| YouTube Channel

पितृतीर्थ (pitRtIrtha)

 
शब्दसागरः
English
पितृतीर्थ
n.
(-र्थं)
1. Gaya, the city so called, where the performance
of funeral sacrifices is peculiarly efficacious and meritorious.
2.
The part between the forefinger and thumb, sacred to the
manes.
E.
पितृ a progenitor, and तीर्थ a place of pilgrimage.
Yates
English
पितृ-तीर्थ (र्थं) 1.
n.
Gayā, a place of
pilgrimage
the part between
the thumb and forefinger.
Wilson
English
पितृतीर्थ
n.
(-र्थं)
1 Gaya, the city so called, where the performance of funeral sacrifices is
peculiarly efficacious and meritorious.
2 The part between the forefinger and thumb, sacred to the manes.
E.
पितृ a progenitor, and तीर्थ a place of pilgrimage.
Monier Williams Cologne
English
पितृ—तीर्थ
n.
‘Tīrtha (s.v. ) of the P°s’,
N.
of the place called Gayā,
L.
a partic. part of the hand (= -तर्पण),
KātyŚr.
, Sch.
Apte Hindi
Hindi
पितृतीर्थम्
नपुं*
पितृ-तीर्थम् -
गया तीर्थ जहाँ जाकर पितरों के निमित्त श्राद्ध करना विशेष रूप से फलदायक विहित है
पितृतीर्थम्
नपुं*
पितृ-तीर्थम् -
अँगूठे और तर्जनी के मध्य का भाग
Shabdartha Kaustubha
Kannada
पितृतीर्थ
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಗಯಾಕ್ಷೇತ್ರ
व्युत्पत्तिः - > पितृप्रियं तीर्थम्
पितृतीर्थ
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಅಂಗುಷ್ಠ ಮತ್ತು ತರ್ಜನೀ ಬೆರಳುಗಳ ಮಧ್ಯೆ ಪಿತೃಗಳನ್ನು ಉದ್ದೇಶಿಸಿ ಬಿಡುವ ತೀರ್ಥ
प्रयोगाः - > "अन्तराङ्गुष्ठदेशिन्योः पितॄणां तीर्थमुत्तमम्"
उल्लेखाः - > कूर्मपु०
L R Vaidya
English
pitf-tIrTa {% n. %} 1. an epithet of Gayā, where the performance of obsequial rites is considered peculiarly meritorious
2. the part of the hand between the forefinger and the thumb (which is considered to be sacred to the Manes).
पुराणम्
English
पितृतीर्थ / PITṚTĪRTHA. The Kumbhīpākanaraka (the hell of kumbhīpāka) in the land of the manes is called pitṛtīrtha. There is a story about this in devī bhāgavata:
Once the sage durvāsas with his body smeared with ashes and wearing sacred berries went to Pitṛloka muttering “Śivaśaṅkara sarvātman śrīmātar bhuvaneśvari”. The lord of the Pitṛloka received him with respect and worshipped him. While they were talking, durvāsas heard cries of agnoy from somewhere and the sage then asked Pitṛnātha thus: “Oh lord of the pitṛs, I have heard you described as a very virtuous man. How can then such painful cries of distress be heard from here? “Oh, I am dying beaten”, “Oh, I am being killed” “Oh, I am dying” and “Oh, I am being burnt” are some of the woeful shrieks I hear. What is the reason for this?”
Hearing this dharmarāja said: “Great sage, this is in fact a land of virtue. Nothing but righteous things are done here. I can tell you from where you hear that wail. The Yamapurī named saṁyamanī is nearby. There yama sits to punish the sinners. yama is a dispenser of Justice and he has got several cruel and mighty servants to carry out his orders. There are eighty-six hells to punish the sinners and of these kumbhīpāka is the most horrible. Great sinners like those who insult the gods, fornicators and those who insult their parents are put in this hell and punished. You are now hearing the cries of such sinners from that hell.”
durvāsas was curious to see the hell and the lord of the Manes gave permission and asked his servants to show durvāsas the Kumbhīpākanaraka. The hell was found to change into a heaven. The residents were laughing, singing dancing and doing such acts of happiness.
