पित्तज्वर (pittajvara)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English पित्तज्वर pittajvara bilious fever
Apte Hindi
Hindiपित्तज्वरः
पित्तम्-ज्वरः -
पित्त के प्रकोप से होने वाला ज्वर या बुख़ार
Shabdartha Kaustubha
Kannadaपित्तज्वर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪಿತ್ತದೋಷದಿಂದ ಉಂಟಾಗುವ ಜ್ವರ
शब्दकल्पद्रुमः
Sanskritपित्तज्वरः, (पित्तनिमित्तको ज्वरः ।) पैत्तिक-ज्वरः । यथा, --“विशेषतः कोमलनारिकेलंनिहन्ति पित्तज्वरमूत्रदोषान् ॥
”इति राजनिर्घण्टः ॥
अस्य लक्षणं ज्वरशब्दे द्रष्टव्यम् ॥
* ॥
अथ पित्तज्वरचिकित्सा ।“आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधा-पयन् ।विदधाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत् ॥
”इति वचनात् सामान्यतो ज्वरिमात्रस्य यावदा-रोग्यदर्शनं लङ्घनाभिधाने पित्तज्वरिणो लङ्घन-विधाने विशेषमाह सुश्रुतः । पैत्तिके दशरात्रेणज्वरे युञ्जीत भेषजमिति । दशरात्रेण लङ्घन-वता व्यतीतेनेत्यर्थः । किन्तद्भेषजं तदाह ।“तिक्तामुस्तायवैः पाठाकट्फलाभ्यां सहोदकम् ।पक्वं सशर्करं पीतं पाचनं पैत्तिके ज्वरे ॥
”इति तिक्तादिक्वाथः ॥
“पर्पटो वासकस्तिक्ता कैरातो धन्वयासकः ।प्रियङ्गुश्च कृतः क्वाथ एष शर्करया युतः ॥
पिपासादाहपित्तास्रयुक्तं पित्तज्वरं हरेत् ॥
”इति पर्पटादिक्वाथः ॥
“द्राक्षा हरीतकी मुस्ता कटुका कृतमालकः ।पर्पटश्च कृतः क्वाथः एष पित्तज्वरापहः ॥
मुखशोषप्रलापान्तर्दाहमूर्च्छाभ्रमप्रणुत् ।पिपासारक्तपित्तानां शमनो भेदनो मतः ॥
”इति द्राक्षादिक्वाथः ॥
“पटोलमथ धन्याकं मधुकं मधुसंयुतम् ।हन्ति पित्तज्वरं दाहं तृष्णाञ्चातिप्रमाथिनीम् ॥
”इति पटोलादिक्वाथः ॥
“गुडूच्यामलकीयुक्तः केवलो वापि पर्पटः ।पित्तज्वरं हरेत्तूर्णं दाहशोषभ्रमान्वितम् ॥
”इति गुडूच्यादिक्वाथः ॥
“एकः पर्पटकः श्रेष्ठः पित्तज्वरविनाशनः ।किं पुनयदि युज्येत चन्दनोशीरबालकैः ॥
ह्नीवेरचन्दनोशीरघनपर्पटसाधितम् ।दद्यात् सुशीतलं वारि तृट्छर्द्दिज्वरदाहनुत् ॥
”इति ह्नीवेरादिक्वाथः ॥
“भूनिम्बातिविषालोध्रमुस्तकेन्द्रयवामृताः ।बालकं धान्यकं विल्वं कषायो माक्षिकान्वितः ॥
विड्भेदश्वासकासांश्च रक्तपित्तज्वरं हरेत् ॥
”इति भूनिम्बादिक्वाथः ॥
