| YouTube Channel

पिता (pitA)

 
Monier Williams Cologne
English
पिता
nom.
of पितृ in comp.
Hindi
Hindi
पिता
Kridanta Forms
Sanskrit
पि (पि॒ गतौ - तुदादिः - अनिट्)
ल्युट् = पयनम्
अनीयर् = पयनीयः - पयनीया
ण्वुल् = पायकः - पायिका
तुमुँन् = पेतुम्
तव्य = पेतव्यः - पेतव्या
तृच् = पेता - पेत्री
क्त्वा = पित्वा
ल्यप् = प्रपित्य
क्तवतुँ = पितवान् - पितवती
क्त = पितः - पिता
शतृँ = पियन् - पियन्ती / पियती
Wordnet
Sanskrit
Synonyms:
तात, जनक, पिता
noun
पित्रर्थे सम्बोधनम्।
"वयम् पितुः तात इति समाह्वयामः।"
Synonyms:
पिता, तातः, जनकः, वप्ता, जनयिता, जन्मदः, गुरु, जन्यः, जनिता, बीजी, वप्रः
noun
पाति रक्षति अपत्यम् यः।
"मम पिता अध्यापकः अस्ति। / जनको जन्मदाता रक्षणाच्च पिता नृणाम्।"
नाममाला
Sanskrit
जनक, सवितृ, पिता
सवित्री जननी माता जनकः सविता पिता
verse 0.1.1.38
page 0019
Mahabharata
English
Pitā, mātā, pitāmaha(ḥ) = Sūrya (the Sun): III, 156.
अमरकोशः
Sanskrit
Word: पिता
Root: पितृ
Gender: पुं
Number: all
Meaning(s):
father
parents
ancestors
forefathers
fathers [pl.]
father and uncles
paternal ancestors
father and mother [du.]
father and his brothers
particular child's-demon
pitRs or deceased ancestors
Shloka(s):
2|6|28|2 स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता॥ (मनुष्यवर्गः)
Synonym(s):
2|6|28|2 तातः (तात) (पुं) dad, daddy, father, addressed to several persons, also used as vocative plural, term of affection addressed to a junior or senior [voc.]
2|6|28|2 जनकः (जनक) (पुं) father, causing, begetting, producing, generating, progenitor, generative, kind of measure, of another king, parent [computer], of several official men, name of a disciple of bhagavat, name of another king of mithilA
2|6|28|2 पिता (पितृ) (पुं) father, parents, ancestors, forefathers, fathers [pl.], father and uncles, paternal ancestors, father and mother [du.], father and his brothers, particular child's-demon, pitRs or deceased ancestors
Related word(s):
परा_अपरासंबन्धः पुरुषः
जातिः मनुष्यः
शब्दकल्पद्रुमः
Sanskrit
पिता, [ऋ]
पुं,
पाति रक्षत्यपत्यं यः (पारक्षणे + “नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृ-मातृपितृदुहितृ ।” उणां ९६ इति तृच्-प्रत्ययेन निपातनात् साधुः ।) उत्पादकः वाप्इति भाषा तत्पर्य्यायः तातः जनकः ।इत्यमरः ६२८