The servants of yama were astonished and they went and reported to Yamarāja this sudden change. Yamarāja was also amazed to hear the news. He immediately rode on his vehicle, the buffalo, to the hell to learn the details personally. He could not find out the cause for the change. The place looked like the Svargaloka of indra. King yama sent a messenger to indra with the news and indra at first thought that it must be due to some māyā and so came to the place swiftly on his airāvata. The news spread and one by one brahmā, viṣṇu, the aṣṭadikpālakas (the eight guardians of the quarters) and all such people came to Kumbhīpākanaraka. Nobody could find an explanation for this change and so Mahāviṣṇu accompanied by a few devas went to kailāsa and reported the matter to śiva and śiva said smilingly “Oh viṣṇu, all this happened because of the greatness of the holy ashes. When the sage durvāsas bent down to have a good look at the hell, particles of ashes from his body fell into the hell. From that moment onwards Kumbhīpākanaraka became a holy place for the Manes. This hell will henceforth be known as pitṛtīrtha and those pitṛs who bathe in the holy pond there will become virtuous people. Do install on the shore of this pond an idol of mine, a śivaliṅga, and by my side the idol of umā, which is my power in an embodied form.” The devas returned and did as they were directed.
शब्दकल्पद्रुमः
Sanskrit
पितृतीर्थं,
क्ली,
(पितृप्रियं तीर्थम् ।) गया इतिजटाधरः
(गयादि-२२२ पितृवल्लभतीर्थानिमत्स्यपुराणे श्राद्धकल्पे २२ अध्याये उक्तानि ।यथा, --“तीर्थानि कानि शस्तानि पितॄणां वल्लभानि ।नामतस्तानि वक्ष्यामि संक्षेपेण द्बिजोत्तमाः ! ।पितृतीर्थं गया नाम सर्व्वतीर्थवरं शुभम्
यत्रास्ते देवदेवेशः स्वयमेव पितामहः ।तत्रैषा पितृभिर्गीता गाथा भागमभीप्सुभिः
एष्टव्या बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् ।यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्
तथा वाराणसी पुण्या पितॄणां वल्लभा सदा ।तत्राविमुक्तसान्निध्यं भुक्तिमुक्तिफलप्रदम्
पितॄणां वल्लभं तद्वत् पुण्यञ्च विमलेश्वरम् ।पितृतीर्थं प्रयागन्तु सर्व्वकामफलप्रदम्
वटेश्वरस्तु भगवान् माधवेन समन्वितः ।योगनिद्राशयस्तद्वत् सदा वसति केशवः
दशाश्वमेधिकं पुण्यं गङ्गाद्वारं तथैव ।नन्दाथ ललिता तद्वत्तीर्थं मायापुरी शुभा
तथा मित्रपदं नाम ततः केदारमुत्तमम् ।गङ्गासागरमित्याहुः सर्व्वतीर्थमयं शुभम्
तीर्थं ब्रह्मसरस्तद्वच्छतद्रुसलिले ह्नदे ।तीर्थन्तु नैमिषं नाम सर्व्वतीर्थफलप्रदम्
गङ्गोद्भेदस्तु गोमत्यां यत्रोद्भूतः सनातनः ।तथा यज्ञवराहस्तु देवदेवश्च शूलभृत्
यत्र तत्काञ्चनं द्वारमष्टादशभुजो हरः ।नेमिस्तु हरिचक्रस्य शीर्णा यत्राभवत् पुरा
तदेतन्नैमिषारण्यं सर्व्वतीर्थनिषेवितम् ।देवदेवस्य तत्रापि वाराहस्य तु दर्शनम्
यः प्रयाति पूतात्मा नारायणपदं व्रजेत् ।कृतशौचं महापुण्यं सर्व्वपावनिषूदनम्
यत्रास्ते नारसिंहस्तु स्वयमेव जनार्द्दनः ।तीर्थमिक्षुमती नाम पितॄणां वल्लभं सदा
सङ्गमे यत्र तिष्ठन्ति गङ्गायाः पितरः सदा ।कुरुक्षेत्रं महापुण्यं सर्व्वतीर्थसमन्वितम्
तथा सरयूः पुण्या सर्व्वदेवनमस्कृता ।इरावती नदी तद्बत् पितृतीर्थाधिवासिनी
यमुना देविका काली चन्द्रभागा दृषद्बती ।नदी वेणुमती पुण्या परा वेत्रवती तथा
पितॄणां वल्लभा ह्येताः श्राद्धे कोटिगुणा मताः ।जम्बूमार्गं महापुण्यं यत्र मार्गो हि लक्ष्यते
अद्यापि पितृतीर्थं तत् सर्व्वकामफलप्रदम् ।नीलकुण्डमिति ख्यातं पितृतीर्थं द्विजोत्तमाः !
