| YouTube Channel

पिष्यमाणः (piSyamANaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“पिषॢ सञ्चूर्णने”@} 2 सञ्चूर्णनम् = धान्यादीनां चूर्णीकरणम्, हिंसा च।
पेषकः-षिका, पेषकः-षिका, 3 पिपिक्षकः-क्षिका, पेपिषकः-षिका
पेष्टा-पेष्ट्री, पेषयिता-त्री, पिपिक्षिता-त्री, पेपिषिता-त्री
4 5 चौरस्य] पिंषन्-ती, 6 पिंषन्, पेषयन्-न्ती, पिपिक्षन्-न्ती
-- 7 पेक्ष्यन्-न्ती-ती, पेषयिष्यन्-न्ती-ती, पिपिक्षिष्यन्-न्ती-ती
-- -- पेषयमाणः, पेषयिष्यमाणः, -- पेपिष्यमाणः, पेपिषिष्यमाणः
पिट्-पिषौ-पिषः
-- -- -- पिष्टम्-ष्टः, 8 पिष्टः, पेषितः, पिपिक्षितः, पेपिषितः-तवान्
पिषः, 9 पेषणः, पेषः, पिपिक्षुः, पेपिषः
पेष्टव्यम्, पेषयितव्यम्, पिपिक्षितव्यम्, पेपिषितव्यम्
पेषणीयम्, पेषणीयम्, पिपिक्षणीयम्, पेपिषणीयम्
पेष्यम्, पेष्यम्, पिपिक्ष्यम्, पेपिष्यम्
ईषत्पेषः-दुष्पेषः-सुपेषः
-- -- पिष्यमाणः, पेष्यमाणः, पिपिक्ष्यमाणः, पेपिष्यमाणः
पेषः, पेषः, पिपिक्षः, पेपिषः
पेष्टुम्, पेषयितुम्, पिपिक्षितुम्, पेपिषितुम्
पिष्टिः, 10 पिष्टिः, पेषणा, पिपिक्षा, पेपिषा
पेषणम्, पेषणम्, पिपिक्षणम्, पेपिषणम्
पिष्ट्वा, पेषयित्वा, पिपिक्षित्वा, पेपिषित्वा
विनिष्पिष्य, प्रपेष्य, प्रपिपिक्ष्य, प्रपेपिष्य
11 शुष्कपेषम् 12, 13 चूर्णपेषम्, रूक्षपेषं वा पिनष्टि।
14 उरःप्रतिपेषं 15 16 युध्यन्ते।
17 उदपेषं पिनष्टि।
18 मूर्धपेषम्, मूर्धानं पेषं वा युध्यन्ते।
पेषम् २, पिष्ट्वा २, पेषम् २, पेषयित्वा २, पिपिक्षम् २, पिपिक्षित्वा २, पेपिषम्
पेपिषित्वा
19 इति आकप्रत्यये, षकारस्य नकारः, गुणा- भावश्च निपातनात् भवति।
पिनष्ट्यनेन शत्रून् इति पिनाकः = रुद्रधनुः, शूलं वा।
अत्रैव गणे निपातनात् युगागमः, षकारस्य णकारः गुणाभावश्च।
अतः पिण्याकम् इत्यपि सिद्ध्यति।
पिण्याकम् = तिलपिष्टकल्कः।]] पिनाकः, पिण्याकम्।
प्रासङ्गिक्यः
01
=>
(१००२)
02
=>
(७-रुधादिः-१४५२। सक। अनि। पर।)
03
=>
[[२। सन्नन्ताण्ण्वुलि, ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वे, ‘षढोः कः सि’ (८-२-४१) इति षकारस्य ककारे, ‘इण्कोः’ (८-३-५७) इति सकारस्य षत्वे रूपमेवम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
04
=>
[पृष्ठम्०८६३+ २९]
05
=>
[[[१। ‘जासिनिप्रहणनाटक्राथपिषां हिंसायाम्’ (२-३-५६) इति कर्मणि षष्ठी। हिंसा- भिन्नार्थे तु ‘धानाः पिंषन्’ इत्यत्र न।]]
06
=>
[धानाः]
07
=>
[[आ। ‘… पेक्ष्यत्सु माधवमभङ्गभुजेषु तेषु।।’ धा। का। ३। २।]]
08
=>
[[२। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तप्रत्ययः। पिष्टः = सक्तुः।]]
09
=>
[[३। नन्द्यादेः (३-१-१३४) आकृतिगणत्वात् कर्तरि ल्युः।]]
10
=>
[[४। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तिच्। पिष्टिः = सक्तुः।]]
11
=>
[[५। ‘शुष्कचूर्णरूक्षेषु पिषः’ (३-४-३५) इति णमुल्। ‘कषादिषु यथाविध्यनुप्रयोगः’ (३-४-४६) इति णमुलन्तधातोरेवानुप्रयोगः। एवं चूर्णपेषम्, रूक्षपेषम् इत्यत्रापि ज्ञेयम्।]]
12
=>
[[B। ‘शुष्कपेषं पिनष्म्युर्वीम् अखिन्दानः स्वतेजसा।।’ भ। का। ६। ३७।]]
13
=>
[[C। ‘वर्म करतलयुगेन महत्तनुचूर्णपेषमपिषद् रुषा परः।।’ शि। व। १५। ७६।]]
14
=>
[[६। ‘स्वाङ्गे--’ (३-४-५४) इत्यनुवर्तमाने, ‘परिक्लिश्यमाने च’ (३-४-५५) इति द्वितीयान्तात् णमुल्। कृत्स्नमुरः पीडयन्तो युध्यन्ते इत्यर्थः। अध्रुवार्थोऽयं योगः।]]
15
=>
[[ड्। ‘पीडिते पुर उरःप्रतिपेषं भर्तरि स्तनयुगेन युवत्याः।’ शि। व। १०। ४६।]]
16
=>
[पृष्ठम्०८६४+ २४]
17
=>
[[१। ‘स्नेहने पिषः’ (३-४-३८) इति णमुल्। ‘पेषंवासवाहनधिषु च’ (६-३-५८) इति उदकशब्दस्योदादेशः। उदकेन पिनष्टीत्यर्थः।]]
18
=>
[[आ। ‘परितः पीड्यमानेऽङ्गे ध्रुवेऽप्युपपदे णमुल्। मूर्धपेषं नियुध्यन्ते, मूर्धानं पेषमित्यपि।।’ प्र। सर्वस्वे।]]
19
=>
[[२। ‘पिनाकादयश्च’ [द। उ। ३-३४]