| YouTube Channel

पीड (pIDa)

 
शब्दसागरः
English
पीड(ऋ)पीडृ r. 10th cl. (पीडयति-ते)
1. To give pain, to annoy, to
hurt.
2. To oppose or resist.
3. To stir, to agitate.
4. To
squeeze or pinch.
5. To cover with anything inauspicious.
6. To press, (as corns.) बधे विलोडनेच चु० उभ० सक० सेट्
Wilson
English
पीड (ऋ) पीडृ r. 10th cl. (पीडयति)
1 To give pain.
2 To oppose or resist.
3 To stir, to agitate.
4 To squeeze or pinch.
Monier Williams Cologne
English
पीड
m.
n.
in तिल-प्°, त्रिण-प्°.
Monier Williams 1872
English
पीड, अस्, अम्, m. n., in तिल-प्°, तृण-प्°, q. v.
—पीड-यन्त्र-गृह, अस्, m. a workhouse for
criminals, house of correction.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
पीड्
मूलधातुः:
पीड
धात्वर्थः:
अवगाहने
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
पीडयति-ते
धातुप्रदीपः
Sanskrit
पीडँ पीड अवगाहने
- पीडयति अपीपिडत् अपिपीडत् पीडा 11
शब्दकल्पद्रुमः
Sanskrit
पीड, वाधे गाहे इति कविकल्पद्रुमः
(चुरां-परं-सकं-सेट् ।) वाधो विहतिः गाहोविलोडनम् ऋ, अपीपिडत् अपिपीडत् क, पीडयति शत्रुं लोकः पीडयति स्तनं कामी ।इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
पीड बधे विलोडने
चु०
उभ०
सक०
सेट् पीडयति ते ऋदित्अपिपीडत् पीडा पीडनम् धान्यादेर्मर्दने ।आ + भूषणे
सक०
आपीडयति आपीडा ।अवादिपूर्वकस्तु तत्तदुपसर्गद्योत्यार्थयुक्ते विलोडने
क्षीरतरङ्गिणी
Sanskrit
पीडँ पीड गहने
- (अर्थविवरणम्) गहनं बाधा
पीडयति क्तिनं बाधित्वा युचि प्राप्ते (द्र0 33107) भिदादित्वात् (गण0 33104) पीडा भ्राजभासभाषदीप (743) इत्यपिपीडत् अपीपिडत् पीड अवगाहन इति दुर्गः-तिलपीडकः 11
धातुवृत्तिः
Sanskrit
पीडँ पीड (अर्थः) अवगाहने
( पीडयति अपीपिडत् अपिपीडत् ) "भ्राजभास'' इत्यादिना णौ चङ्युपधाह्रस्वविकल्पः ( पीडा ) भिदादिनपाठादङ् ( पाणावुपपीडं धारयति, पाण्युपपीडं धारयति ) पाणिनोपपीडमिति वा "सप्तम्यां चोपपीड'' इति सप्तमीतृतीयान्तयोर्णमुल् तृतीयाप्रभृतित्वात् समासविकल्पः "धनुरभिरसह्यं मुष्टिपीडं दधान' इति वदन् भट्टिकार उपोपसर्गग्रहणमतन्त्रं मन्यते 11
कृदन्तरूपमाला
Sanskrit
1 {@“पीड अवगाहने”@} 2 अवगाहनम्--बाधनम्।
‘बाधगाहनयोः’ इति द्रुमे।
‘--गहने’ इति क्षीरस्वामी।
पीडकः-डिका, पिपीडयिषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककीटयतिवत् 3 ज्ञेयानि।
णमुलि-- 4 पाणावुपपीडं पाण्युपपीडं, पाणिनोपपीडं 5।
6 पीडा, 7 जनापीडः, 8 मुष्टिपीडम्, 9 10 नयोपपीडम्, 11 तिलपीडकः, 12 बाहूपपीडम्।
प्रासङ्गिक्यः
01
=>
(१००७)
02
=>
(१०-चुरादिः-१५४४। सक। सेट्। उभ।)
03
=>
(१९४)
04
=>
[[४। ‘सप्तम्यां चोपपीडरुधकर्षः’ (३-४-४९) इति णमुल्। ‘तृतीयाप्रमृतीन्यन्यतरस्याम्’ (२-२-२१) इति समासविकल्पः।]]
05
=>
[वा धारयति]
06
=>
[[५। युचं बाधित्वा भिदादिपाठात् (३-३-१०४) अङ्।]]
07
=>
[[६। ‘कर्मण्यण्’ (३-२-१) इति अण्प्रत्यये रूपम्। जनान्, = समन्तात् पीडयतीति विग्रहः।]]
08
=>
[[C। ‘धनुररिभिरसह्यं मुष्टिपीडं दधाने।’ (भ। का। १-२६) इत्यत्र ‘उप’ इत्युप- सर्गस्याविवक्षा ज्ञेया। यथा ‘उपेयिवान्’ इत्यत्र, ‘ईयिवान्’ इति सिद्ध्यर्थं ‘उप’ इत्यस्याविवक्षा।]]
09
=>
[पृष्ठम्०८६६+ २७]
10
=>
[[आ। ‘सलीलमालिङ्ग्य नयोपपीडमनामयं पृच्छति वासवस्त्वाम्।’ नैषधे ६। ७८।]]
11
=>
[[१। पीडयतीति पीडकः। तिलस्य पीडकः तिलपीडकः = तैलाविष्करणार्थो दारु- विशेषः।]]
12
=>
[[B। ‘बाहूपपीडमाश्लिष्य जगाहे द्यां निशाचरः।।’ भ। का। ५। ९४।]]