तथा रुद्रसरः पुण्यं सरो मानसमेव ।मन्दाकिनी तथाच्छोदा विपाशाथ सरस्वती
पूर्व्वमित्रपदन्तद्वद्बैद्यनाथं महाफलम् ।क्षिप्रा नदी महाकालस्तथाकालञ्जरं शुभम्
वंशोद्भेदं हरोद्भेदं गङ्गोद्भेदं महाफलम् ।भद्रेश्वरं विष्णुपदं नर्म्मदाद्वारमेव
गयापिण्डप्रदानेन समान्याहुर्महर्षयः ।एतानि पितृतीर्थानि सर्व्वपापहराणि
स्मरणादपि लोकानां किमु श्राद्धकृतां नृणाम् ।ओङ्कारं पितृतीर्थञ्च कावेरी कपिलोदकम्
सम्भेदश्चण्डवेगायास्तथैवामरकण्टकम् ।कुरुक्षेत्राच्छतगुणं तस्मिन् स्नानादिकं भवेत्
शुक्रतीर्थञ्च विख्यातं तीर्थं सोमेश्वरं परम् ।सर्व्वव्याधिहरं पुण्यं शतकोटिफलाधिकम्
श्राद्धे दाने तथा होमे स्वाध्याये जलसन्निधौ ।कायावरोहणं नाम तथा चर्म्मण्वती नदी
गोमती वरुणा तद्वत्तीर्थमौशनसं परम् ।भैरवं भृगुतुङ्गञ्च गौरीतीर्थमनुत्तमम्
तीर्थं वैनायकं नाम भद्रेश्वरमतः परम् ।तथा पापहरं नाम पुण्याथ तपती नदी
मूलतापी पयोष्णी पयोष्णीसङ्गमस्तथा ।महाबोधिः पाटला नागतीर्थमवन्तिका
तथा वेणा नदी पुण्या महाशालं तथैव ।महारुद्रं महालिङ्गं दशार्णा नदी शुभा
शतरुद्रा शताह्वा तथा विश्वपदं परम् ।अङ्गारवाहिका तद्वन्नदौ तौ शोणघर्घरौ
कालिका नदी पुण्या वितस्ता नदी तथा ।एतानि पितृतीर्थानि शस्यन्ते स्नानदानयोः
श्राद्धमेतेषु यद्दत्तन्तदनन्तफलं स्मृतम् ।द्रोणी वाटनदी धारासरित् क्षीरनदी तथा
गोकर्णं गजकर्णञ्च तथा पुरुषोत्तमः ।द्बारका कृष्णतीर्थञ्च तथार्बुदसरस्वती
नदी मणिमती नाम तथा गिरिकर्णिका ।धूतपापं तथा तीर्थं समुद्रो दक्षिणस्तथा
एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते ।तीर्थं मेघकरं नाम स्वयमेव जनार्द्दनः
यत्र शार्ङ्गधरो विष्णुर्मेखलायामवस्थितः ।तथा मन्दोदरी तीर्थं तीर्थं चम्पा नदी शुभा
तथा सामलनाथश्च महाशालनदी तथा ।चक्रवाकं चर्म्मकोटं तथा जन्मेश्वरं महत्
अर्ज्जुनं त्रिपुरं चैव सिद्धेश्वरमतः परम् ।श्रीशैलं शाङ्करं तीर्थं नारसिंहमतःपरम्
महेन्द्रञ्च तथा पुण्यमथ श्रीरङ्गसंज्ञितम् ।एतेष्वपि सदा श्राद्धमनन्तफलदं स्मृतम्
दर्शनादपि चैतानि सद्यः पापहराणि वै ।तुङ्गभद्रा नदी पुण्या तथा भीमरथी सरित्
भीमेश्वरं कृष्णवेणा कावेरी कुड्मला नदी ।नदी गोदावरी नाम त्रिसन्ध्या तीर्थमुत्तमम्
तीर्थं त्रैयम्बकं नाम सर्व्वतीर्थनमस्कतम् ।यत्रास्ते भगवानीशः स्वयमेव त्रिलोचनः
श्राद्धमेतेषु सर्व्वेषु कोटिकोटिगुणं भवेत् ।स्मरणादपि पापानि नश्यन्ति शतधा द्विजाः !
