| YouTube Channel

पिण्डं (piNDaM)

 
शब्दकल्पद्रुमः
Sanskrit
पिण्डं,
क्ली,
पुं,
(पिण्डते संहतो भवतीति पिडिसंहतौ + अच् पिण्ड्यते राशोक्रियते इति ।कर्म्मणि घञ् वा ।) आजीवनम् अयः ।इति मेदिनी डे, १९
श्राद्धशेषद्रव्यनिर्म्मित-बिल्वफलाकारपित्र्युदेश्यकदेयान्नम् यजुर्व्वेदिनांपिण्डशब्दो नपुंसकलिङ्गेन प्रयुज्यते यथा, --“अवनिक्तं पिण्डं दद्यादसावेतत्त इति श्राद्ध-विवेकधृतपिण्डपितृयज्ञीयकात्यायनवचने पिण्ड-विशेषणे एतदिति नपुंसकनिर्द्देशात् भाषेतैतच्चवै पिण्डं यज्ञदत्तस्य पूरकमिति ऋष्यशृङ्गवचने-ऽपि तथा दर्शनाच्च छन्दोगानां पिण्डशब्दःपुंलिङ्गेन प्रयुज्यते दर्भेषु मधु मधु मध्वित्यक्ष-न्नमी मदन्त इति जपित्वा त्रींस्त्रीन् पिण्डान्दद्यादिति गोभिलसूत्रे पिण्डानिति पुंलिङ्ग-निर्द्देशात् ।” इति श्राद्धतत्त्वम्
*
गयादा-वात्मपिण्डदानविधिर्यथा, --“गयान्तं पिण्डदानञ्च गयान्तं तीर्थमेव ।पञ्चकान्तं कामरूपं पिच्छिलान्तं सरित् शुभे
जनार्द्दनस्य हस्ते तु पिण्डं दद्यात् स्वकं नरः ।विरजे तथा चाश्वकर्णे रामे सोमके
जीवत्पिण्डप्रदानेन अल्पायुर्जायते नरः ।यत्रागम्ये महाक्षेत्र स्वकं पिण्डं ददेत्तु यः ।मासद्वयाधिकं वर्षमायुषो वर्द्धते क्रमात्
”इति योगिनीयन्त्रे प्रथमतमे भागे पटलः
अन्यत् गयाशब्दे द्रष्टव्यम्