| YouTube Channel

पित्तं (pittaM)

 
Apte 1890
English
पित्तं Bile, one of the three humours of the body (the other two being वात and कप). पित्तं यदि शर्करया शाम्यति कोर्थः पटोलेन Pt. 1. 378.
Comp.
अती रः a bilious form of diarrhœa.
अभिष्यदः a bilious form of ophthalmia.
अरिः N. of several plants लक्ष, वर्वर &c.
उपहत a. affected by bile
पश्यति पित्तोपहतः शशिशुभ्रं शंखमपि पीतं K. P. 10.
कोषः the gall-bladder.
क्षोभः excess or derangement of the bilious humour.
गदिन् a. bilious, affected by bile
ज्वरः a bilious fever.
प्रकृति a. of a bilious or choleric temperament.
प्रकोपः excess and vitiation of the bilious humour.
रक्तं plethora
वायुः flatulence caused by the excess and vitiation of the bilious humour.
विदग्ध a. impaired by bile.
शमन,
हर a. antibilious.
शब्दकल्पद्रुमः
Sanskrit
पित्तं,
क्ली,
(अपिदीयते प्रकृतावस्थया रक्ष्यतेविकृतावस्थया नाश्यते वा शरीरं येनेति अपि+ दे पालने, दो च्छेदने वा + क्तः “अचउपसर्गात्तः ।” ४७ इति तादेशः ।अपेरल्लोपः ।) शरीरस्थधातुविशेषः तत्-पर्य्यायः मायुः इत्यमरः ६२
पलज्वलः इति शब्दरत्नावली
तेजः ४तिक्तधातुः उष्मा अग्निः अनलः ।(यथा, महाभारते ८१ ४१ ।“अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्त्तत ।शरीरस्य यथा राजन् ! वातपित्तकफैस्त्रिभिः
”)अस्य गुणाः ।“पित्तञ्च तिक्ताम्लरसञ्च सारकंतूष्णं द्रवं तीक्ष्णमिदं मधौ बहु ।वर्षान्तकाले भृशमर्द्धरात्रेमध्यन्दिने तप्युदिते कुप्यति
”इति राजनिर्घण्टः
*
अपिच ।“सर्व्वं पित्तमपस्मारकुष्ठदुष्टव्रणापहम् ।चक्षुष्यं कटुतीक्ष्णोष्णमुन्मादक्रिमिनाशनम्
”इति राजवल्लभः
*
पित्तस्य स्वरूपमाह ।“पित्तमुष्णं द्रवं पीतं नीलं सत्वगुणोत्तरम् ।सरं कटु लघु स्निग्धं तीक्ष्णमम्लन्तु पाकतः
”पीतं निरामम् नीलं सामम् एकं पित्तंवातवन्नामस्थानकर्म्मभेदैः पञ्चविधम्
*
तेषां पित्तानां नामान्याह ।“पाचकं रञ्जकञ्चापि साधकालोचके तथा ।भ्राजकञ्चेति पित्तस्य नामानि स्थानभेदतः
*
अथ पाचकादीनां स्थानान्याह ।“अग्न्याशये यकृत्प्लीह्नोर्हृदये लोचनद्बये ।त्वचि सर्व्वशरीरेषु पित्तं निवसति क्रमात्
*
अथ तेषां कर्म्माण्याह ।“पाचकं पचते भुक्तं शेषाग्निबलवर्द्धनम् ।रसमूत्रपुरीषाणि विरेचयति नित्यशः