श्रीपर्णी ताम्रपर्णी जयातीर्थमनुत्तमम् ।तथा मत्स्यनदी पुण्या शिवधारं तथैव
भद्रतीर्थञ्च विख्यातं पम्पातीर्थञ्च शाश्वतम् ।पुण्यं रामेश्वरं तद्वदेलापुरमलं परम्
अङ्गभूतञ्च विख्यातमानन्दकमलं बुधम् ।आम्रातकेश्वरं तद्बदेकाम्भकमतः परम्
गोवर्द्धनं हरिश्चन्द्रं कृपुचन्द्रं पृथूदकम् ।सहस्राक्षं हिरण्याक्षं तथा कदली नदी
रामाधिवासस्तत्रापि तथा सौमित्रिसङ्गमः ।इन्द्रकीलं महानादन्तथा प्रियमेलकम्
एतान्यपि सदा श्राद्धे प्रशस्तान्यधिकानि तु ।एतेषु सर्व्वदेवानां सान्निध्यं दृश्यते यतः
दानमेतेषु सर्व्वेषु दत्तं कोटिशताधिकम् ।बाहुदा नदी पुण्या तथा सिद्धवनं शुभम्
तीर्थं पाशुपतं नाम नदी पार्व्वतिका शुभा ।श्राद्धमेतेषु सर्व्वेषु दत्तं कोटिशतोत्तरम्
तथैव पितृतीर्थन्तु यत्र गोदावरी नदी ।युतालिङ्गसहस्रेण सर्व्वान्तरजलावहा
जामदग्न्यस्य तत्तीर्थं क्रमादायातमुत्तमम् ।प्रतीकस्य भयाद्भिन्नं यत्र गोदावरी नदी
तत्तीर्थं हव्यकव्यानामप्सरोयुगसंज्ञितम् ।श्राद्धाग्निकार्य्यदानेषु तथा कोटिशताधिकम्
तथा सहस्रलिङ्गञ्च राघवेश्वरमुत्तमम् ।सेन्द्रफेना नदी पुण्या यत्रेन्द्रः पतितः पुरा
निहत्य नमुचिं शक्रस्तपसा स्वर्गमाप्तवान् ।तत्र दत्तं नरैः श्राद्धमनन्तफलदं भवेत्
तीर्थन्तु पुष्करं नाम शालग्रामं तथैव ।सोमपानञ्च विख्यातं यत्र वैश्वानरालयम्
तीर्थं सारस्वतं नाम स्वामितीर्थं तथैव ।मलन्दरा नदी पुण्या कौशिकी चन्द्रिका तथा
वैदर्भा वाथ वैरा पयोष्णी प्राङ्मुखा परा ।कावेरी चोत्तरा पुण्या तथा जालन्धरो गिरिः
एतेषु श्राद्धतीर्थेषु श्राद्धमानन्त्यमश्नुते ।लोहदण्डं तथा तीर्थं चित्रकूटस्तथैव
बिन्ध्ययोगश्च गङ्गायास्तथा नदीतटं शुभम् ।कुब्जाभ्रन्तु तथा तीर्थं उर्व्वशीपुलिनं तथा
संसारमोचनं तीर्थं तथैव ऋणमोचनम् ।एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते
अट्टहासं तथा तीर्थं गौतमेश्वरमेव ।तथा वशिष्ठं तीर्थन्तु हारितं तु ततः परम्
ब्रह्मावर्त्तं कुशावर्त्तं हयतीर्थं तथैव ।पिण्डारकञ्च विख्यातं शङ्खोद्धारं तथैव
घण्टेश्वरं विल्वकञ्च नीलपर्व्वतमेव ।तथा धरणीतीर्थं रामतीर्थं तथैव
अश्वतीर्थञ्च विख्यातमनन्तं श्राद्धदानयोः ।तीर्थं बेदशिरो नाम तथैवौघवती नदी
तीर्थं वसुप्रदं नाम छागलाण्डं तथैव ।एतेषु श्राद्धदातारः प्रयान्ति परमं पदम्
