पितृतीर्थं (pitRtIrthaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritपितृतीर्थं, (पितृप्रियं तीर्थम् ।) गया । इतिजटाधरः ॥
(गयादि-२२२ पितृवल्लभतीर्थानिमत्स्यपुराणे श्राद्धकल्पे २२ अध्याये उक्तानि ।यथा, --“तीर्थानि कानि शस्तानि पितॄणां वल्लभानि च ।नामतस्तानि वक्ष्यामि संक्षेपेण द्बिजोत्तमाः ! ।पितृतीर्थं गया नाम सर्व्वतीर्थवरं शुभम् ॥
यत्रास्ते देवदेवेशः स्वयमेव पितामहः ।तत्रैषा पितृभिर्गीता गाथा भागमभीप्सुभिः ॥
एष्टव्या बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् ।यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥
तथा वाराणसी पुण्या पितॄणां वल्लभा सदा ।तत्राविमुक्तसान्निध्यं भुक्तिमुक्तिफलप्रदम् ॥
पितॄणां वल्लभं तद्वत् पुण्यञ्च विमलेश्वरम् ।पितृतीर्थं प्रयागन्तु सर्व्वकामफलप्रदम् ॥
वटेश्वरस्तु भगवान् माधवेन समन्वितः ।योगनिद्राशयस्तद्वत् सदा वसति केशवः ॥
दशाश्वमेधिकं पुण्यं गङ्गाद्वारं तथैव च ।नन्दाथ ललिता तद्वत्तीर्थं मायापुरी शुभा ॥
तथा मित्रपदं नाम ततः केदारमुत्तमम् ।गङ्गासागरमित्याहुः सर्व्वतीर्थमयं शुभम् ॥
तीर्थं ब्रह्मसरस्तद्वच्छतद्रुसलिले ह्नदे ।तीर्थन्तु नैमिषं नाम सर्व्वतीर्थफलप्रदम् ॥
गङ्गोद्भेदस्तु गोमत्यां यत्रोद्भूतः सनातनः ।तथा यज्ञवराहस्तु देवदेवश्च शूलभृत् ॥
यत्र तत्काञ्चनं द्वारमष्टादशभुजो हरः ।नेमिस्तु हरिचक्रस्य शीर्णा यत्राभवत् पुरा ॥
तदेतन्नैमिषारण्यं सर्व्वतीर्थनिषेवितम् ।देवदेवस्य तत्रापि वाराहस्य तु दर्शनम् ॥
यः प्रयाति स पूतात्मा नारायणपदं व्रजेत् ।कृतशौचं महापुण्यं सर्व्वपावनिषूदनम् ॥
यत्रास्ते नारसिंहस्तु स्वयमेव जनार्द्दनः ।तीर्थमिक्षुमती नाम पितॄणां वल्लभं सदा ॥
सङ्गमे यत्र तिष्ठन्ति गङ्गायाः पितरः सदा ।कुरुक्षेत्रं महापुण्यं सर्व्वतीर्थसमन्वितम् ॥
तथा च सरयूः पुण्या सर्व्वदेवनमस्कृता ।इरावती नदी तद्बत् पितृतीर्थाधिवासिनी ॥
यमुना देविका काली चन्द्रभागा दृषद्बती ।नदी वेणुमती पुण्या परा वेत्रवती तथा ॥
पितॄणां वल्लभा ह्येताः श्राद्धे कोटिगुणा मताः ।जम्बूमार्गं महापुण्यं यत्र मार्गो हि लक्ष्यते ॥
अद्यापि पितृतीर्थं तत् सर्व्वकामफलप्रदम् ।नीलकुण्डमिति ख्यातं पितृतीर्थं द्विजोत्तमाः ! ॥
तथा रुद्रसरः पुण्यं सरो मानसमेव च ।मन्दाकिनी तथाच्छोदा विपाशाथ सरस्वती ॥
पूर्व्वमित्रपदन्तद्वद्बैद्यनाथं महाफलम् ।क्षिप्रा नदी महाकालस्तथाकालञ्जरं शुभम् ॥
वंशोद्भेदं हरोद्भेदं गङ्गोद्भेदं महाफलम् ।भद्रेश्वरं विष्णुपदं नर्म्मदाद्वारमेव च ॥
गयापिण्डप्रदानेन समान्याहुर्महर्षयः ।एतानि पितृतीर्थानि सर्व्वपापहराणि च ॥
स्मरणादपि लोकानां किमु श्राद्धकृतां नृणाम् ।ओङ्कारं पितृतीर्थञ्च कावेरी कपिलोदकम् ॥
