| YouTube Channel

पीतकं (pItakaM)

 
शब्दकल्पद्रुमः
Sanskrit
पीतकं,
क्ली,
(पीत + “यावादिभ्यः कन् ।” ।४ २९ इति स्वार्थे कन् ।) हरितालम् ।इत्यमरः
(पीतेन पीतवर्णेन कायतीति कै +कः ।) कुङ्कुमम् इति जटाधरः
(अस्यपर्य्यायो लक्षणञ्च यथा, --“कुङ्कुमं घुसृणं रक्तं काश्मीरं पीतकं वरम् ।सङ्कोचं पिशुनं धीरं वाह्लीकं शोणिताभिधम्
काश्मीरदेशजे क्षेत्रे कुङ्कुमं यद्भवेद्धितम् ।सूक्ष्मकेशरमारक्तं पद्मगन्धि तदुत्तमम्
वाह्लीकदेशसञ्जातं कुङ्कुमं पाण्डुरम्मतम् ।केतकीगन्धयुक्तन्तन्मध्यमं सूक्ष्मकेशरम्
कुङ्कुमं पारसीकेयम्मधुगन्धि तदीरितम् ।ईषत्पाण्डुरवर्णन्तदधमं स्थूलकेशरम्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)अगुरु पद्मकाष्ठम् रीतिः माक्षिकम् इतिराजनिर्घण्टः
नन्दीवृक्षः पीतशालः इतिरत्नमाला
श्योनाकप्रभेदः हरिद्रुः किंकि-रातवृक्षः इति राजनिर्घण्टः
(पीतेनपीतवर्णेन रक्तमिति पीत + “लाक्षारोचना-ठ्ठक् ।” इत्यस्य “पीतात् कन् ।”इति वार्त्तिकोक्त्या कन् पीतवर्णरञ्जिते पीत-वर्णविशिष्टे त्रि
पीत + स्वार्थे कन् ।पीतवर्णे, पुं यथा, महाभारते १२ ।१८८ ।“ब्राह्मणानां सितो वर्णः क्षत्त्रियाणान्तु लोहितः ।वैश्यानां पीतको वर्णः शूद्राणामसितस्तथा
”)