान-कर्तुरसन्निधानेऽन्येनापि कर्त्तव्यम् “अष्टौ संस्कारक-र्माणि गर्भाधानमिव खयम् पिता कुर्य्यातदन्थो वातस्याभावेऽपि तत्क्रमात्” इति स्मृतेः मुजयये “सुफ-लञ्च करे कृत्वा स्थिरे तत्रासने तथा गृह्योदितेनहोमञ्च शान्तिञ्चैव कारयेत् ऊर्णासूत्रेण संग्रथ्यजीबं जातीञ्च विक्रमम् गुवाकं रजतं हेम दद्यात् स्तनतटान्तरे तत्प्रभृति नदीतीरं देवखातोदकं त्यजेत् ।सन्ध्याटनं तरोर्मूखं तथा देवगृहं त्यजेत्” ।पुंसवन मुहूर्त्तादिकं मु० चि० पी० उक्तं यथा“पूर्वोदितैः पुंसवनं विधेयं मासे तृतीये त्वथ विष्णुपूजा”मु० चि० “पूर्वोदितैरिति पूर्वं सीमन्तोन्नयने उदितैःप्रोक्तैस्तिथिवारनक्षत्रलग्नैरुपलक्षिते तृतीये मासि पुंस-वनाख्यं कर्म विधेयम् पुमान् सूयतेऽनेन कर्मणेतिव्युत्पत्त्या पुंसवनकर्मणा पुंस्त्वहेतुना यदाह शौनकः“व्यक्ते वर्भे तृतीये तु मासे पुंसवनं भवेत् गर्भेऽव्यक्तेतृतीये चेत् चतुर्थे मासि वा भवेत्” नृसिहः “सीमन्तोन्न-यनस्योक्ततिथिवासरराशिषु पुंसवं कारयेद्विद्वान् सहैवै-कदिनेऽथ वा” इति विशेषमाह वसिष्ठः “कुर्य्यात्पुंस-वनं प्रसिद्धविषये गर्भे तृतीयेऽथ वा मासि स्फीततनौतुषारकिरणे पुष्येऽक्ष वा वैष्णवे हित्वा कर्कटकं नृयु-ग्ममवलामन्येष्वरिक्ते तिथौ शुद्धे नैधनधाम्नि शुक्रशशभृद्विन्मन्धिणां वासरे” इति नैधनधास्नि अष्टम-स्थाने शुद्धे सर्वग्रहरहिते यदाह वसिष्ठः “अष्टमस्थाग्रहाः सर्वे नेष्टास्तेऽस्ते शुभावहाः एवं सम्यक् परी-क्ष्यैव कुर्य्यात्पुंसवनक्रियाम्” इति वारास्त्वत्र सौम्य-ग्रहाणामुक्ता वृहस्पतिरप्यत्र विशेषमाह “गुरुशुक्र-बुधेन्दूनां देष्काणदिवसांशकाः तेषामुदयहोराश्च पुं-सवेऽतिशुभावहाः” इति अन्यैस्तु श्रीपत्यादिभिः पुंवाराएव प्रशस्ता अभिहितास्तत्फलान्याह गर्गः “सौम्येगृतपन्ता मन्दे मृत्युर्बन्ध्या भार्गवे सोमे दुग्धविही-ना स्यात् शेषाः सर्वार्थसिद्धिदा” इति अत्र वचनद्वयग्रामाण्याद्विकल्यः केचित्तु यदा तृतीये मासि पुंस-वनं चिकीर्षितं तदा सौम्ववारा एव ग्राह्याः यदा तुचतुर्थे मासि गर्भस्य व्यक्तत्वात् पुंसवनं चिकीर्षितं तदापु वारा एव ग्राह्या इत्याहुः नक्षत्राणि ह्यत्र पुंना-मानि ग्राह्याणि तानि “श्रवणः सकर” इति श्रीपति-नोक्तानि वसिष्ठेन तु पुंनामान्यभिहितानि यथा“पुंनाम श्रवणं विष्यः स्वाती हस्तः पुनर्वसुः मूणंप्रोष्ठपदं चानुराधा मृगशिरोऽश्विनी” बिशेषमाह ऋ-क्षोच्चयः “हस्तार्द्रातिष्यमूलानि सौम्यी विष्णुः पुन-र्वसुः प्रोष्ठपदाद्वयं प्रोक्तमाषाढद्वयमेव श्रेष्ठानिकथितान्येव धिष्ण्याग्येकादशैव तु स्वातौ तथा म-चायां रेवत्यां फल्गुनीद्वये अश्विन्यां चैव नक्षत्रेयदा पुंसवनं मवेत् नरः सम्पद्यते दैवाद्यदा स्याद्गु-रुतल्पगः लुव्योह्वखतनुः क्रूरो नारी चेत् कुलटामवेत् शेषाणि दश धिष्ण्यानि निन्दितानि विशेषतः”तदेतयोर्द्विरुद्धार्थयोर्वाक्ययोर्देशाचारतो व्यवस्था तत्रवसिष्ठवाक्येन दाक्षिणात्याप्यवहरन्ति प्राच्यास्तुऋक्षोच्चयवाक्येन अथ लग्नशुद्धिमाह ऋक्षोच्चयः“मीनवृश्चिककुम्भेषु चापगोसिंहकन्यकाः उक्ताः पुंस-वनाद्येषु सुखपुत्रादिवाञ्छया केन्द्रत्रिकोणभवनेषुशुभस्थितेषु पापेषु षट्त्रिदशलामगृहस्थितेषु जीवेन्दु-भानुभृगुभूमिजमन्दिरेषु लग्नेषु लग्नपरिशुद्धशुर्भाश-केषु” अत्रापि स्त्रीपुंसयोश्चन्द्रवलमावश्यकमित्याहनृसिंहः “अपि पुंसवनं कार्यं दम्पत्योरनुकुलभे ।जन्मादि वर्जयेद्राशिं चांशकं विपदादिषु” इति पी० धा० ।“कुर्य्यात् पुंसवनं सुयोगकरणे नन्दे सभद्रे तिथौभाद्राषाढनृभेश्वरेषु नृदिने वेधं विनेन्दौ शुभे अक्षीणेनवपञ्चकण्टकगते सौग्ये शुभे वृद्धिषु स्त्रीशुद्ध्या घटयुग्मसूर्य्यगुरुभेषूद्यत्सु मासत्रये” ज्यो० त० नृदिने पुंग्रहवारे वेधो दशयोगभङ्गः वृद्धिरुपचयनस्थानम् ।अप् पुंसवोऽप्यत्र
पु०
।पुंसवनव्रतञ्च भाग० स्कन्धे १९ अ० “शुक्ले मार्गशिरेपक्षे योषिद्भर्त्तृरनुज्ञया आरभेत व्रतमिदं सार्वकामिक-मादिशेत्” इत्युपक्रम्योक्तं दृश्यम्
Capeller
German
पुंसवन ein männliches Kind gebärend
n.
eine best. Ceremonie beim Anfang der
Schwangerschft (r.).