| YouTube Channel

पीताब्धिः (pItAbdhiH)

 
Apte Hindi
Hindi
पीताब्धिः
पुं*
पीत-अब्धिः -
अगस्त्य का विशेषण
Wordnet
Sanskrit
Synonyms:
अगस्तिः, अगस्त्यः, पीताब्धिः, मैत्रावरूणिः, कुम्भसम्भवः, वातापिद्विट्, आग्नेयः, और्वशीयः, आग्निमारुतः, घटोद्भवः, सिन्धुपिबः, सिन्धुपिब, कूटः
noun
मुनिविशेषः, मित्रावरुणयोः पुत्रः।
"अगस्तिः सागरं पीतवान्।"
शब्दकल्पद्रुमः
Sanskrit
पीताब्धिः,
पुं,
(पीतः अब्धिः समुद्रो येन ।)अगस्त्यमुनिः इति हेमचन्द्रः ३६
(अगस्त्यमुनेः समुद्रपानकथा यथा, भहा-भारते १०५ -- ।“समुद्रं समासाद्य वारुणिर्भगवानृषिः ।उवाच सहितान् देवानृषींश्चैव समागतान्
अहं लोकहितार्थं वै पिबामि वरुणालयम् ।भवद्भिर्यदनुष्ठेयं तच्छीघ्रं संविधीयताम्
एतावदुक्त्वा वचनं मैत्रावरणिरच्युतः ।समुद्रमपिबत् क्रुद्धः सर्व्वलोकस्य पश्यतः
पीयमानं समुद्रस्तु दृष्ट्वा सेन्द्रास्तदामराः ।विस्मयं परमं जग्मुः स्तुतिभिश्चाप्यपूजयन्
त्वं नस्त्राता विधाता लोकानां लोकभावन ! ।तत्प्रसादात् समुच्छेदं गच्छेत् सामरं जगत्
संपूज्यमानस्त्रिदशैर्महात्मागन्धर्व्वतूर्य्येषु नदत्सु सर्व्वशः ।दीव्यैश्च पुष्पैरवकीर्य्यमाणोमहार्णवं निःसलिलं चकार
”)