“द्राक्षाचन्दनपद्मानि मुस्ता तिक्तामृतापि च ।धात्री बालमुशीरञ्च लोध्रेन्द्रयवपर्पटाः ॥
परूषकं प्रियङ्गुश्च यवासो वासकस्तथा ।मधुकं कुलकं वापि किरातो धान्यकं तथा ॥
एषां क्वाथो निहन्त्येव ज्वरं पित्तसमुत्थितम् ।तृषां दाहं प्रलापञ्च रक्तपित्तं भ्रमं क्लमम् ॥
मूर्च्छां छर्द्दिं तथा शूलं मुखशोषमरोचकम् ।कासं श्वासञ्च हृल्लासं नाशयेन्नात्र संशयः ॥
”इति महाद्राक्षादिक्वाथः ॥
“ससितो निशि पर्य्युषितः प्रातर्धन्याकतण्डुल-क्वाथः ।पीतः शमयत्यचिरादन्तर्द्दाहं ज्वरं पैत्तम् ॥
”इति धन्याकक्वाथः ॥
“अमृताया हिमः प्रातः ससितः पैत्तिकज्वरम् ।वासायाश्च तथा कासरक्तपित्तज्वरान् जयेत् ॥
”इति अमृतावासाक्वाथौ ॥
“गुडूची भूमिनिम्बश्च बालं वीरणमूलकम् ।लघुमुस्तं त्रिवृद्धात्री द्राक्षा वासा च पर्प्पटः ॥
एषां क्वाथो हरत्येव ज्वरं पित्तकृतं द्रुतम् ।सोपद्रवमपि प्रातर्निपीतो मधुना सह ॥
”इति गुडूच्यादिक्वाथः ॥
“पलाशस्य वदर्य्या वा निम्बस्य मृदुपल्लवैः ।अम्लपिष्टैः प्रलेपोऽयं हन्याद्दाहयुतं ज्वरम् ॥
उत्तानसुप्तस्य गभीरताम्र-कांस्यादिपात्रे निहिते च नाभौ ।शीताम्बुधारा बहुला पतन्तीनिहन्ति दाहं त्वरितं ज्वरञ्च ॥
पथ्यां तैलघृतक्षौद्रैर्लिहन् दाहज्वरापहा ।कासासृक्पित्तवीसर्पश्वासान् हन्ति वमीनपि ॥
”तैलघृतक्षौद्रैरित्यत्र न समुच्चयः तेन केवलेनक्षौद्रेणापि लिह्यात् ।“काञ्जिकार्द्रपटेनावगुण्ठनं दाहनाशनम् ।अथ गोतक्रसुस्विन्नशीतलीकृतवाससा ॥
द्राक्षामलककल्केन कवलोऽत्र हितो मतः ।पक्वदाडिमबीजैर्वा धन्याकल्केन च क्वचित् ॥
”इति कवलः ॥
धन्यात्र धान्याकम् ॥
* ॥
अथान्नमाह ।“दाहवम्यर्दितं क्षामं निरन्नं तृषयान्वितम् ।शर्करामधुसंयुक्तं पाययेल्लाजतर्पणम् ॥
”लाजतर्पणं लाजशक्तुरूपतर्पणम् । सन्तर्पण-स्वरूपमुक्तं सामान्यज्वरचिकित्सायाम् ।“मुद्गयूषौदनो देयः सितया पैत्तिके ज्वरे ॥
हर्म्ये शुभ्राभ्रसङ्काशे शशाङ्ककरशीतले ।मलयोदकसंसिक्ते सुप्यात् पित्तज्वरी नरः ॥
हारावलीचन्दनशीतलानांसुगन्धपुष्पाम्बरभूषितानाम् ।नितम्बिनीनां सुपयोधराणा-मालिङ्गनञ्चाशु हरन्ति दाहम् ॥
आह्लादञ्चास्य विज्ञाय ताश्च स्त्री रमयेत् पुनः ।हितञ्च भोजयेदन्नं न हितं सुरतं महत् ॥
वाप्यः कमलहासिन्यो जलयन्त्रगृहाः शुभाः ।नार्य्यश्चन्दनदिग्धाङ्ग्यो दाहदैन्यहरा मताः ॥
