| YouTube Channel

पिपर्दिषकः-षिका (pipardiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“पर्द कुत्सिते शब्दे”@} 2 “कुत्सितशब्दः = गुदरवः।
तदाह केशवस्वामी-- “कौक्षे कर्दति, पर्दते गुदरवे--’ इति।” इति माधवधातुवृत्तिः।
क्षीरस्वामी तु -- “पायुध्वनौ वर्ततेऽयम्।
अन्ये निश्शब्दमधोवातं मन्वानाः ‘अशब्दे’ इत्याहुः।” इत्याह।
पर्दकः-र्दिका, पर्दकः-र्दिका, पिपर्दिषकः-षिका, पापर्दकः-र्दिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककर्जतिवत् 3 ज्ञेयानि।
4 पर्दनः, 5 इत्यनेन काकुप्रत्ययः, संप्रसारणं, णित्त्वम् अलोपश्च।
पृदाकुः = पर्दकः, सर्पश्च।]] पृदाकुः 6 पर्दमानः, पर्दिष्यमाणः।
प्रासङ्गिक्यः
01
=>
(९७७)
02
=>
(१-भ्वादिः-२९। अक। सेट्। आत्म।)
03
=>
(१६९)
04
=>
[[१। ‘चलनशब्दार्थादकर्मकाद् युच्’ (३-२-१४८) इति ताच्छीलिको युच्प्रत्ययः।]]
05
=>
[[२। ‘पर्देर्णित् संप्रसारणमलोपश्च’ [द। उ। १-१५२]
06
=>
[[B। ‘पृदाकुजिद् वेगमयत्नतो ययौ वियोयुतत्काननजोतिनाध्वना।।’ धा। का। १-५।]]