”पाचकं पित्तमामपक्वाशयमध्यस्थं षड्विधमा-हारं भोज्यं भक्ष्यं चर्व्व्यं लेह्यं चूष्यं पेयं पचतिदोषरसमूत्रपुरीषाणि पृथक् करोति तद-ग्न्याशयस्थमेवात्मशक्त्या रसरञ्जनहृदयस्थकफ-तमोऽपनोदनरूपग्रहणप्रभाप्रकाशनाभ्यङ्ग-लेपादिपाचनाद्यग्निकर्म्मणा शेषाणां पित्तस्थाना-नामनुग्रहं करोति शेषाण्यपि पित्तस्थानानियकृत्प्लीहादीनि भागेन गत्वा तत्र तत्र रसरञ्ज-नादिकर्म्मभिरुपकरोतीत्यर्थः कथन्मूतं पाचक-पित्तं शेषाग्निबलवर्द्धनं शेषा अग्नयः पृथि-व्यादिमहाभूतगताः सप्तधातुगताञ्च यतउक्तं चरकेण ।“भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः ।”इति ।उष्माणोऽग्नयः यत उक्तं वाग्भटे ।“दोषधातुमलादीनामुष्मेत्यात्रेयशासनम् ।” इति ।दोषधातुमलादीनामुष्मैवाग्निरित्यर्थः रसादि-धातुगताश्च सप्त तेषां बलवर्द्धनम् यथा गृहेस्थापितानि रत्नानि खद्योतवददूरभास्वराणितान्यपि दीपज्योतिषा दूरप्रकाशकानि भवन्ति ।तथा अग्न्याशयस्थपाचकाग्नितेजसा सर्व्वे अग्नयोबलवन्तो भवन्ति तथा वाग्भटः ।“अन्नस्य पक्ता सर्व्वेषां पक्तणामधिको मतः ।तन्मूलास्ते हि तद्वृद्धिक्षयवृद्धिक्षयात्मकाः
”इति
ननु पित्तादन्योऽग्निराहोस्वित् पित्तमेवाग्निरितिसन्देहः उच्यते पित्तस्योष्णादिगुणद्वाराहार-पाचनरञ्जनदर्शनादिकर्म्मणश्च खलु पित्त-व्यतिरेकेणान्योऽग्निः तस्मादग्निरूपस्यैव पित्तस्यस्थानभेदात् पाचकरञ्जकसाधकालोचकभ्राजक-संज्ञाः तथा वाग्भटे ।“पाचकं तिलमानं स्यात् काठिन्यान्नास्य दोषता ।अनुगृह्णात्यविकृतं पित्तं पाकोष्मदर्शनैः
क्षुत्तृड्रुचिप्रभामेधाधीशौर्य्यतनुमार्द्दवैः ।पित्तं पञ्चात्मकं तच्च पक्वामाशयमध्यगम्
पञ्चभूतात्मकत्वेऽपि यत्तैजसगुणोदयात् ।त्यक्तद्रवत्वं पाकादिकर्म्मणानलशब्दितम्
पचत्यन्नं विभजते सारकिट्टौ पृथक् तथा ।तत्रस्थमेव पित्तानां शेषाणामप्यनुग्रहम्
करोति बलदानेन पाचकं नाम तत् स्मृतम्
”ननु यदि पित्ताग्न्योरभेदस्तदा कथं घृतं पित्तस्यशमनमग्नेर्दीपनमिति तथा मत्स्याः पित्तंकुर्व्वन्ति तेऽग्निदीप्तिकरा इति तथापित्ताधिक्यात्तीक्ष्णोऽग्निरित्यपि कथं स्यात् ।तथा समदोषः समाग्निश्चेत्यपि वक्तुं युज्यते ।तथा द्रवं स्निग्धमधोगञ्च पित्तं वह्निरतोऽन्य-थेति अत्रोच्यते पित्तमग्नेः सतताधिष्ठानम् ।तथा चोक्तं तन्त्रान्तरे ।“अग्निर्भिन्नगुणैर्युक्तः पित्तं भिन्नगुणैस्तथा ।द्रवं स्निग्धमधोगञ्च पित्तं वह्निरतोऽन्यथा
तस्मात्तेजोमयं पित्तं पित्तोष्मा यः शक्तिमान् ।स सञ्चरति कुक्षिस्थः सर्व्वतो धमनीमुखैः
कायाग्निः कायोष्मा पक्ता जीवनम् ।अनन्यगतिरित्येवं देहे कायाग्निरुच्यते
”अन्यच्च ।“वामपार्श्वाश्रितं नाभेः किञ्चित् सोमस्य मण्ड-लम् ।तन्मध्ये मण्डलं सौर्य्यं तन्मध्येऽग्निर्व्यवस्थितः
जरायुमात्रप्रच्छन्नः काचकोषस्थदीपवत्
”तथा मधुकोषे “द्रवतेजःसमुदायात्मकस्यपित्तस्य तेजोभागोऽग्निरिति तेन पित्तमप्य-ग्निवत् मन्यते अग्नितापितायोगोलकवत् ।”परमार्थतस्तु अग्निः पित्ताद्भिन्न एवेतिसिद्धान्तः अतएवाह रसप्रदीपे ।“जाठरो भगवानग्निरीश्वरोऽन्नस्य पाचकः ।सौक्ष्म्याद्रसानाददानो विवेक्तुं नैव शक्यते