तथा वदरीतीर्थं गणतीर्थं तथैव ।जयन्तं विजयञ्चैव शुक्रतीर्थं तथैव
श्रीपतेश्च तथा तीर्थं तीर्थं रैवतकं तथा ।तथैव शारदातीर्थं भद्रकालेश्वरं तथा
वैकुण्ठतीर्थञ्च परं भीमेश्वरमथापि वा ।एतेषु श्राद्धदातारः प्रयान्ति परमां गतिम्
तीर्थं मातृगृहं नाम करवीरपुरं तथा ।कुशेश्वरञ्च विख्यातं गौरीशिखरमेव
नकुलेशस्य तीर्थञ्च कर्दमालं तथैव ।दण्डिपुण्यकरं तद्वत् पुण्डरीकपुरं तथा
सप्त गोदावरीतीर्थं सर्व्वतीर्थेश्वरेश्वरम् ।तत्र श्राद्धं प्रदातव्यमनन्तफलमीप्सुभिः
एष तूद्देशतः प्रोक्तस्तीर्थानां संग्रहो मया ।वागीशोऽपि शक्नोति विस्तरात् किमु ।मानुषः
सत्यं तीर्थं दया तीर्थं तीर्थमिन्द्रियनिग्रहः ।वर्णाश्रमाणां गेहेऽपि तीर्थन्तु समुदाहृतम्
एतत्तीर्थेषु यच्छ्राद्धं तत् कोटिगुणमिष्यते ।यस्मात् तस्मात् प्रयत्नेन तीर्थं श्राद्धं समाच-रेत्
*
)तर्ज्जन्यङ्गुष्ठयोर्मध्यम् इत्यमरः
“अन्तराङ्गुष्ठदेशिन्योः पितॄणां तीर्थमुत्तमम्
”इति कौर्म्मे उपविभागे ११ अध्यायः
वाचस्पत्यम्
Sanskrit
पितृतीर्थ
न०
पितृप्रियं तीर्थम् शा० त० “अन्तराङ्गुष्ठदेशिन्योःपितॄणां तीर्थमुत्तमम्” कूर्मपु० उक्ते तर्जन्यङ्गुष्ठमध्य-स्थाने अमरः गयादौ तीर्थे यथोक्तं मत्स्यपु० २२ अ०“पितृतीर्थं गया१ नाम सर्वतीर्थवरं शुभम् यत्रास्तेदेवदेवेशः स्वयमेव पितामहः तत्रैषा पितृभिर्गीतागाथा भागमभीप्सुभिः एष्टव्या बहवः पुत्रा यद्येकोऽपिगयां व्रजेत् यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ।तथा वाराणसी पुण्या पितॄणां वल्लभा सदा यत्रावि-मुक्तसान्निध्यं भुक्तिमुक्तिफलप्रदम् पितॄणां वल्लभं तद्वत्पुण्यञ्च विमलेश्वरम् पितृतीर्थं प्रयाग न्तु सर्वकामफ-लप्रदम् वटेश्वर स्तु भगवान् माधवेन समन्वितः योगविद्राशयस्तद्वत् सदा वसति केशवः दशाश्वमेधिकं पुण्यंगङ्गाद्वारं तथैव नन्दा ललिता तद्वत्तीर्थंमायापुरी १० शुभा तथा मित्रपदं ११ नाम ततः केदा-र१२ मुत्तमम् गङ्गासागर १३ मित्याहुः सर्वतीर्थमयं शु-भम् तीर्थं ब्रह्मसर १४ स्तद्वच्छतद्रुसलिले ह्रदे ती-र्थन्तु नैमिषं १५ नाम सर्वतीर्थफलव्रदम् गङ्गोद्भेद १६ स्तगोमत्यां यत्रोद्भूतः सनातनः तथा यज्ञवराह १७ स्तुदेवदेवश्च शूलभृत् यत्र तत्काञ्चनं द्वारमष्टादशभुजोहरः नेमिंस्तु हरिचक्रस्य शीर्णा यत्राभवत्पुरा ।