| YouTube Channel

पिप्पलीमूलं (pippalImUlaM)

 
शब्दकल्पद्रुमः
Sanskrit
पिप्पलीमूलं,
क्ली,
(पिप्पल्या मूलमिव मूलमस्य ।)स्वनामख्यातमूलम् पिँपुलमूल इति भाषा ।तत्पर्य्यायः ग्रन्थिकम् चटिकाशिरः ।इत्यमरः ११०
षड्ग्रन्थि इतिरत्नमाला
मूलम् कोलमूलम् कटुग्रन्थि ७कटुमूलम् कटूषणम् सर्व्वग्रन्थि १० पत्रा-ढ्यम् ११ विरूपम् १२ शोषसम्भवम् १३सुगन्धि १४ ग्रन्थिलम् १५ इति राजनिर्घण्टः
उषणम् १६ अस्य गुणाः दीपनत्वम् ।कटुत्वम् पाचनत्वम् लघुत्वम् रूक्षत्वम् ।पित्तकरत्वम् भेदकत्वम् कफवातोदरानाह-प्लीहगुल्मकृमिश्वासक्षयापहत्वञ्च इति भाव-प्रकाशः
उष्णत्वम् रोचनत्वम् इति राज-निर्घण्टः