पितृलोक (pitRloka)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishपितृलोक - pitRloka - - world or sphere of the pitRs
पितृलोक - pitRloka - - father's house
Wilson
EnglishMonier Williams Cologne
EnglishApte Hindi
Hindiपितृलोकः
पितृ-लोकः -
पितरों का लोक
Shabdartha Kaustubha
Kannadaपितृलोक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪಿತೃಗಳ ಲೋಕ /ಚಂದ್ರಲೋಕದ ಮೇಲುಗಡೆ ಇರುವ ಲೋಕ
Mahabharata
EnglishPitṛloka (“the world of the Pitṛs”): I, 2292, 4925, 6832, 8337
II, 486
III, 6026, †10248, 11639
V, 1581
VII, 101, 512, 6697
IX, 445, 2881 (different from Yama's world)
XI, 250, 593
XII, 11788
XIII, 3130, 3471, 3774, 6101, 6494
XIV, 2776.
शब्दकल्पद्रुमः
Sanskritपितृलोकः, (पितॄणां लोकः ।) पितॄणां भुव-नम् । (यथा, महाभारते । १ । ६२ । १० ।“कथञ्च बहुलाः सेनाः पाण्डवः कृष्णसारथिः ।अस्यन्नेकोऽनयत् सर्व्वाः पितृलोकं धनञ्जयः ॥
”)अस्य विवरणं यथा, --मार्कण्डेय उवाच ।“सर्व्वेषामेव देवानामाद्यो नारायणो गुरुः ।तस्माद्ब्रह्मा समुत्पन्नः सोऽपि सप्तासृजन्मुनीन् ॥
मा यजस्वेति तेनोक्तास्तदा ते परमेष्ठिनः ।आत्मनात्मानमेवाग्रे अयजन्त इति श्रुतिः ॥
तेषां वै ब्रह्मजातानां महावैकारिकर्म्मणाम् ।अपश्यद्व्यभिचारेण महानेष कृतो यतः ।प्रभ्रष्टज्ञानिनः सर्व्वे भविष्यथ न संशयः ॥
एवं शप्तास्ततस्तेऽपि ब्रह्मणात्मसमुद्भवाः ।सद्योवंशकरान् पुत्त्रानुत्पाद्य त्रिदिवं ययुः ॥
ततस्तेषु प्रयातेषु त्रिदिवं ब्रह्मवादिषु ।तत्पुत्त्राः श्राद्धदानेन तर्पयामासुरञ्जसा ॥
ते च वैमानिकाः सर्व्वे ब्रह्मणः सप्त मानसाः ।तत्पिण्डदानमन्त्रोक्तं प्रपश्यन्तो व्यवस्थिताः ॥
गौरमुख उवाच ।ये च ते पितरो ब्रह्मन् स्वञ्च कालं समासते ।कियन्तो वै पितृगणास्तस्मिन् लोके व्यवस्थिताः ॥
मार्कण्डेय उवाच ।प्रवर्त्तन्ते वराः केचिद्देवानां सोमवर्द्धनाः ।ते मरीच्यादयः सप्त स्वर्गे ते पितरः स्मृताः ॥
चत्वारो मूर्त्तिमन्तो वै त्रयस्त्वन्ये ह्यमूर्त्तयः ।तेषां लोकनिसर्गञ्च कीर्त्तयिष्यामि तच्छृणु ॥
प्रभावञ्च महर्षे त्वं विस्तरेण निवोध मे ।धर्म्ममूर्त्तिधरास्तेषां त्रयोऽन्ये परमा गणाः ॥
तेषां नामानि लोकांश्च कीर्त्तयिष्यामि तच्छृणु ॥
लोकाः सन्तानकामाय यत्र तिष्ठन्ति भास्वराः ।अमूर्त्तयः पितृगणास्ते वै पुत्त्राः प्रजापतेः ॥
विराजस्य प्रजाः श्रेष्ठास्ते वैराजा इति स्मृताः ।देवानां पितरस्ते हि तान् यजन्तीह देवताः ॥