तदेतन्नैमिषारण्यं १८ सर्वतीर्थनिषेवितम् देवदेवस्यतत्रापि वाराहस्य तु दर्शनम् यः प्रयाति पूतात्मानारायणपदं व्रजेत् कृतशौचं महा पुण्यं सर्वपाप-निषूदनम् तत्रास्ते नारसिंहस्तु स्वयमेव जनार्द्दनः ।तीर्थमिक्षुमती १९ नाम पितॄणां वल्लभं सदा सङ्गमेयत्र तिष्ठन्ति गङ्गायाः पितरः सदा कुरूक्षेत्रं २०महापुण्यं सर्वतीर्थसमन्वितम् तथा सरयूः २१पुण्या सर्वदेवनमस्कृता इरावती २२ नदी तद्वत् पितृ-तीर्थाधिवासिनी यमुना २३ देविका २४ काली २५चन्द्रभागा २६ दृषद्वती २७ नदी वेणुमती २८ पुण्या परावेत्रवती २९ तथा पितॄणां वल्लभा ह्येताः श्राद्धे को-टीगुणा मताः जम्बूमार्गं ३० महापुण्यं यत्रमार्गो हि लक्ष्यते अद्यापि पितृतीर्थं तत्सर्वकामफ-लप्रदम् नीलकुण्डमिति ३१ ख्यातं पितृतीर्थं द्विजो-त्तमाः! तथा रुद्रसरः ३२ पुण्यं सरोमानस ३३ मेवच मन्दाकिनी ३४ तथाऽच्छोदा ३५ विपाशा ३६ सर-स्वती ३७ पूर्वमित्रपदं ३८ तद्वद्वैद्यनाथं ३९ महाफ-लम् शिप्रा ४० नदी महाकाल ४१ स्तथाकालञ्जरं ४२शुभम् वंशोद्भेदं ४३ हरोद्भेदं ४४ गङ्गोद्भेदं ४५ महा-फलम् भद्रेश्वरं ४६ विष्णुपदं ४७ नर्मदाद्वार ४८ मेवच गयापिण्डप्रदानेन समान्याहुर्महर्षयः एतानिपितृतीर्थानि सर्वपापहराणि स्मरणादपि लोकानांकिमु श्राद्धकृतां नृणाम् ओङ्कारं ४९ पितृतीर्थञ्चकावेरी ५० कपिलीदकम् ५१ सम्भेद ५२ श्चण्डवेगायास्त-थैवामरकण्टकम् ५३ कुरुक्षेत्राच्छतगुणं तस्मिन् स्ना-नादिकं भवेत् शुक्रतीर्थ ५४ ञ्च विख्यातं तीर्थं सीमे-श्वरं ५५ परम् सर्वव्याधिहरं पुण्यं शतकोटिफला-धिकम् श्राद्धे दाने तथा होमे स्वाध्याये जलस-न्निधौ कायावरोहणं ५६ नाम तथा चर्मण्वती ५७नदी गोमती ५८ वरुणा ५९ तत्तद्वत्तीर्थमौशनस ६० म्प-रम् भैरवं ६१ भृगुतुङ्ग ६२ ञ्च गौरीतीर्थ ६३ मनुत्तमम् ।तीर्थं वैनायकं ६४ नाम भद्रेश्वर ६५ मतःपरम् तथापापहरं ६६ नाम पुण्याथ तपती ६७ नदी मूलता-पी ६८ पयोष्णी ६९ पयोष्णीसङ्गम ७० स्तथा महा-बोधिः ७१ पाटला ७२ नागतीर्थ ७३ मवन्तिका ७४ ।तथा वेणा ७५ नदी पुण्या महाशालं ७६ तथैव ।महारुद्र ७७ महालिङ्गं दशार्णा ७८ नदी शुभा ।शतरुद्रा ७९ शताह्वा ८० तथा विश्वपदं ८१ परम् ।अङ्गारवाहिका ८२ तद्वन्नदौ शोण ८३ वर्घरौ ८४ का-लिका ८५ नदी पुण्या वितस्ताऽ ८६ तो नदी तथा ।