| YouTube Channel

पिहितं (pihitaM)

 
शब्दकल्पद्रुमः
Sanskrit
पिहितं, त्रि, (अपि धीयते स्मेति धा + क्तः ।“दधातेर्हिः ।” ४२ इति ह्यादेशः ।अपेरल्लोपः ।) आच्छादितम् तत्पर्य्यायः ।संवीतम् रुद्धम् आवृतम् संवृतम् ५छन्नम् स्थगितम् अपवारितम् अन्त-र्हितम् तिरोधानम् १० इति हेमचन्द्रः
(यथा, महाभारते ४४ १८ ।“ध्वजेन पिहिताः सर्व्वा दिशो प्रतिभान्ति मे ।गाण्डीवस्य शब्देन कर्णौ मे वधिरीकृतौ
”)