एते वै लोकविभ्रष्टा लोकान् प्राप्य सनातनान् ।पुनर्युगशतान्तेषु जायन्ते ब्रह्मवादिनः ॥
ते प्राप्य तां स्मृतिं भूयः सिद्धियोगमनुत्तमम् ।चिन्त्य योगगतिं शुद्धां पुनरावृत्तिदुर्लभाः ॥
एतेऽस्मिन् पितरः श्राद्धे योगिनां योगवर्द्धनाः ।आप्यायितास्तु ते पूर्व्वं येऽपि योगबले रताः ॥
तस्मात् श्राद्धानि देयानि योगिनां योगसत्तमैः ।एष वै प्रथमः सर्गः सोमपानामनुत्तमः ॥
एते त एकतनवो वर्त्तन्ते द्बिजसत्तमाः ।भूर्लोकवासिना याज्या भुवर्लोकनिवासिनः ॥
स्वर्गलोका मरीच्याद्यास्तेषां याज्या महर्गताः ।कल्पवासिकसंज्ञानां तेषामपि जने स्थिताः ॥
सनकाद्यास्ततस्तेषां वैराजास्तपसि स्थिताः ।तेषां सत्यगताः प्रोक्ता इत्येषा पितृसन्ततिः ॥
सप्तधा सप्तलोकेषु आदिमन्वन्तरक्रिया ।अन्येषां वसवः साध्या रुद्रादित्याश्विनाविति ॥
अग्रतः सर्व्ववर्णानां साधारण्येन संस्थिताः ।ऋषयश्च तदुत्पन्ना इति सप्तविधा गणाः ॥
तेषां कल्यास्तु संजाता महती पितृसन्ततिः ।आग्निस्वात्ताश्च मारीचा वैराजा वर्हिसंज्ञिताः ॥
सुकाला नाम पितरो वशिष्ठस्य प्रजापतेः ।तेऽपि याज्यास्त्रिभिर्वर्णैर्न शूद्रेण पृथव् कृतम् ॥
वर्णत्रयाभ्यनुज्ञातः शूद्रः सर्व्वान् पितॄन् यजेत् ।न तु तस्य पृथक् सन्ति पितरः शूद्रजातयः ॥
मुक्तचेतनका ब्रह्मन् ! न दृश्यन्ते पितृष्वपि ।विशेषशास्त्रदृष्ट्या तु पुराणानाञ्च दर्शनात् ॥
एवं ऋषिस्तुतैः शास्त्रैर्ज्ञात्वा याजकसम्भवान् ।स्वयं सृष्ट्या स्मृतिर्लब्धा पुत्त्राणां ब्रह्मणा ततः ॥
परं निर्व्वाणमापन्नास्तेऽपि ज्ञानिन एव च ।वैश्यादीनां कश्यपाद्या वर्णानां वसवादयः ॥
अविशेषेण विज्ञेया गन्धर्व्वाद्या अपि ध्रुवम् ।एष ते पैतृकः सर्ग उद्देशेन महामुने ! ।कथितो नान्त एवास्य वर्षकोट्या हि दृश्यते ॥
”इति वाराहे श्राद्धकल्पः ॥
* ॥
अपि च ।“पितॄणां सम्भवं राजन् ! कथ्यमानं निबोध मे ।पूर्व्वं प्रजापतिर्ब्रह्मा सिसृक्षुर्विविधाः प्रजाः ॥
एकाग्रमानसः सर्व्वास्तन्मात्रा मनसो बहिः ।कृत्वा परमकं ब्रह्म ध्यायन् सर्व्वेषु रूपकैः ॥
तस्यात्मनि तदा योगं गतस्य परमेष्ठिनः ।तन्मात्रा निर्ययुर्द्देहाद्धूमवर्णकृतत्विषः ॥
पिबाम इति भाषन्तः सुरां सोममितोऽसकृत् ।ऊर्द्ध्वं जिगमिषन्तो वै अधःसंस्थास्तपस्विनः ॥
तान् दृष्ट्वा सहसा ब्रह्मा तिर्य्यक्संस्थांस्तदो-न्मुखान् ।भवन्तः पितरः सन्तु सर्व्वेषां गृहमेधिनाम् ॥
ऊर्द्ध्ववक्त्रास्तु ये तत्र ते नान्दीमुखसंज्ञिताः ॥
इत्युक्त्वा तु तदा ब्रह्मा तेषां पन्थानमाकरोत् ।दक्षिणायनसंज्ञन्तु पितॄणान्तु पितामहः ॥
तूष्णीं ससर्ज भूतानि तमूचुः पितरस्ततः ।वृत्तिं नो देहि भगवन् यया विन्दामदे सुखम् ॥
