| YouTube Channel

पिपर्चिषकः-षिका (piparciSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“पृच संयमने”@} 2 आधृषीयः।
‘पृणक्ति पृक्ते 3 सम्पर्के, यौ पर्चयति पर्चति।।’ 4 इति देवः।
‘पृची सम्पर्चने’ इति क्षीरस्वामी।
देवोऽप्यत्रानुकूलः।
‘-- ‘सम्बन्धने--’ इति क्षीरस्वामी।’ इति पुरुषकारे।
आधृषीयत्वेन णिज्विकल्पः।
पर्चकः-र्चिका, पिपर्चयिषकः-षिका, पर्चकः-र्चिका, पिपर्चिषकः-षिका, परीपृचकः-चिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचर्पयतिवत् 5 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१०४७)
02
=>
(१०-चुरादिः-१८०८। सक। सेट्। उभ।)
03
=>
(पृङ्क्ते)
04
=>
(श्लो। ५१)
05
=>
(५५४)
1 {@“पृची सम्पर्चने”@} 2 सम्पर्चनम् = मिश्रीकरणम्।
‘पृणक्ति पृक्ते 3 सम्पर्के, यौ पर्चयति पर्चति।।’ 4 इति देवः।
“उदित्--इति दुर्ग-काश्यप-नन्दि-धनपालादयः।
‘इदित्, तृतीयान्तः।’ इति कौशिकः।
‘ईदित्--’ इत्यपरे।
तत्र वृत्तौ ‘सम्पृच--’ 5 आदिसूत्रे, “पृची सम्पर्के’ इति रुधादिर्गृह्यते, त्वदादिः।” इत्यभिधानात् प्रथमान्त ईदिदेव युक्तः।” इति मा।
धा।
वृत्तौ।
‘पृचे--’ इति शाकटायनः।
पर्चकः-र्चिका, पर्चकः-र्चिका, पिपर्चिषकः-षिका, परीपृचकः-चिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकगृजधातुवत् 6 ज्ञेयानि।
7 पृक्तः- पृक्तम्-पृक्तवान्, इति, 8 पृच्यम्, 9 सम्पर्कः, मधुपर्कः, 10 संपृचानः इति रूपाणि धातोरस्य निष्ठा-ण्यद्-घञादिषु भवन्तीति विशेषः।
11
प्रासङ्गिक्यः
01
=>
(१०४८)
02
=>
(२-अदादिः-१०३०। सक। सेट्। आत्म।)
03
=>
(पृङ्क्ते)
04
=>
(श्लो। ५१)
05
=>
(३-२-१४२)
06
=>
(४२२)
07
=>
[[२। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इतीण्निषेधः।]]
08
=>
[[३। ‘ऋदुपधात्--’ (३-१-११०) इति भावकर्मणोः क्यप्।]]
09
=>
[[४। निष्ठायामनिट्त्वात्, ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वम्।]]
10
=>
[[५। शानचि, ‘अदिप्रभृतिभ्यः--’ (२-४-७२) इति शपो लुकि रूपम्।]]
11
=>
[पृष्ठम्०८८८+ २७]
1 {@“पृची सम्पर्के”@} 2 ‘पृणक्ति पृक्ते 3 सम्पर्के, यौ पर्चयति पर्चति।।’ 4 इति देवः।
पर्चकः-र्चिका, पर्चकः-र्चिका, पिपर्चिषकः-षिका, परीपृचकः-चिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकगृजधातुवत् 5 ज्ञेयानि।
शतरि- 6 पृञ्चन्-ती, घञि-- 7 सम्पर्कः, घिनुणि- 8 सम्पर्की, निष्ठायाम्-पृक्तः, इति रूपाण्यस्य भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१०४९)
02
=>
(७-रुधादिः-१४६२। सक। सेट्। पर।)
03
=>
(पृङ्क्ते)
04
=>
(श्लो। ५१)
05
=>
(४२२)
06
=>
[[१। शतरि, ‘रुधादिभ्यः--’ (३-१-७८) इति श्नम् विकरणप्रत्ययः। मित्त्वादन्त्या- दचः परो भवति। ‘श्नसोरल्लोपः’ (६-४-१११) इति श्नमोऽकारस्य लोपः। नकारस्यानुस्वारे, परसवर्णे रूपमेवम्।]]
07
=>
[[२। निष्ठायामनिट्त्वेन ‘चजोः कु--’ (७-३-५२) इति घञि कुत्वम्।]]
08
=>
[[३। ‘सम्पृचानुरुध--’ (३-२-१४२) इत्यादिना सम्पूर्वकादस्मात् कर्तरि, तच्छीलादि- ष्वर्थेषु घिनुण्प्रत्ययः। ‘चजोः--’ (७-३-५२) इति कुत्वम्।]]