सम्भेदश्चण्डवेगायास्तथैवामरकण्टकम् ।कुरुक्षेत्राच्छतगुणं तस्मिन् स्नानादिकं भवेत् ॥
शुक्रतीर्थञ्च विख्यातं तीर्थं सोमेश्वरं परम् ।सर्व्वव्याधिहरं पुण्यं शतकोटिफलाधिकम् ॥
श्राद्धे दाने तथा होमे स्वाध्याये जलसन्निधौ ।कायावरोहणं नाम तथा चर्म्मण्वती नदी ॥
गोमती वरुणा तद्वत्तीर्थमौशनसं परम् ।भैरवं भृगुतुङ्गञ्च गौरीतीर्थमनुत्तमम् ॥
तीर्थं वैनायकं नाम भद्रेश्वरमतः परम् ।तथा पापहरं नाम पुण्याथ तपती नदी ॥
मूलतापी पयोष्णी च पयोष्णीसङ्गमस्तथा ।महाबोधिः पाटला च नागतीर्थमवन्तिका ॥
तथा वेणा नदी पुण्या महाशालं तथैव च ।महारुद्रं महालिङ्गं दशार्णा च नदी शुभा ॥
शतरुद्रा शताह्वा च तथा विश्वपदं परम् ।अङ्गारवाहिका तद्वन्नदौ तौ शोणघर्घरौ ॥
कालिका च नदी पुण्या वितस्ता च नदी तथा ।एतानि पितृतीर्थानि शस्यन्ते स्नानदानयोः ॥
श्राद्धमेतेषु यद्दत्तन्तदनन्तफलं स्मृतम् ।द्रोणी वाटनदी धारासरित् क्षीरनदी तथा ॥
गोकर्णं गजकर्णञ्च तथा च पुरुषोत्तमः ।द्बारका कृष्णतीर्थञ्च तथार्बुदसरस्वती ॥
नदी मणिमती नाम तथा च गिरिकर्णिका ।धूतपापं तथा तीर्थं समुद्रो दक्षिणस्तथा ॥
एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते ।तीर्थं मेघकरं नाम स्वयमेव जनार्द्दनः ॥
यत्र शार्ङ्गधरो विष्णुर्मेखलायामवस्थितः ।तथा मन्दोदरी तीर्थं तीर्थं चम्पा नदी शुभा ॥
तथा सामलनाथश्च महाशालनदी तथा ।चक्रवाकं चर्म्मकोटं तथा जन्मेश्वरं महत् ॥
अर्ज्जुनं त्रिपुरं चैव सिद्धेश्वरमतः परम् ।श्रीशैलं शाङ्करं तीर्थं नारसिंहमतःपरम् ॥
महेन्द्रञ्च तथा पुण्यमथ श्रीरङ्गसंज्ञितम् ।एतेष्वपि सदा श्राद्धमनन्तफलदं स्मृतम् ॥
दर्शनादपि चैतानि सद्यः पापहराणि वै ।तुङ्गभद्रा नदी पुण्या तथा भीमरथी सरित् ॥
भीमेश्वरं कृष्णवेणा कावेरी कुड्मला नदी ।नदी गोदावरी नाम त्रिसन्ध्या तीर्थमुत्तमम् ॥
तीर्थं त्रैयम्बकं नाम सर्व्वतीर्थनमस्कतम् ।यत्रास्ते भगवानीशः स्वयमेव त्रिलोचनः ॥
श्राद्धमेतेषु सर्व्वेषु कोटिकोटिगुणं भवेत् ।स्मरणादपि पापानि नश्यन्ति शतधा द्विजाः ! ॥
श्रीपर्णी ताम्रपर्णी च जयातीर्थमनुत्तमम् ।तथा मत्स्यनदी पुण्या शिवधारं तथैव च ॥
भद्रतीर्थञ्च विख्यातं पम्पातीर्थञ्च शाश्वतम् ।पुण्यं रामेश्वरं तद्वदेलापुरमलं परम् ॥
अङ्गभूतञ्च विख्यातमानन्दकमलं बुधम् ।आम्रातकेश्वरं तद्बदेकाम्भकमतः परम् ॥
गोवर्द्धनं हरिश्चन्द्रं कृपुचन्द्रं पृथूदकम् ।सहस्राक्षं हिरण्याक्षं तथा च कदली नदी ॥
रामाधिवासस्तत्रापि तथा सौमित्रिसङ्गमः ।इन्द्रकीलं महानादन्तथा च प्रियमेलकम् ॥
एतान्यपि सदा श्राद्धे प्रशस्तान्यधिकानि तु ।एतेषु सर्व्वदेवानां सान्निध्यं दृश्यते यतः ॥
दानमेतेषु सर्व्वेषु दत्तं कोटिशताधिकम् ।बाहुदा च नदी पुण्या तथा सिद्धवनं शुभम् ॥
तीर्थं पाशुपतं नाम नदी पार्व्वतिका शुभा ।श्राद्धमेतेषु सर्व्वेषु दत्तं कोटिशतोत्तरम् ॥
