| YouTube Channel

पीठमर्द्दः (pIThamarddaH)

 
शब्दकल्पद्रुमः
Sanskrit
पीठमर्द्दः,
पुं,
(मृद्नातीति मृद् + अच् ।पिठस्यासनस्य मर्द्दः ।) नायकविशेषः तस्यलक्षणम् कुपितस्त्रीप्रसादकः उदाहरणंयथा, --“कोऽयं कोपविधिः प्रयच्छ करुणागर्भं वचोजायतांपीयूषद्रवदीर्घिकापरिमलैरामोदिता मेदिनी ।आस्तां वा स्पृहयालु लोचनमिदं व्यावर्त्तयन्ती-मुहु-र्यस्मै कुप्यसि तस्य सुन्दरि ! तपोवृन्दानिवन्दामहे
नर्म्मसचिवोऽप्ययमेव ।” इति रसमञ्जरी
(अयंहि नायकस्य उत्तमसहायानामन्यतमः इतिसाहित्यदर्पणम् ५३
नायकप्रियः अति-धृष्टः यथा, मेदिनी दे, ५० ।“पीठमर्द्दोऽति धृष्टे स्यात् नायकस्य प्रियेऽपि
”यथा, महाभारते २० ३३ ।“प्रेक्षते स्म विराटस्तु कङ्कश्च बहवो जनाः ।रथिनः पीठमर्द्दाश्च हस्त्यारोहाश्च नैगमाः
”)