| YouTube Channel

पिपरीषकः-पिपरिषकः-षिका (piparISakaH-pipariSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“पॄ पालनपूरणयोः”@} 2 प्वादिः, ल्वादिश्च।
‘पृणाति पूरणे श्लौ तु पिपर्ति, णिचि पारयेत्।।’ 3 इति देवः।
पारकः-रिका, पारकः-रिका, पुपूर्षकः-र्षिका, पिपरीषकः-पिपरिषकः-षिका, पोपुरकः-रिका
4 पारयः 5 , 6 पृणन्-ती, इत्यादीनि सर्वाण्यपि रूपाणि जौहोत्यादिकपिपर्तिवत् 7 ज्ञेयानि।
8 पूर्तम् 9 -पूर्तः-पूर्तवान्।
प्रासङ्गिक्यः
01
=>
(१०५६)
02
=>
(९-क्र्यादिः-१४८९। सक। सेट्। पर।)
03
=>
(श्लो। ३६)
04
=>
[[१। ‘अनुपसर्गाल्लिम्पविन्दधारिपारि--’ (३-१-१३८) इति ण्यन्तादस्मात् कर्तरि शप्रत्यये, शपि, पररूपे, णेरयादेशे रूपम्।]]
05
=>
[[आ। ‘धारयैः कुसुमोर्मीणां पारयैः बाधितुं जनान्।’ भ। का। ६। ७९।]]
06
=>
[[२। शतरि, ‘क्र्यादिभ्यः-- (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति शिति परे ह्रस्वः। ‘ऋवर्णान्नस्य णत्वं वाच्यम्’ (वा। ८-४-१) इति णत्वम्।]]
07
=>
(१०५५)
08
=>
[[३। ‘न ध्याख्यापॄमूर्च्छिमदाम्’ (८-२-५७) इति निष्ठानत्वनिषेधः।]]
09
=>
[[B। ‘नागं ददर्श पटबूर्णमुखं धुनानं कर्णौ शृणन्तमखिलान् अभिपूर्तरोषम्।।’ धा। का। ३। ६।]]
1 {@“पॄ पूरणे”@} 2 ‘पृणाति पूरणे, श्लौ तु पिपर्त्ति, णिचि पारयेत्।।’ 3 इति देवः।
पारकः-रिका, पिपारयिषकः-षिका, पारकः-रिका, पुपूर्षकः-र्षिका, पिपरीषकः-पिपरिषकः-षिका, पोपुरकः-रिका
इत्यादीनि सर्वाण्यपि रूपाणि ण्यन्तात्, ण्यन्तप्रकृतिकसन्नन्तात् शुद्धात् तदुपरि सन्नन्तात् यङन्ताच्च यथायथं जौहोत्यादिकपृधातुवत् 4 बोध्यानि।
ण्यन्तात् सनि--पिपारयिषिता-त्री, पिपारयिषन्-न्ती, पिपारयिषिष्यन्- न्ती-ती
पिपारयिषमाणः, पिपारयिषिष्यमाणः, पिपारयिट्-यिषौ-यिषः, पिपारयिषितम्-तः-तवान्, पिपारयिषुः, पिपारयिषितव्यम्, पिपारयिषणीयम्, पिपारयिष्यम्, ईषत्पिपारयिषः-दुष्पिपारयिषः-सुपिपारयिषः, पिपारयिष्यमाणः, पिपारयिषः, पिपारयिषितुम्, पिपारयिषा, पिपारयिषणम्, पिपारयिषित्वा, प्रपिपारयिष्य, पिपारयिषम् २-पिपारयिषित्वा २, इतीमानि रूपाणीति विशेषः।
णिजभावपक्षे शुद्धात् शतरि-परन्-न्ती, परिष्यन्-न्ती-ती इति रूपाणीति विशेषः।
5
प्रासङ्गिक्यः
01
=>
(१०५७)
02
=>
(१०-चुरादिः-१५४८। सक। सेट्। उभ।)
03
=>
(श्लो। ३६)
04
=>
(१०५२)
05
=>
[पृष्ठम्०८९४+ २७]