पिपीतकी (pipItakI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishYates
EnglishSpoken Sanskrit
English पिपीतकी pipItakI 12th day of the light half of the month vaizAkhA
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishपिपीतकी [pipītakī], The twelfth day of the light half of Vaisākha.
Wordnet
Sanskrit पिपीतकी
व्रतविशेषः यः वैशाखमासस्य शुक्लपक्षस्य द्वादश्यां वर्तते।
"पिपीतक्यां जलपूर्णान् घटान् ब्राह्मणाय यच्छन्ति।"
शब्दकल्पद्रुमः
Sanskritपिपीतकी, (पिपीतको ब्राह्मणविशेषः प्रवर्त्त-कतयास्त्यत्रेति । अच् । गौरादित्वात् ङीष् ।)वैशाखशुक्लद्वादशी । तत्र कर्त्तव्यव्रतं यथा, --शतानीक उवाच ।“जलदानस्य माहात्म्यं यत्त्वया परिकीर्त्तितम् ।तदहं श्रोतुमिच्छामि पिपीतकीकथां शुभाम् ॥
पुरा केन कृतञ्चैतत् केन चैतत् प्रकाशितम् ।कथं पिपीतकीनाम विधानञ्चैव कीदृशम् ॥
तत् सर्व्वं ब्रूहि देवर्षे ! यदि तुष्टो मयि प्रभो ! ॥
नारद उवाच ।शृणु राजन् ! प्रवक्ष्यामि द्वादशीं तां पिपी-तकीम् ।यां कृत्वा यमलोकाद्वै प्राप्यते वैष्णवं पदम् ॥
पिपीतक इति ख्यातो ब्राह्मणः संशितव्रतः ।तपःस्वाध्यायनिरतः सर्व्वप्राणिहिते रतः ॥
शान्तो दान्तः क्षमायुक्तो बलिहोमपरायणः ।निवसन् निर्जनेऽरण्ये बहून् कालान् द्विजोत्तमः ॥
चिरं कृत्वा तपोऽरण्ये काले मृत्युमुपेयिवान् ॥
ततः कालेन कियता यमदूतैर्महाबलैः ।नीयमानः स विप्रेन्द्रो यमलोकं भयावहम् ॥
ददर्श बहुशस्तत्र नरान्निरयसंस्थितान् ॥
असिपत्राद्यनेकेषु कुम्भीपाकेषु संस्थितान् ।कृतार्त्तरावांस्तान् दृष्ट्वा विषादमगमद्द्विजः ।क्षुत्पिपासाकुलो भूत्वा प्रेतराजवशं गतः ॥
बहून् वस्त्रावृतान् कुम्भान् ददृशेऽतिमनो-हरान् ।प्रदेशानीप्सितांस्तत्र प्रासादैरुपशोभितान् ॥
गीतवाद्यादिनृत्यैश्च सेव्यमानः समन्ततः ।क्वचित् प्रहरमाणांश्च किङ्करैर्यमशासनैः ॥
नीयमानांस्ततः प्रेतान् वध्यमानान् स्वकर्म्मभिः ।शोकसन्तापसंयुक्तान् तृषया परिपीडितः ॥
संपश्यमानो राजेन्द्र ! ययाचे किङ्करान् जलम् ।बहुशो याच्यमानैश्च किङ्करैरभिताडितः ॥
स नीयमानो ददृशे बहुशाखं द्रुमोत्तमम् ।सुच्छायं शीतलं रम्यं महान्तं पिप्पलद्रुमम् ॥
तत्रैव सजलान् कुम्भान् माल्यग्रीवान् सुशो-भितान् ।ददर्शवस्त्रावृतमुखान् सुवासितसुशीतलान् ॥
रक्षन्ति बहवस्तत्र किङ्कराः शस्त्रपाणयः ।तोयदर्शनमात्रेण साह्लादो ब्राह्मणोऽभवत् ॥
विनयावनतो भूत्वा ययाचे किङ्कराज्जलम् ।ब्राह्मण उवाच ।यमदूता महात्मानस्तोयं मे दीयतामिति ।अप्राप्य तोयं प्राणानां विनाशो जायतेध्रुवम् ॥
तस्मात्तोयप्रदानेन प्राणान्रक्षत मेऽधुना ।श्रुत्वा विप्रस्य तद्वाक्यं तमूचुर्यमकिङ्कराः ॥
न कृतं कर्म्म तद्विप्र ! येन तोयञ्च लभ्यते ॥
प्रार्थयानः पुनस्तोयं यमदूतैः स ताडितः ॥
तृषार्त्तवचनं श्रुत्वा यमः प्रोवाच तं द्विजम् ।ब्रूहि त्वं विप्र ! मा रोदीः का ते पीडास्तिचेतसि ॥