नाभौ मध्ये शरीरस्य विशेषात् सोममण्डलम् ।सोममण्डलमध्यस्थं विद्यात् सूर्य्यस्य मण्डलम्
प्रदीपवत्तत्र नृणां स्थितो मध्ये हुताशनः ।सूर्य्यो दिवि यथा तिष्ठंस्तेजोयुक्तैर्गभस्तिभिः
विशोषयति सर्व्वाणि पल्वलानि सरांसि
तद्वच्छरीरिणां भुक्तं त्वनलो नाभिमाश्रितः ।मयूखैः पचते क्षिप्रं नानाव्यञ्जनसंस्कृतम्
स्थूलकायेषु सत्त्वेषु यवमात्रप्रमाणतः ।ह्नस्वकायेषु सत्त्वेषु तिलमात्रप्रमाणतः
कृमिकीटपतङ्गेषु चाणुमात्रोऽवतिष्ठते
इति ।पुनः प्रकृतमनुसरति ।“रञ्जकं नाम यत् पित्तं तद्रसं शोणतां नयेत् ।यत्तु साधकसंज्ञं तत् कुर्य्याद्बुद्धिं धृतिं स्मृतिम्
”धृतिं मेधाम् ।“यदालोचकसंज्ञं तद्रूपग्रहणकारणम् ।भ्राजकं कान्तिकारि स्याल्लेपाभ्यङ्गादिपाच-कम्
पित्तप्रकृतिको यथा, --“पित्तप्रकृतिको यादृक् तादृशोऽथ निगद्यते ।अकालपलितो गौरः क्रोधी स्वेदी बुद्धिमान्
बहुभुक् ताम्रनेत्रश्च स्वप्ने ज्योतींषि पश्यति ।श्यामकेशः क्षमी स्थूलो बहुवीर्य्यो महाबलः
पित्तं वह्निर्वह्निजं वा तदस्मात्पित्तोद्रिक्तस्तीव्रतृष्णो बुभुक्षुः ।गौरोष्णाङ्गस्ताम्रहस्तोऽङ्घ्रिरक्तःशूरो मानी पिङ्गकेशोऽल्पलोमा
”पित्तप्रकृतिकमृगा यथा, --“व्याघ्रर्क्षकपिमार्जारयक्षोलूकाश्च पैत्तिकाः
”पित्तस्योपशमहेतुमाह ।“तिक्तस्वादुकषायशीतपवनच्छायानिशावीजन-ज्योत्स्नाभूगृहयन्त्रवारिजलदस्त्रीगात्रसंस्पर्श-नम् ।सर्पिःक्षीरविरेकसेकरुधिरस्रावप्रदेहादिकंपानाहारविहारभेषजमिदं पित्तं प्रशान्तिंनयेत्
”अथ पित्तप्रकोपकारणानि ।“कट्वम्लोष्णविदाहितीक्ष्णलवणक्रोधोपवासातप-स्त्रीसंभोगतृषाक्षुधाभिहननव्यायाममद्यादिभिः ।भुक्तेऽजीर्य्यति भोजने शरदि ग्रीष्मे तथाप्राणिनांमध्याह्ने तथार्द्धरात्रसमये पित्तप्रकोपो भवेत्
”इति भावप्रकाशे पूर्व्वखण्डे भागे
(यथा ।“अत्युष्णरुक्षाम्लकटुप्रदाहैःसीधोः सुरासेवनेनातिघर्म्मे ।क्रोधादपि स्वेदने व्यवायेअभोजने याति कोपञ्च पित्तम्
कुलत्थ्याढकीयूषमूलेषु शिग्रुतिलातसीराजिकाशाकवृन्दे ।निशाजागरे योधने श्रमे वाघृनान्ते शरत्सु प्रकोपः प्रदिष्टः ।भृशं वासरे मध्यगेऽर्के निशीथेऽसुजीर्य्यत्प्रभुक्ते प्रकोपः प्रदिष्टः
”इति हारीते प्रथमस्थाने पञ्चमेऽध्याये
)स तु ज्वरजनकमन्दाग्नेर्जनकः ।“मन्दाग्निस्तस्य जनको मन्दाग्नेर्जनकास्त्रयः ।पित्तश्लेष्मसमीराश्च प्राणिनां दुःखदायकाः
”इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १६ अध्यायः
*
(यथा ।“पित्तं पञ्चात्मकं तत्र पक्वामाशयमध्यगम् ।पञ्चभूतात्मकत्वेऽपि यत्तैजसगुणोदयात्
त्यक्तद्रवत्वं पाकादिकर्म्मणानलशब्दितम् ।पचत्यन्नं विभजते सारकिट्टौ पृथक् तथा
तत्रस्थमेव पित्तानां शेषाणामप्यनुग्रहम् ।करोति बलदानेन पाचकं नाम तत् स्मृतम्
