| YouTube Channel

पीतचन्दनं (pItacandanaM)

 
शब्दकल्पद्रुमः
Sanskrit
पीतचन्दनं,
क्ली,
(पीतं चन्दनमिति नित्यकर्म्म-धारयः ।) पीतवर्णचन्दनम् तत्तु द्रविडदेशेप्रसिद्धम् कलम्बक इति ख्यातम् तत्पर्य्यायः ।पीतगन्धम् कालेयम् पीतकम् माधव-प्रियम् कालेयकम् पीतकाष्ठम् वर्व्वरम्८ इति राजनिर्घण्टः
कालीयकम् ९कालीयम् १० वीताभम् ११ हरिचन्दनम् १२हरिप्रियम् १३ कालसारम् १४ कालानुसार्य्य-कम् १५ अस्य गुणाः रक्तचन्दनगुणतुल्य-गुणत्वम् व्यङ्गनाशित्वञ्च इति भावप्रकाशः
शीतलत्वम् तिक्तत्वम् कुष्ठश्लेष्मकण्डूविच-र्च्चिकादद्रुक्रिमिनाशित्वम् कान्तिकरत्वञ्च ।इति राजनिर्घण्टः