| YouTube Channel

पीतं (pItaM)

 
Hindi
Hindi
पीला
शब्दकल्पद्रुमः
Sanskrit
पीतं,
क्ली,
(पा + भावे क्तः ।) पानम् इतिमेदिनी ते, ३४
(पीतो वर्णोऽस्यास्तीति ।अच् पीताभत्वादस्य तथात्वम् ।) हरितालम् ।इति राजनिर्घण्टः
(हरिचन्दनम् तत्पर्य्यायोयथा, वैद्यकरत्नमालायाम् ।“पीतसारं सुशीतञ्च तत्पीतं हरिचन्दनम्
”)
पीतं, त्रि, (पीतवर्णोऽस्यास्तीति अच् ।) पीत-वर्णयुक्तम् इति मेदिनी ते, ३४ (यथा, महाभारते ४१ २० ।“ये त्विमे निशिताः पीताः पृथवो दीर्घवाससः ।हेमशृङ्गास्त्रिपर्व्वाणो राज्ञ एते महाशराः
”पा + कर्म्मणि क्तः ।) कृतपानम् यथा, --“हालाहलमपि पीतं बहुशो भिक्षापि भक्षिताभवता ।अनयोरवगतरसयोः कियदन्तरं वद योगिन् !
”इत्युद्भटः
(पीतं पानमस्त्यस्येति अच् यद्वा, पीतं नीरक्षीरं वा येन इत्युत्तरपदलोपः पीतदुग्धादि-कम् यथा, रघौ ।“अथ प्रजानामधिपः प्रभातेजायाप्रतिग्राहितगन्धमाल्याम् ।वनाय पीतप्रतिबद्धवत्सांयशोधनो धेनुमृषेर्मुमोच
”)