एतानि पितृतीर्थानि शस्यन्ते स्नानदानयोः श्राद्धमे-तेषु यद्दत्तन्तदनन्तफलं स्मृतम् द्रोणी ८७ वाटनदीं ८८धारा ८९ सरित् क्षीरनदी ९० तथा गोकर्णं ९१ गज-कर्ण ९२ ञ्च तथा पुरुषोत्तमः ९३ द्वारका ९४ कृष्णती-र्थञ्च ९५ तथार्बुदसरस्वती ९६ नदी मणिमती ९७ नामतथा गिरिकर्ण्णिका ९८ धूतपापं ९९ तथा तीर्थसमुद्रो १०० दक्षिणस्तथा एतेषु पितृतीर्थेषु श्राद्धमा-नन्त्यमश्नुते तीर्थं मेघकरं १०१ नाम स्वयमेव जना-र्दनः यत्र शार्ङ्गधरो विष्णुर्मेखलायाभवस्थितः ।तथा मन्दोदरीतीर्थं १०२ तीर्थं चम्पा १०३ नदी शुभा ।तथा मामलनाथ १०४ श्च महाशालनदी १०५ तथा ।चक्रवाकं १०६ चर्मकोटं १०७ तथा जन्मेश्वरं १०८ महत् ।अर्जुनं १०९ त्रिपुरं ११० चैव सिद्धेश्वर १११ मतःपरम् ।श्रीशैलं ११२ शाङ्करं ११३ तीर्थं नारसिंह ११४ मतःपरम् ।महेन्द्र ११५ ञ्च तथा पुण्यमथ श्रीरङ्गसंज्ञितम् ११६ एते-ष्वपि सदा श्राद्धमनन्तफलदं स्मृतम् दर्शनादपिचैतानि सद्यः पापहराणि वै तुङ्गभद्रा ११७ नदीपुण्या तथा भीमरथी ११८ सरित् भीमेश्वरं ११९ कृष्णवेणा १२० कावेरी १२१ कुड्मला १२२ नदी नदी गो-दावरी १२३ नाम त्रिसन्ध्यातीर्थ १२४ मुत्तमम् तीर्थंत्रैयम्बकं १२५ नाम सर्वतीर्थनमस्कृतम् यत्रास्तेभगवानीशः स्वयमेव त्रिलोचनः श्राद्धमेतेषु सर्वेषुकोटिकोटिगुणं भवेत् स्मरणादपि पापानि नश्यन्तिशतधा द्विजाः! श्रीपर्णी १२६ ताम्रपर्णी १२७ चजयाबीर्थ १२८ मनुत्तमम् तथा मत्स्यनदी १२९ पुण्याशिवधारं १३० तथैव भद्रतीर्थ १३१ ञ्च विख्यातंपम्पातीर्थ १३२ ञ्च शाश्वतम् पुण्यं रामेश्वरं १३३ तद्व-देलापुर १३४ मलम्पुर १३५ म् अङ्गभूत १३६ ञ्च विख्या-तमानन्दकमलं पुरम् १३७ आम्रातकेश्वरं १३८ तद्वदे-काम्रक १३९ मतःपरम् गोवर्धनं १४० हरिश्चन्द्रं १४१ कृपु-चन्द्रं १४२ पृथूदकम् १४३ सहस्राक्षं १४४ हिरण्या-क्ष १४५ तथा कदली १४६ नदी रामाधिवास १४७स्तत्रापि तथा सौमित्रिसङ्गमः १४८ इन्द्रकीलं १४९ महा-नाद १५० न्तथा प्रियमेलकम् १५१ एतान्यपि सदाश्राद्धे प्रशस्तान्यधिकानि तु “एतेषु सर्वदेतानां सा-न्निध्यं दृश्यते यतः दानमेतेषु सर्वेषु दत्तं कोटिशता-धिकम् बाहुदा १५२ नदी पुण्या तथा सिद्ध-वनं १५३ शुभम् तीर्थं पाशुपतं १५४ नाम नदीपार्वतिका १५५ शुभा श्राद्धमेतेषु सर्वेषु दत्तं कोटिश-तोत्तरम् तथैव पितृतीर्थन्तु यत्र गोदावरी नदी ।