पुनर्ययाचे तत्तोयं तृषाव्याकुलचेतनः ।श्रुत्वा विप्रस्य तद्वाक्यं तमुवाच स धर्म्मराट् ॥
त्वया तन्न कृतं कर्म्म येन वै लभ्यते जलम् ॥
ब्राह्मण उवाच ।त्वयि प्रसन्ने दिक्पाल ! तत्तोयं दुर्लभं न मे ।तस्मात्तोयप्रदानेन प्राणरक्षां कुरु प्रभो ! ॥
इत्थं बहुविधैर्व्वाक्यैर्यमः प्रीतोऽभवत्तदा ॥
यम उवाच ।वरं वरय विप्रेन्द्र ! यत्ते मनसि वर्त्तते ॥
ब्राह्मण उवाच ।यदि तुष्टोऽसि मे देव ! येन प्राप्तोऽस्मि तज्जलम् ।तत् कुरुष्व धर्म्मराज ! सर्व्वप्राणेश्वर ! प्रभो ! ॥
यम उवाच ।वैष्णवं तद्व्रतं विप्र ! कुरु गत्वा निजालयम् ।विधानं शृणु विप्रेन्द्र ! द्वादशी यादृशी भवेत् ॥
वैशाखे शुक्लपक्षस्य द्बादशी वैष्णवी तिथिः ।तस्यां सुशीतलजलैः स्नापयेत् केशवं प्रभुम् ॥
पूजयेद्गन्धपुष्पाद्यैर्धूपदीपैर्विधानतः ॥
नैवेद्यैर्विविधैश्चैव ताम्बूलैरथ वाससा ॥
जप्त्वा तु वैष्णवं मन्त्रं दण्डवत् प्रणमेत्ततः ।दद्याद्द्विजेभ्यो विधिवत् कुम्भांस्तोयसमन्वितान् ।प्रथमेऽब्दे चतुःकुम्भान् दद्याल्लवणसंयुतान् ॥
शुक्लवस्त्रावृतमुखानुपवीतसुसंयुतान् ।धनुर्व्वाणसमायुक्तान् सभोज्यदक्षिणान्वितान् ॥
द्वितीयेऽष्टौ घटान्दद्याद्दधिशर्करसंयुतान् ।तृतीये द्वादश घटान् तिलमोदकसंयुतान् ॥
चतुर्थे षोडशघटान् दुग्धलड्डुकसंयुतान् ।दद्यात् संपूज्य देवेशं द्विजातिभ्यः प्रयत्नतः ॥
दक्षिणां शक्तितो दद्यात् भोज्यञ्चैव विशेषतः ।यत्र कुत्रापि संगच्छेन्न कुत्रापि तृषान्वितः ॥
ततो द्विजो गृहं गत्वा चकार द्वादशीव्रतम् ॥
अन्ते जगाम स्वर्लोकं वैष्णवं पदमुत्तमम् ॥
पिपीतकीति नाम्नातो विख्यातो वैष्णवी तिथिः ।नरो यः कुरुते भक्त्या नारी वा भक्तिसंयुता ।इह पुत्त्रादिसम्पन्ना धनधान्यसुतान्विता ॥
”इति भविष्यपुराणे पिपीतकीव्रतकथा समाप्ता ॥
वाचस्पत्यम्
Sanskritपिपीतकी स्त्री पिपीतको ब्राह्मणभेदः स प्रवर्त्तकतयास्त्यस्यअच गौरा० ङीष् । वैशाखशुक्लद्वादश्याम् तद्विधानं भवि-व्यपु० “वैशाखे शुक्लपक्षस्य द्वादशी वैष्णवी तिथिः । तस्यांसुशीतलजलैः स्नापयेत् केशवं प्रभुम् । पूजयेद्गन्ध-पुष्पाद्यैर्धूपदीपैर्विधानतः । नैवेद्यैर्विविधैश्चैव ताम्बूलै-रथ वाससा । जप्त्वा तु वैष्णवं मन्त्रं दण्डवत् प्रणमे-त्ततः । दद्याद्विजेभ्यो विधिवत् कुम्भाँस्तोयसम-न्वितान् । प्रघमेऽव्दे चतुःकुम्भान् दद्याल्लवणसंयुतान् ।मालाभिरङ्कितग्रीवान् सुशीतलजलान्वितान् । शुक्ल-वस्त्रावृतमुखानुपवीतसुसंयुतान् । धनुर्वाणसमायुक्तान्सभोज्यदक्षिणान्वितान् । द्वितीयेऽष्टौ घटान् दद्याद्द-धिशर्करसंयुतान् । तृतीये द्वादश घटान् तिलमोदकसंयु-तान् । चतुर्थे षोडश घटान् दुग्धलड्डुकसंयुतान् ।दद्यात् संपूज्य देवेशं द्विजातिभ्यः प्रयत्नतः । दक्षिणांशक्तितो दद्यात् भोज्यञ्चैव विशेषतः” पिपीतकव्रह्मणंप्रति यमोपदेशः । तत्कालस्तु ति० त० उक्तः द्वादशीशब्दे३७९९ पृ० दृश्यः । अधिकं तत्कथायां दृश्यम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
