| YouTube Channel

पित्र्यं (pitryaM)

 
शब्दकल्पद्रुमः
Sanskrit
पित्र्यं,
क्ली,
(पितरो देवता अस्येति पितृ + “वाय्-वृतुपित्रुषसो यत् ।” ३१ इति यत् ।“रीङृतः ।” २७ इति रीङादेशश्च ।पितृदेवताकदानीयत्वादस्य तथात्वम् ।) मधु ।इति राजनिर्घण्टः
पितृतीर्थम् तत्तु तर्ज्ज-न्यङ्गुष्ठान्तः इति हेमचन्द्रः ५०४
(पितुरिदं पितुरागतं वेति पितृ + “पितु-र्यत् ।” ७९ इति यत् ततो रीङा-देशः ।) पितृसम्बन्धिनि, त्रि यथा, --“ज्येष्ठ एव तु गृह्णीयात् पित्र्यं धनमशेषतः ।शेषास्तमुपजीवेयुर्यथैव पितरन्तथा
”इति दायभागः
(पितृप्रियत्वात् श्राद्धार्हे त्रि यथा, सुश्रुते ।१ ४६ ।“कफघ्नं स्वड्गिपिशितं कषायमनिलापहम् ।पित्र्यं पवित्रमायुष्यं बद्धमूत्रं विरूक्षणम्
”)