युता सिङ्गसहस्रेण सर्वान्तरजलावहा १५६ जामद-ग्म्यस्य तत्तीर्थं १५७ क्रमादायातमुत्तमम् प्रतीकस्य भया-द्भिन्ना यत्र गोदावरी नदी तत्तीर्थं हव्यकव्यानामप्-सरोयुगसंज्ञितम् १५८ श्राद्धाग्निकार्य्यदानेषु तथाकोटिशताधिकम् तथा सहस्रलिङ्ग १५९ ञ्च राघवेश्वर १६०मुत्तमम् सेन्द्रफेना १६१ नदी पुण्या यत्रेन्द्रः पतितःपुरा निहत्य नमुचिं शक्रस्तपसा स्वर्गमाप्तवान् ।तत्र दत्तं नरैः श्राद्धमनन्तफलदं भवेत् तीर्थन्तु पु-ष्करं १६२ नाम शालग्रामं १६३ तथैव सोमपा-न १६४ ञ्च विख्यातं यत्र वैश्वानरालयः तीर्थं सार-स्वतं १६५ नाम स्वामितीर्थं १६६ तथैव मल-न्दरा १६७ नदी पुण्या कौशिकी १६८ चन्द्रिका १६९तथा वैदर्भा १७० वाथ वैरा १७१ पयोष्णी १७२प्राङ्मुखा परा कावेरी १७३ चोत्तरा पुण्या तथाजालन्धरो १७३ गिरिः एतेषु श्राद्धतीर्थेषु श्राद्धमान-न्त्यमश्नुते लोहदण्डं १७५ तथा तीर्थं चित्रकूट १७६स्तथैव विन्ध्ययोग १६७ श्च गङ्गायास्तथा नदी-तटं १७८ शुभम् कुब्जाभ्र १७९ न्तु तथा तीर्थं उर्व-शीपुलिनं १८० तथा संसारमोचनं १८१ तीर्थं तथैवऋणमोचनम् १८२ एतेषु पितृतीर्थेषु श्राद्धमानन्त्यम-श्नुते अट्टहासं १८३ तथा तीर्थं गौतमेश्वर १८४ मेवच तथा वशिष्ठतीर्थ १८५ न्तु हारीतं १८६ तु ततःष-रम् ब्रह्मावर्तं १८७ कुशावर्त्तं १८८ हयतीर्थं १८९तथैव पिण्डारकञ्च १९० विख्यातं शङ्खीद्धारं १९१तथैव घण्टेश्वरं १९२ विल्वकञ्च १९३ नीलपर्वत १९४मेव तथा घरणीतीर्थं १९५ रामतीर्थं १९६तथैव अश्वतीर्थ १९७ ञ्च विख्यातमनन्तं श्राद्धदा-नयोः तीर्थं वेदशिरो १९८ नाम तथैवौघवती १९९नदी तीर्थं वसुप्रदं २०० नाम छागलाण्डं २०१ तथैवच एतेषु श्राद्धदातारः प्रयान्ति परमं पदम् तथाच वदरीतीर्थं २०२ गणतीर्थं २०३ तथैव जयन्तं २०४विय २०५ ञ्चैव शुक्रतीर्थं २०६ तथैव श्रीपतेश्च २०७तथा तीर्थं तीर्थं रैवतकं २०८ तथा तथैव शारदा-तीर्थं २०९ भद्रकालेश्वरं २१० तथा वैकुण्ठतीर्थ २११ ञ्चपरं मीमेश्वर २१२ मथापि वा एतेषु श्राद्धदातारः प्र-यान्ति परमा गतिम् तीर्थं मातृगृहं २१३ नाम कर-वीरपुरं २१४ तथा कुशेश्वर २१५ ञ्च विख्यातं गौरी-शिखर २१६ मेव नकुलेशस्य २१७ तीर्थञ्च कर्दमालं२१८ तथैव दण्डिपुण्यकरं २१९ तद्वत् पुण्डरीक-पुरं २२० तथा सप्तगोदावरीतीर्थं २२१ सर्वतीर्थेश्वरेश्व-रम् २२२ तत्र श्राद्धं प्रदातव्यमनन्तफलमीप्सुभिः”