प्रसविता वप्ता जन-यिता गुरुः जन्मदः जन्यः जनिता१० इति शब्दरत्नावली
बीजी ११ वप्रः१२ इति हेमचन्द्रः
*
तस्य मान्यत्वंलक्षणञ्च यथा, --“मान्यः पूज्यश्च सर्व्वेभ्यः सर्व्वेषां जनको भवेत् ।अहो यस्य प्रसादेन सर्व्वान् पश्यति मानवः
जनको जन्मदाता रक्षणाच्च पिता नृणाम् ।तातो विस्तीर्णकरणात् कलया सा प्रजापतिः
”इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४४ अध्यायः
गुरुः यथा, --“उपाध्यायः पिता ज्येष्ठोभ्राता चैव महीपतिः ।मातुलः श्वशुरस्त्राता मातामहपितामहौ
बन्धुर्ज्येष्ठपितृ व्यश्च पुंस्वेते गुरवः स्मृताः
”इति कौर्म्मे उपविभागे ११ अध्यायः
(ज्येष्ठपितृव्यार्थे पितृशब्दप्रयोगो यथा, महा-भारते ५३ ।“गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव
”)स हि महागुरुः यथा, “महागुरूनाहविष्णुः त्रयः पुरुषस्यातिगुरवो भवन्तिमाता पिताचार्य्यश्चेति
इति शुद्धितत्त्वम्
कामासक्तस्य पितुर्व्वचनमग्राह्यं यथा, --“पितुर्व्वचो हि मा कार्षीः कामव्यासक्तचेतसः ।आत्मानञ्चाभिषिञ्चस्व तदर्थं क्षत्त्रियो ह्यसि
”इत्याग्नेये श्रीरामं प्रति कौशल्यावाक्यम्
तस्य पुत्त्रकृतधर्म्माधर्म्मभागित्वं यथा, --“यः पिता तु पुत्त्रोऽयमिति वै वैदिकी श्रुतिः ।निगद्यते पुराणे तु तां शृणुष्व यथातथम्
न्यग्रोधस्य सुशाखायाः शटास्तास्तु गता भुवि ।प्ररोहानुपपद्यन्ते मूलभ्रंशात्तथा सुताः
तद्बिधानुपपद्यन्ते तथान्ये ते तादृशाः ।तेभ्यश्चान्ये प्ररोहन्ति व्रीहिभ्योऽपि यथा तथा
एवं पुत्त्रैः कृतो धर्म्मस्तथाधर्म्मश्च भूपते ।पिता संलिप्यते तेन मा त्वं संशयं कृथाः
धर्म्मिणां नराणान्तु बीजनाशो भवेदिह ।सर्व्वथा शंसते लोके बीजात् पुनः समुच्छ्रयः
”इत्याग्नेये पापनाशनवृषदानाध्यायः
*
तस्मिन् जीवति बाह्वोस्तिलकनिषेधो यथा, --“न बाह्वोस्तिलकं कुर्य्यात् यस्य जीवन् पितास्थितः ।तथा ज्येष्ठः सोदरश्च यस्य जीवति तथा
”इति बृहद्धर्म्मपुराणम्
*
उत्पादकपित्रपेक्षया मन्त्रदातृपितुर्गुरुतरत्वंयथा, तन्त्रसारे ।“उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता ।तस्मान्मन्येत सततं पितुरप्यधिकं गुरुम्
”पञ्च पितरो यथा, चाणक्ये ।“अन्नदाता भयत्राता यस्य कन्या विवाहिता ।जनयिता चोपनेता पञ्चैते पितरः स्मृताः
”सप्त पितरो यथा, --“कन्यादातान्नदाता ज्ञानदाताभयप्रदः ।जन्मदो मन्त्रदो ज्येष्ठभ्राता पितरः स्मृताः
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३५ अध्यायः
एकत्रिंशत्पितृगणा यथा, --“विश्वो विश्वभुगाराध्यो धर्म्मो धन्यः शुभासनः ।भूमिदो भूमिकृद्भूतिः पितॄणां ये गणा नव
