| YouTube Channel

पीतनं (pItanaM)

 
शब्दकल्पद्रुमः
Sanskrit
पीतनं,
क्ली,
(पीतं करोतीति तत्करोतीति णिच् ।ततो ल्युः यद्वा, पीतं पीतवर्णं नयतीति ।नी + डः ।) कुङ्कुमम् (यथा, श्रीकण्ठचरिते ।९ ३४ ।“अपहृत्य पीतनमशेष-ममरसुदृशां शरीरतः ।भीत इव गहननाभिगुहांप्रपलाय्य तूर्णमविशत् पयोभरः
”)हरितालम् पीतदारु इत्यमरमेदिन्यौ