| YouTube Channel

पिप्पल्याद्य (pippalyAdya)

 
वाचस्पत्यम्
Sanskrit
पिप्पल्याद्य
न०
चक्रदत्तोक्ते तैलभेदे “पिप्पलीं मधुकं विल्वंशताह्वां मदनं वचाम् कुष्ठं शटीं पुष्कराख्यं चित्रकंदेवदारु पिद्वा तैलं विपक्तव्यं द्विगुणक्षीरसंयु-तम् अर्शसां मूढवातानां तच्छेतमनुवासनम् गुद-निःसरण शूलं मूत्रकृच्छ्रं नवाहिकाम् कट्यूरुपृष्ठदौर्व-ल्यमानाहं वङ्क्षणाश्रयम् पिच्छास्रावं गुदे शोथंवातवर्च्चोविनिग्रहम् उत्थानं बहुदोषञ्च जयेच्चैवानु-वासनात्”