कल्याणः कल्यदः कल्यतरः कल्यतराश्रयः ।कल्यताहेतुरनघः षडिमे ते गणाः स्मृताः
वरो वरेण्यो वरदो भूतिदः पुष्टिदस्तथा ।विश्वपाता तथा धाता सप्तैते गणाः स्मृताः
महान् महात्मा महितो महिमावान्महाबलः ।गणाः पञ्च तथैवैते पितॄणां पापनाशनाः
सुखदो धनदश्चान्यो धर्म्मदोऽन्यश्च भूतिदः ।पितॄणां कथ्यते चैतत्तथा गणचतुष्टयम्
एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत् ।ते मेऽत्र तृप्तास्तुष्यन्तु दिशन्तु सदा हितम्
”इति गारुडे पितृस्तोत्रं ८९ अध्यायः
(पितॄणां स्तुतिपूर्व्वकं नामसंख्यादिकथनम्यथा मार्कण्डेये ९६ १३ -- ४८ ।रुचिरुवाच ।“नमस्येऽहं पितॄन् श्राद्धे ये वसन्त्यधिदेवताः ।देवैरपि हि तर्प्यन्ते ये श्राद्धे स्वधोत्तरैः
नमस्येऽहं पितॄन् स्वर्गे ये तर्प्यन्ते महर्षिभिः ।श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभिः
नमस्येऽहं पितॄन् स्वर्गे सिद्धाः सन्तर्पयन्ति यान् ।श्राद्धषु दिव्यैः सकलैरुपहारैरनुत्तमैः
नमस्येऽहं पितॄन् भक्त्या येऽर्च्यन्ते गुह्यकैरपि ।तन्मयत्वेन वाञ्छङ्गिरृद्बिमात्यन्तिकीं पराम्
नमस्येऽहं पितुन्मर्त्तैरर्च्यन्ते भुवि ये सदा ।श्राद्धेषु श्रद्धयाभीष्टलोकप्राप्तिप्रदायिनः
नमस्येऽहं पितॄन् विप्रैरर्च्यन्ते भुवि ये सदा ।वाञ्छिताभीष्टलाभाय प्राजापत्यप्रदायिनः
नमस्येऽहं पितॄन् ये वै तर्प्यन्तऽरण्यवासिभिः ।वन्यैः श्राद्वैर्यताहारैस्तपोनिर्धूतकिल्विषैः
नमस्येऽहं पितॄन् विप्रैर्नैष्ठिकव्रतचारिभिः ।ये संयतात्मभिर्नित्यं सन्तर्प्यन्ते समाधिभिः
नमस्येऽहं पितॄन् श्राद्धै राजन्यास्तर्पयन्ति यान् ।कव्यैरशेषैर्विधिवल्लोकत्रयफलप्रदान्
नमस्येऽहं पितॄन् वैश्यैरर्च्यन्ते भुवि ये सदा ।स्वकर्माभिरतैर्नित्यं पुष्पधूपान्नवारिभिः
नमस्येऽहं पितॄन् श्राद्धैर्ये शूद्रैरपि भक्तितः ।सन्तर्प्यन्ते जगत्यत्र नाम्ना ख्याताः सुकालिनः
नमस्येऽहं पितॄन् श्राद्धैः पाताले ये महासुरैः ।सन्तर्प्यन्ते स्वधाहारास्त्यक्तदम्भमदैः सदा
नमस्येऽहं पितॄन् श्राद्धैरर्च्यन्ते ये रसातले ।भोगैरशेषैर्विधिवन्नागैः कामानभीप्सुभिः
नमस्येऽहं पितॄन् श्राद्धैः सर्पैः सन्तर्पितान् सदा ।तत्रैव विधिवन्मन्त्रभोगसम्पत्समन्वितैः
पितॄन्नमस्ये निवसन्ति साक्षात्ये देवलोके तथान्तरीक्षे ।महीतले ये सुरादिपूज्या-स्ते मे प्रतीच्छन्तु मयोपनीतम्
पितन्नमस्ये परमात्मभूताये वै विमाने निवसन्ति मूर्त्ताः ।यजन्ति यानस्तमलैर्मनोभि-र्योगीश्वराः क्लेशविमुक्तिहेतून्
पितॄन्नमस्ये दिवि ये मूर्त्ताःस्वधाभुजः काम्यफलाभिसन्धौ ।प्रदानशक्ताः सकलेप्सितानांविमुक्तदा येऽनभिसंहितेषु
