| YouTube Channel

पिण्डखर्ज्जूरी (piNDakharjjUrI)

 
शब्दकल्पद्रुमः
Sanskrit
पिण्डखर्ज्जूरी,
स्त्री,
(पिण्डखर्ज्जूर + स्त्रियां ङीष् ।)पिण्डखर्ज्जूरः तत्पर्य्यायः दीप्या स्वपिण्डा३ मधुरश्रवा फलपुष्पा स्वादुपिण्डा ६हयभाक्षा पिण्डखर्ज्जूरिका अस्या गुणाः ।गौल्यत्वम् हिमत्वम् पित्तदाहार्त्तिश्वासभ्रम-नाशित्वम् वीर्य्यवृद्धिदत्वञ्च इति राज-निर्घण्टः
अपि ।“पिण्डखर्ज्जूरिका त्वन्या सा देशे पश्चिमे भवेत् ।खर्जूरी गोस्तनाकारा पराद्द्वीपादिहागता
जायते पश्चिमे देशे सा छोहोरेति कीर्त्त्यते ।खर्जूरीत्रितयं शीतं मधुरं रसपाकयोः
स्निग्धं रुचिकरं हृद्यं क्षतक्षयहरं गुरु ।तर्पणं रक्तपित्तघ्नं पुष्टिविष्टम्भिशुक्रदम्
कोष्ठमारुतकृद्बल्यं वान्तिवातकफापहम् ।ज्वराभिघातक्षुत्तृष्णाकासश्वासनिवारकम्
मदमूर्च्छामरुत्पित्तमद्योद्भूतगदान्तकृत् ।महद्भिश्च गुणैरल्पा स्वल्पखर्जूरिका स्मृता
खर्जूरीतरुतोयन्तु मदपित्तकरं भवेत् ।वातश्लेष्महरं रुच्यं दीपनं बलशुक्रकृत्
”अथ पिण्डखर्जूरीभेदः ।“सुनेपाली तु मृदुला दलहीनफला सा ।सुनेपाली श्रमभ्रान्तिदाहमूर्च्छास्रपित्तहृत्
”इति भावप्रकाशे पूर्व्वखण्डे भागे