| YouTube Channel

पिसृ (pisR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
पिस्
मूलधातुः:
पिसृ
धात्वर्थः:
गतौ
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
पेसति
धातुप्रदीपः
Sanskrit
पिसृँ पिसृ
मानकरूपान्तरम् - पेसृँ
पेसृ गतौ
- पेसति अपिपेसत् पिसः पेस्वरः पेसति पेपेस्यते ।। 719, 720 ।।
क्षीरतरङ्गिणी
Sanskrit
पिसृँ पिसृ
मानकरूपान्तरम् - पेसृँ
पेसृ गतौ
- पेसति स्थेशभासपिस (32175) इति वरच्-पेस्वरः चुरादौ पिस गतौ (1028) पेसयति पिशृ पेसृ वेसृ इति सभ्याः वेसरो ऽश्वतरः 699, 700
धातुवृत्तिः
Sanskrit
पिसृँ पिसृ
मानकरूपान्तरम् - पेसृँ
पेसृ (अर्थः) गतौ
(पेसति पेसयति अपिपेसत् एकारोपधपाठः किदर्थ इति (पिपेसतुः पेपेस्यत इत्यादि पेस्वरः ) "स्थेशभासपिसकसो वरच्'' इति वरच् इह क्क चित् विसृ वेसृ पिशृ पेशृ इत्यपि पठ्यन्ते आद्यौ दन्त्योष्ठ्यादी तालव्योष्मान्तौ चत्वार एते मैत्रयादिषु दृश्यन्ते पिस अवयव इति तु चुरादौ 707
कृदन्तरूपमाला
Sanskrit
1 {@“पिसृ गतौ”@} 2 ‘इह क्वचित्कोशे विसृ वेसृ--इति पठ्यते।’ इति मा।
धा।
वृत्तौ।
‘णौ पिंसयति भाषार्थे, गत्यां तु शपि पेसति।’ 3 इति देवः।
पेसकः-सिका, पेसकः-सिका, पिपिसिषकः-पिपेसिषकः-षिका, 4 पेपिसकः-सिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककिटतिवत् 5 बोध्यानि।
6 पेस्वरः, अनुपिसितः 7।
प्रासङ्गिक्यः
01
=>
(१००५)
02
=>
(१-भ्वादिः-७१९। सक। सेट्। पर।)
03
=>
(श्लो। १९२)
04
=>
[पृष्ठम्०८६५+ २९]
05
=>
(१९०)
06
=>
[[१। ‘स्थेशभासपिस--’ (३-२-१७५) इति ताच्छीलिके वरच्प्रत्यये एवं रूपम्।]]
07
=>
[[आ। ‘जीमूतचर्चिरवझर्झरवाद्यहृद्यं तेनैव चाऽनुपिसितो निलयं पिपेस।।’ धा। का। १। ८९।]]