तृप्यन्तु तेऽस्मिन् पितरः समस्ताइच्छावतां ये प्रदिशन्ति कामान् ।सुरत्वमिन्द्रत्वमतोऽधिकं वासुतान् पशून् स्वानि बलं गृहाणि
सोमस्य ये रश्मिषु येऽर्कविम्बेशुक्ले विमाने सदा वसन्ति ।तृप्यन्तु तेऽस्मिन् पितरोऽन्नतोयै-र्गन्धादिना पुष्टिमितो व्रजन्तु
येषां हुतेऽग्नौ हविषा तृप्ति-र्ये भुञ्जते विप्रशरीरसंस्थाः ।ये पिण्डदानेन मुदं प्रयान्तितृप्यन्तु तेऽस्मिन् पितरोऽन्नतोयैः
ये खड्गिमांसेन सुरैरभीष्टैःकृष्णैस्तिलैर्दिव्यमनोहरैश्च ।कालेन शाकेन महर्षिवर्यैःसंप्रीणितास्ते मुदमत्र यान्तु
कव्यान्यशेषाणि यान्यभीष्टा-न्यतीव येषाममरार्चितानाम् ।तेषान्तु सान्निध्यमिहास्तु पुष्प-गन्धान्नभोज्येषु मया कृतेषु
दिने दिने ये प्रतिगृह्णतेऽर्च्चांमासान्तपूज्या भुवि येऽष्टकासु ।ये वत्सरान्तेऽभ्युदये पूज्याःप्रयान्तु ते मे पितरोऽत्र तृप्तिम्
पूज्या द्विजानां कुमुदेन्दुभासोये क्षत्त्रियाणाञ्च नवार्कवर्णाः ।तथा विशां ये कनकावदातानीलीनिभाः शूद्रजनस्य ये
तेऽस्मिन् समस्ता मम पुष्पगन्ध-धूपान्नतोयादिनिवेदनेन ।तथाग्निहोमेन यान्तु तृप्तिंसदा पितृभ्यः प्रणतोऽस्मि तेभ्यः
ये देवपूर्व्वान्यतितृप्तिहेतो-रश्नन्ति कव्यानि शुभाहुतानि ।तृप्ताश्च ये भूतिसृजो भवन्तितृप्यन्तु तेऽस्मिन् प्रणतोऽस्मि तेभ्यः
रक्षांसि भूतान्यसुरांस्तथोग्रान्निर्नाशयन्तस्त्वशिवं प्रजानाम् ।आद्याः सुराणाममरेशपूज्या-स्तृप्यन्तु तेऽस्मिन् प्रणतोऽस्मि तेभ्यः
अग्निस्वात्ता वर्हिषद आज्यपाः सोपमास्तथा ।व्रजन्तु तृप्तिं श्राद्धेऽस्मिन् पितरस्तर्पिता मया
अग्निस्वात्ताः पितृगणाः प्राचीं रक्षन्तु मेदिशम् ।तथा वर्हिषदः पान्तु याम्यां ये पितरः स्मृताः ।प्रतीचीमाज्यपास्तद्बदुदीचीमपि सोमपाः ।रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः
सर्वतश्चाधिपस्तेषां यमो रक्षां करोतु मे ।विश्वो विश्वभुगाराध्यो धर्म्मो धन्यः शुभाननः
भूतिदो भूतिकृद्भूतिः पितॄणां ये गणा नव ।कल्याणः कल्यता कर्त्ता कल्यः कल्यतराश्रयः
कल्यताहेतुरनघः षडिमे ते गणाः स्मृताः ।वरो वरेण्यो वरदः पुष्टिदस्तुष्टिदस्तथा
विश्वपाता तथा धाता सप्तैवैते तथा गणाः ।महान्महात्मा महितो महिमावान्महाबलः
गणाः पञ्च तथैवैते पितॄणां पापनाशनाः ।सुखदो धनदश्चान्यो धर्म्मदोऽन्यश्च भूतिदः
पितॄणां कथ्यते चैतत्तथा गणचतुष्टयम् ।एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत्
ते मेऽनुतृप्तास्तुष्यन्तु यच्छन्तु सदा हितम्
”शिवः यथा, महाभारते १३ १७ १४१ ।“सदसद्व्यक्तमव्यक्तं पिता माता पितामहः
”)