| YouTube Channel

पित्तलं (pittalaM)

 
शब्दकल्पद्रुमः
Sanskrit
पित्तलं,
क्ली,
(पित्तं तद्वर्णं लातीति ला + कः ।)धातुविशेषः पितल इति भाषा
(यथा, वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधिकारे ।“पित्तलञ्च तथा कांस्यं ताम्रवन्मारयेद्भिषक् ।ताम्रवच्छोधनं तेषां ताम्रवद्गुणकारकम्
”)तत्पर्य्यायः आरकूटम् रीतिः पतिकावे-रम् द्रव्यदारु इति जटाधरः
रीती६ इति शब्दरत्नावली
मिश्रम् इतिरत्नमाला
आरः राजरीतिः ब्रह्मरीतिः१० कपिला ११ पिङ्गला १२ इति भाव-प्रकाशः
क्षुद्रसुवर्णः १३ सिंहलम् १४ पिङ्ग-लकम् १५ पीतलकम् १६ लोहितकम् १७पिङ्गललोहम् १८ पीतकम् १९ रीतिका-युगलगुणाः तिक्तत्वम् शीतलत्वम् रसेलवणत्वम् शोधनत्वम् पाण्डुवातकृमिप्लीह-पित्तनाशित्वञ्च ।“शुक्ला स्निग्धा मृदुः शीता सुरङ्गा सूत्रपत्रिणी ।हेमोपमा शुभा स्वच्छा जात्या रीतिः प्रकी-र्त्तिता
”इति राजनिर्घण्टः
“रीतिरप्युपधातुः स्यात् ताम्रस्य यसदस्य ।पित्तलस्य गुणा ज्ञेया स्वयोनिसदृशा जनैः
संयोगस्य प्रभावेण तस्यान्येऽपि गुणाः स्मृताः ।रीतिकायुगलं रूक्षं तिक्तञ्च लवणं रसे ।शोधनं पाण्डुरोगघ्नं कृमिघ्नं नातिलेखनम्
”इति भावप्रकाशः
*
भूर्जपत्रम् इति शब्दमाला
(बाहुल्येनपित्तमस्त्यस्येति पित्त + “सिध्मादिभ्यश्च ।”५ १७ इति लच् ।) पित्तयुक्ते, त्रि ।इति मेदिनी ले, ११४
(पित्तवृद्धिकरे ।यथा, सुश्रुते सूत्रस्थाने ४५ अध्याये ।“सक्षारं पित्तलं कौपं श्लेष्मघ्रं दीपनं लघु
”यथा माधवकरधृतरुग्विनिश्चयसंग्रहे पाण्डधि-कारे ।“पाण्डुरोगी तु योऽत्यर्थं पित्तलानि निषेवते ।तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते
”)