तथैव पितृतीर्थन्तु यत्र गोदावरी नदी ।युतालिङ्गसहस्रेण सर्व्वान्तरजलावहा ॥
जामदग्न्यस्य तत्तीर्थं क्रमादायातमुत्तमम् ।प्रतीकस्य भयाद्भिन्नं यत्र गोदावरी नदी ॥
तत्तीर्थं हव्यकव्यानामप्सरोयुगसंज्ञितम् ।श्राद्धाग्निकार्य्यदानेषु तथा कोटिशताधिकम् ॥
तथा सहस्रलिङ्गञ्च राघवेश्वरमुत्तमम् ।सेन्द्रफेना नदी पुण्या यत्रेन्द्रः पतितः पुरा ॥
निहत्य नमुचिं शक्रस्तपसा स्वर्गमाप्तवान् ।तत्र दत्तं नरैः श्राद्धमनन्तफलदं भवेत् ॥
तीर्थन्तु पुष्करं नाम शालग्रामं तथैव च ।सोमपानञ्च विख्यातं यत्र वैश्वानरालयम् ॥
तीर्थं सारस्वतं नाम स्वामितीर्थं तथैव च ।मलन्दरा नदी पुण्या कौशिकी चन्द्रिका तथा ॥
वैदर्भा वाथ वैरा च पयोष्णी प्राङ्मुखा परा ।कावेरी चोत्तरा पुण्या तथा जालन्धरो गिरिः ॥
एतेषु श्राद्धतीर्थेषु श्राद्धमानन्त्यमश्नुते ।लोहदण्डं तथा तीर्थं चित्रकूटस्तथैव च ॥
बिन्ध्ययोगश्च गङ्गायास्तथा नदीतटं शुभम् ।कुब्जाभ्रन्तु तथा तीर्थं उर्व्वशीपुलिनं तथा ॥
संसारमोचनं तीर्थं तथैव ऋणमोचनम् ।एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते ॥
अट्टहासं तथा तीर्थं गौतमेश्वरमेव च ।तथा वशिष्ठं तीर्थन्तु हारितं तु ततः परम् ॥
ब्रह्मावर्त्तं कुशावर्त्तं हयतीर्थं तथैव च ।पिण्डारकञ्च विख्यातं शङ्खोद्धारं तथैव च ॥
घण्टेश्वरं विल्वकञ्च नीलपर्व्वतमेव च ।तथा च धरणीतीर्थं रामतीर्थं तथैव च ॥
अश्वतीर्थञ्च विख्यातमनन्तं श्राद्धदानयोः ।तीर्थं बेदशिरो नाम तथैवौघवती नदी ॥
तीर्थं वसुप्रदं नाम छागलाण्डं तथैव च ।एतेषु श्राद्धदातारः प्रयान्ति परमं पदम् ॥
तथा च वदरीतीर्थं गणतीर्थं तथैव च ।जयन्तं विजयञ्चैव शुक्रतीर्थं तथैव च ॥
श्रीपतेश्च तथा तीर्थं तीर्थं रैवतकं तथा ।तथैव शारदातीर्थं भद्रकालेश्वरं तथा ॥
वैकुण्ठतीर्थञ्च परं भीमेश्वरमथापि वा ।एतेषु श्राद्धदातारः प्रयान्ति परमां गतिम् ॥
तीर्थं मातृगृहं नाम करवीरपुरं तथा ।कुशेश्वरञ्च विख्यातं गौरीशिखरमेव च ॥
नकुलेशस्य तीर्थञ्च कर्दमालं तथैव च ।दण्डिपुण्यकरं तद्वत् पुण्डरीकपुरं तथा ॥
सप्त गोदावरीतीर्थं सर्व्वतीर्थेश्वरेश्वरम् ।तत्र श्राद्धं प्रदातव्यमनन्तफलमीप्सुभिः ॥
एष तूद्देशतः प्रोक्तस्तीर्थानां संग्रहो मया ।वागीशोऽपि न शक्नोति विस्तरात् किमु ।मानुषः ॥
सत्यं तीर्थं दया तीर्थं तीर्थमिन्द्रियनिग्रहः ।वर्णाश्रमाणां गेहेऽपि तीर्थन्तु समुदाहृतम् ॥
एतत्तीर्थेषु यच्छ्राद्धं तत् कोटिगुणमिष्यते ।यस्मात् तस्मात् प्रयत्नेन तीर्थं श्राद्धं समाच-रेत् ॥
” * ॥
)तर्ज्जन्यङ्गुष्ठयोर्मध्यम् । इत्यमरः ॥
“अन्तराङ्गुष्ठदेशिन्योः पितॄणां तीर्थमुत्तमम् ॥
”इति कौर्म्मे उपविभागे ११ अध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
