| YouTube Channel

पील (pIla)

 
शब्दसागरः
English
पील r. 1st cl. (पीलति)
1. To stop, to cease to be or do.
2. To become
stupid. भ्वा० पर० सक० सेट्
Wilson
English
पील r. 1st cl. (पीलति)
1 To stop, to cease to be or do.
2 To become stupid.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
पील्
मूलधातुः:
पील
धात्वर्थः:
प्रतिष्टम्भे (रोधनम्)
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
पीलति
धातुप्रदीपः
Sanskrit
पीलँ पील प्रतिष्टम्भे
- पीलति पीलुः, मृगय्वादित्वात् कुः ।। 521 ।।
शब्दकल्पद्रुमः
Sanskrit
पील, रोधे इति कविकल्पद्रुमः
(भ्वां-परं-अकं-सेट् ।) दीर्घी रोधः क्रियानिरोधःजडीभावः इत्यर्थः पीलति पशुः इति दुर्गा-दासः
वाचस्पत्यम्
Sanskrit
पील रोधे
भ्वा०
पर०
सक०
सेट् पोलति अपीलीत् पिपील
क्षीरतरङ्गिणी
Sanskrit
पीलँ पील प्रतिष्टम्भे
- (अर्थविवरणम्) प्रतिष्टम्भो रोधनम्
पीलति पीलनम् क्वसु-नेड् वशि कृति (728) पिपील्वान् खरुशङ्कु (उ0137) इति बाहुलकात् पीलुः पिपीलकः, पिपीलिका 511
धातुवृत्तिः
Sanskrit
पीलँ पील (अर्थः) प्रतिष्टम्भे
(अर्थविवरणम्) प्रतिष्टम्भो रोधनम्
( पीलति पिपील पीलितेत्यादि पीला नाम )का चित् अगुपधलक्षणे कप्रत्यये टाप् पीलाया अपत्यं (पैनः) "पीलाया वा'' इत्यण् तदभावे ढक् इति (पैलेयः) अणन्तादपत्याञि "तस्य "पैलाइभ्यश्च'' इति लुकि (पैलः) पुत्रः (पीलुः) मृगय्वादिभ्यश्चेति उप्रत्ययः (पीलोःपाक्रः, पीलुकुणः, ) "तस्य पाकूले पील्वादिकर्णादिभ्यः कुणव्जाहचौ'' इति पष्ठ्यन्तात्पील्वादेः कर्णादेश्च यथासंख्यंपाकमूलयोः कुणब्जाहचोविधानादस्मात् कुणप् , क्रकारस्य "लशक्कतद्धिते'' इति तद्धितत्वान्नेत्वम् 515
कृदन्तरूपमाला
Sanskrit
1 {@“पील प्रतिष्टम्भे”@} 2 प्रतिष्टम्भः = रोधनम्।
पीलकः-लिका, पीलकः-लिका, पिपीलिषकः-षिका, पेपीलकः-लिका
इत्यादीनि सर्वाणि रूपाणि भौवादिककीलतिवत् 3 बोध्यानि।
पीलितः 4।
प्रासङ्गिक्यः
01
=>
(१००८)
02
=>
(१-भ्वादिः-५२१। अक। सेट्। पर।)
03
=>
(१९५)
04
=>
[[C। ‘पिच्छस्रजा पीलितनीलकुन्तलं शीलेन संकीलितलोकमानसम्।।’ धा। का। १। ६७।]]