| YouTube Channel

पिण्डपद (piNDapada)

 
Monier Williams Cologne
English
पिण्ड—पद
n.
a kind of arithmetical calculation,
Jyot.
शब्दकल्पद्रुमः
Sanskrit
पिण्डपदं,
क्ली,
(पिण्डस्य संहतस्य पदम् ।) अङ्क-विशेषः यथा, --“रूपाष्टकैर्विनिहतो भवनस्य बन्धःकर्त्तुः स्वमृक्षमिह युग्गशरैकनिघ्नम् ।एकीकृतं रसनिशाकरयुग्मभुक्त-शेषं ततो भवति पिण्डपदं गृहस्य
रूपाष्टकैरेकाशीत्या विनिहतः पूरितः भवनस्यबन्धः दीर्घप्रस्तारमिलितहस्ताः स्वमृक्षं तत्-संख्यानं युग्मशरैकनिघ्नं द्विपञ्चाशदुत्तरशत-पूरितं एकीकृतं पूर्व्वाङ्केण मिलितं रसनिशा-करयुग्मभुक्तशेषं षोडशाधिकद्विशतहृतावशिष्टंतत् संख्यानं पिण्डपदसंज्ञं गृहस्य भवति
”इति ज्योतिस्तत्त्वम्
वाचस्पत्यम्
Sanskrit
पिण्डपद
न०
पिण्डस्य संहतस्य पदम् अङ्कभेदे ज्यो० ति०गृहशब्दे दृश्यम् पिण्डस्थाने