ब्रह्मोवाच ।अमावास्यादिनं वोऽस्तु तस्यां कुशतिलोदकैः ।तर्पिता मानुषैस्तृप्तिं परां गच्छत नान्यथा ॥
तिला देयास्तथैतस्यामुपोष्य पितृभक्तितः ।परमं तस्य सन्तुष्टाः परं यच्छत मा चिरम् ॥
”इति वाराहे पितृसर्गस्थितिवर्णनम् ॥
* ॥
पितृश्राद्धविशेषे देवताविशेषाः पितृगणाश्च यथा, “क्रतुर्दक्षो वसुः सत्यः कामः कालस्तथा ध्वनिः ।रोचकश्चाद्रवाश्चैव तथा चान्यः पुरूरवाः ॥
विश्वेदेवा भवन्त्येते दश सर्व्वत्र पूजिताः ।विश्वदेवौ क्रतुदक्षौ सर्व्वास्विष्टिषु विश्रुतौ ॥
नित्यं नान्दीमुखश्राद्धे वसुसत्यौ च पैतृके ।नवान्नालम्भने देवौ कामकालौ सदैव हि ॥
अपि कन्यागते सूर्य्ये श्राद्धे च ध्वनिरोचकौ ।पुरूरवाश्चाद्रवाश्च विश्वदेवौ च पर्व्वणि ॥
सुभास्वरा वर्हिषदो ह्यग्निस्वात्तास्तथैव च ।आज्यपाश्चोपहूताश्च क्रव्यादाश्च सुकालिनः ।एते पितृगणाः सप्त पौराणाः केचिदेव हि ॥
”इत्यग्निपुराणम् ॥
* ॥
अग्निस्वात्तादेरुत्पत्तिर्यथा, --“ततो निगृह्येन्द्रियकं विकारं चतुराननः ।जिघृक्षुरपि तत्याज तां सन्ध्यां कामरूपिणीम् ॥
तत्शरीरात्तु घर्म्माम्भो यत् पपात द्बिजोत्तमाः ।अग्निस्वात्ता वर्हिषदो जाताः पितृगणास्ततः ॥
भिन्नाञ्जननिभाः सर्व्वे फुल्लराजीवलोचनाः ।नितान्तसंयताः पुण्याः संसारविमुखाः परे ॥
सहस्राणां चतुःषष्टिरग्निस्वात्ताः प्रकीर्त्तिताः ।षडशीतिसहस्राणि तथा वर्हिषदो द्विजाः ॥
”इति कालिकापुराणे २ अध्यायः ॥
* ॥
तेषां तर्पणविधिर्यथा, --“अपसव्यं ततः कृत्वा सव्यं जानु च भूतले ।अग्निस्वात्तांस्तथा सौम्यान् हविष्मतस्तथोष्मपान् ॥
सुकालिनो वर्हिषदस्तथा चैवाज्यपान् पुनः ।तर्पयेत्तु पितॄन् भक्त्या सतिलोदकचन्दनैः ॥
दर्भपाणिस्तु विधिवत् प्रेतांस्तांस्तर्पयेत्ततः ।पित्रादीन्नामगोत्रेण तथा मातामहानपि ।सन्तर्प्य विधिवद्भक्त्या इमं मन्त्रमुदीरयेत् ॥
ये बान्धवाबान्धवा वा येऽन्यजन्मनि बान्धवाः ।ते तृप्तिमखिलां यान्तु यश्चास्मत्तोऽभिवाञ्छति ॥
”इति मात्स्ये स्नानविधौ ८४ अध्यायः ॥
वाचस्पत्यम्
Sanskritपितृलोक ६ त० । चन्द्रलोकोपरिस्थे १ भुवनभेदे “विधू-र्ध्वभागे पितरो वसन्तः स्वाधः सुधादीधितिमामनन्ति ।पश्यन्ति तेऽर्कं निजमस्तकोर्ध्वे दर्शे यतोऽस्माद् द्युदलंतदैषाम् । भार्धान्तरत्वान्न विधोरधःस्थं तस्मान्निशीथःखलु पौर्णमास्याम् । कृष्णे रविः वक्षदलेऽभ्युदेति शुक्लेऽस्तमेत्यर्थत एव सिद्धम्” सि० शि० । पितृयाणशब्देदृश्यम् । कर्म० । २ पितृरूपे लोके ३ अग्निष्वात्तादौ च ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