इति पित्तज्वराधिकारः ।” इति भावप्रकाशेमध्यखण्डे प्रथमभागः ॥
* ॥
पित्तश्लेष्मज्वरनाशकौषधं यथा, --“गुडूचीपद्मकारिष्टधन्याकं रक्तचन्दनम् ।पित्तश्लेष्मज्वरच्छर्द्दिदाहतृष्णाघ्नमग्निकृत् ॥
”इति गारुडे १८८ अध्यायः ॥
(अस्य सलक्षणचिकित्सितान्यपराणि यथा, --“मूर्च्छा दाहो भ्रममदंतृषावेगतीक्ष्णोऽतिसार-स्तन्द्रालस्यं प्रलपनवमिः पाकताल्वोष्ठवक्त्रे ।स्वेदः श्वासो भवति कटुकं विह्वलत्वं क्षुधा वाएतैर्लिङ्गैर्भवति मनुजे पैत्तिको वै ज्वरस्तु ॥
रोध्रोत्पलामृतलता कमलं सिताढ्यंतत्सारिवासहितमेव हि पाचनेषु ।निःक्वाथ्य पानमति चाशु निहन्ति पित्तंपित्तज्वरप्रशमनं प्रकरोति पुंसाम् ॥
क्वथितं तण्डुलपयसा शक्राह्वकटुरोहिणीसहि-तम् ।क्वाथं यष्टीमधुना विनाशनं पित्तज्वराणान्तु ।दुरालभावासकपर्पटानांप्रियङ्गुनिम्बैः कटुरोहिणीनाम् ।किराततिक्तं क्वथितं कषायंसशर्कराढ्यं क्वथितञ्च पाचनम् ॥
सदाहपित्तज्वरमाशु हन्तितृष्णाभ्रमं शोषविकारयुक्तम् ।एकोऽपि वै पर्पटको वरिष्ठःपित्तज्वराणां शमनाय योग्यः ।तस्मात् पुनर्नागरबालकाढ्यःसिंहो यथा कङ्कटके प्रवृत्तः ॥
नागरोशीरमुस्ता च चन्दनं कटुरोहिणी ।धान्यकानां क्वाथ एव पित्तज्वरविनाशनः ॥
अमृतापर्पटोधात्री क्वाथः पित्तज्वरं हरेत् ।सितारग्वघयोर्वापि काश्मर्य्याश्चाथ वा पुनः ॥
द्राक्षापर्पटकं तिक्ता पथ्यारग्वधमुस्तकैः ।क्वाथस्तृषाभ्रमदाहयुक्तपित्तज्वापहः ॥
विदारिका रोध्रदधित्थकानांस्यान्मातुलुङ्गस्य च दाडिमानाम् ।यथानुलाभेन च मूलपत्रंनिहन्ति तृड्दाहसमूर्च्छनञ्च ॥
उत्तानस्य प्रसुप्तस्य कांस्यं वा ताम्रभाजनम् ।नाभौ निधाय धाराम्बुशीतदाहनिवारणम् ॥
रम्यारामाकुचभरनमितालिङ्गनं चेष्टसङ्गंअव्यायामं मुनिवरगदितं शीतलं सेवनं स्यात् ।शुभ्राम्भोजं मलयजसलिलासिक्तसंशीतवासोमुक्ताहारो विशदसतुहिनं कौमुदी या सुखाय ॥
एभिर्हन्ति द्रुततरनिभं मानुषाणान्तु पित्तंदाहं शोषं क्लममपि तथा तृड्भ्रमं मूर्च्छनञ्च ।एतैर्योगैर्भवति नितरां पित्तदाहस्य शान्ति-र्योग्या चैव प्रभवति सदा सत्क्रिया श्रीमताञ्च ॥
यदि जिह्वा गलतालुशोषो घै मनुजस्य च ।केशरं मातुलुङ्गस्य मधुसैन्धवसंयुतम् ।पेष्यमाणं तालुलेपः सद्यः पित्ततृषापहः ॥
”इति पित्तज्वरचिकित्सा ॥
* ॥
वाचस्पत्यम्
SanskritNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