आमाशयाश्रयं पित्तं रञ्जकं रसरञ्जनात् ।बुद्धिमेधाभिमानाद्यैरभिप्रेतार्थसाधनात्
साधकं हृद्गतं पित्तं रूपालोचनतः स्मृतम् ।दृक्स्थमालोचकं त्वक्स्थं भ्राजकं भ्राजना-त्त्वचः
”इति वाभंटे सूत्रस्थाने द्वादशेऽध्याये
“पित्तविकाराश्चत्वारिंशदत ऊर्द्ध्वं व्याख्यास्यन्ते ।तद्यथा, ओषश्च प्लोषश्च दाहश्च दवथुश्च धूमक-श्चाम्लकश्च विदाहश्च अन्तर्दाहश्चांसदाहश्चो-ष्माधिक्यञ्चातिस्वेदश्चाङ्गगन्धश्चाङ्गावयवदरणञ्चशोणितक्लेदश्च मांसक्लेदश्च त्वग्दाहश्च मांस-दाहश्च त्वङ्मांसदरणञ्च रक्तकोठाश्च रक्त-विस्फोटाश्च रक्तपित्तञ्च रक्तमण्डलानि चहरितत्वञ्च हरिद्रत्वञ्च नीलिका कक्षा चकामला तिक्तास्यता पूतिमुखता चतृष्णायाआधिक्यञ्चातृप्तिश्चास्यपाकश्च गलपाकश्चाक्षि-पाकश्च गुदपाकश्च मेढ्रपाकश्च जीवादानञ्चतमःप्रवेशश्च हरितहारिद्रमूत्रनेत्रवर्च्चस्त्वञ्चेति-चत्वारिंशत् पित्तविकाराः पित्तविकाराणाम-परिसंङ्खेयानामाविष्कृततमा व्याख्याता भवन्ति ।सर्व्वेष्वपि खल्वेतेषु पित्तविकारेष्वन्येषु चानु-क्तेषु पित्तस्येदमात्मरूपमपरिणामिकर्म्मणश्चस्वलक्षणं यत्तदुपलभ्य तदवयवं वा विमुक्त-सन्देहाः पित्तविकारमेवाध्यवस्यन्ति कुशलाः ।तद्यथा, --औष्ण्यं तैक्ष्ण्यं लाघवमनतिस्नेहो वर्णश्च शुक्ला-रुणवर्ज्जो गन्धश्च विस्रो रसौ कटुकाम्लौपित्तस्यात्मरूपाण्येवंविधत्वाच्च कर्म्मणः स्वल-क्षणमिदमस्य भवति तं तं शरीरावयवमा-विशतो दाहोष्मपाकस्वेदक्लेदकोथस्रावरागाः ।यथास्वञ्च गन्धवर्णरसाभिनिर्व्वर्त्तनं पित्तस्यकर्म्माणि तैरन्वितं पित्तविकारमेवाध्यवस्येत् ।तं मधुरतिक्तकषायशीतैरुपक्रमैरुपक्रमेत स्नेह-विवेकप्रदेहपरिषेकाभ्यङ्गावगाहादिभिः पित्त-हरैर्मात्रां कालञ्च प्रमाणीकृत्य विरेचनन्तुसर्व्वोपक्रमेभ्यः पित्ते प्रधानतमं मन्यन्ते भिषजः ।तद्ध्यादित एवामाशयमनुप्रविश्य केवलं वैका-रिकं पित्तमूलञ्चापकर्षति तत्रावजिते पित्ते-ऽपि शरीरान्तर्गताः पित्तविकाराः प्रशान्ति-मापद्यन्ते यथाग्नौ व्यपोढे केवलमग्निगृहञ्चशीतं भवति तद्वत्
इति चरके सूत्रस्थानेविंशेऽध्याये
*
“पित्तमुष्णन्तीक्ष्णं द्रवं विस्रमम्लङ्कटुकञ्च तस्यो-ष्ण्यात् पित्तला भवन्त्युष्णासहाः सुकुमारा-वदातगात्राः प्रभूतपिप्लुव्यङ्गतिलकपिडकाः क्षुत्-पिपासावन्तः क्षिप्रवलीपलितखालित्यदोषाःप्रायोमृद्बल्पकपिलश्मश्रुलोमकेशाः तैक्ष्ण्या-त्तीक्ष्णपराक्रमाः तीक्ष्णाग्नयः प्रभूताशनपानाःक्लेशासहिष्णवो दन्दशूका द्रवत्वात् शिथिल-मृदुसन्धिमांसाः प्रभूतसृष्टस्वेदमूत्रपुरीषाश्चविस्रत्वात् प्रभूतपूतिवक्षःकक्षास्यशिरःशरीर-गन्धाः कट्वम्लत्वादल्पशुक्रव्यवायापत्याः एवंगुणयोगात् पित्तला मध्यबला मध्यायुषो ज्ञान-विज्ञानवित्तोपकरणवन्तश्च ।” इति चरकेविमानस्थानेऽष्टमेऽध्याये
)