| YouTube Channel

पिडका (piDakA)

 
Macdonell
English
पिडका piḍakā,
f.
boil, pimple, pustule.
Shabdartha Kaustubha
Kannada
पिडका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಮೊಡವೆ /ಸಣ್ಣ ಗುಳ್ಳೆ
पिडका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕುರು /ಗುಳ್ಳೆ
L R Vaidya
English
piqakA {% f. %} A small boil, a pimple.
Wordnet
Sanskrit
Synonyms:
सूक्ष्मगण्डः, अवगण्डः, क्षुद्रव्रणः, वरण्डः, वरण्डकः, रक्तस्पोटः, रक्तस्पोटकः, क्षुद्रस्फोटः, सूक्ष्मस्फोटः, रक्तपिण्डः तनुव्रणः, सूक्ष्मव्रणः, कच्छपिका, रक्तवरटी, रक्तवटी, पिडकः, पिडका, नरङ्गः, मुरमण्डः, इरावेल्लिका
noun
युवावस्थायाम् मुखादिषु जातः गण्डः।
"सा सूक्ष्मगण्डे चन्दनादि लेपयति।"
शब्दकल्पद्रुमः
Sanskrit
पिडका,
स्त्री,
(पीडयतीति पीड + ण्वुल् + टाप् ।निपातनात् साधुः ।) स्फोटकविशेषः प्रमे-जहा सा दशविधा यथा, --“शराविका कच्छपिका जालिनी विनतालजी ।मसूरिका सर्षपिका पुत्त्रिणी विदारिका ।विद्रधिश्चेति पिडकाः प्रभेहोपेक्षया दश
”तासां प्रत्येकलक्षणं यथा, --“सन्धिमर्म्मसु जायन्ते मांसलेषु धामसु ।अन्तोन्नता तद्रूपा निम्नमध्या शराविका
सदाहा कूर्म्मसंस्थाना ज्ञेया कच्छपिका बुधैः ।जालिनी तीव्रदाहार्त्तिमांसजालसमावृता
अवगाढरुजा क्लेदा पृष्ठे वाप्युदरेऽपि वा ।महती पिडका नीला विनता नाम सा स्मृता
रक्तासिता स्फोटचिता दारुणा त्वलजी भवेत् ।मसूरफलसंस्थाना विज्ञेया सा मसूरिका
गौरसर्षपसंस्थाना तत्प्रमाणा सर्षपी ।महत्यल्पचिता ज्ञेया पिडका चापि पुत्त्रिणी
विदारी कन्दवद्वृत्ता कठिना विदारिका ।विद्रधेर्लक्षणैर्युक्ता ज्ञेया विद्रधिका तु सा
१०
कुष्ठपिडका यथा, --“कण्डूर्विपूयकश्चैव कुष्ठे शोणितसंश्रिते ।बाहुल्यं वक्त्रशोषश्च कार्कश्यं पिडकोद्गमः
*
पिडकाविशेषो यथा, --“यवाकारा सुकठिना ग्रथिता मांससंश्रिता ।पिडका श्लेष्मवाताभ्यां यवप्रख्येति सोच्यते
घनामवक्रां पिडकामुन्नतां परिमण्डलाम् ।अन्त्रालजीमल्पपूयां तां विद्यात् कफवातजाम्
१विवृतास्यां महादाहां पक्कोडुम्बरसन्निभाम् ।परिमण्डलां पित्तकृतां विवृतां नाम तां विदुः
ग्रथिताः पञ्च वा षड् वा दारुणाः कच्छपो-पमाः ।कफानिलाभ्यां पिडका ज्ञेयाः कच्छपिकाबुधैः
ग्रीवांसकक्षाकरपाददेशेसन्धौ गले वा त्रिभिरेव दोषैः ।ग्रन्थिः सवल्मीकवदक्रियाणांजातः क्रमेणैव गतः प्रवृद्धिम्
मुखैरनेकैः स्रुतितोदवद्भि-र्विसर्पवत् सर्पति चोन्नताग्रैः ।वल्मीकमाहुर्भिषजो विकारंनिष्प्रत्यनीकं चिरजं विशेषात्
पद्मकर्णिकवन्मध्ये पिडकाभिः सदाचिताम् ।इन्द्रवृद्धान्तु तां विद्याद्बातपित्तोत्थितां भिषक्
मण्डलं वृत्तमुत्सन्नं सरक्तं पिडकाचितम ।रुजाकरीं गर्द्दभिकां तां विद्याद्वातपित्त-जाम्
वातश्लेष्मसमुद्भूतः श्वयथुहनुसन्धिजः ।स्थिरो मन्दरुजः स्निग्धो ज्ञेयः पाषाण-गर्दभः
कर्णस्याभ्यन्तरे जातां पिडकामुग्रवेदनाम् ।स्थिरां पनसिकान्तान्तु विद्यादन्तःप्रपाकि-णीम्
विसर्पवत् सर्पति यः शोथस्तनुरपाकवान् ।दाहज्वरकरः पित्तात् ज्ञेयो जालगर्दभः
पिडकामुत्तमाङ्गस्थां वृत्तामत्युग्ररुग्ज्वराम् ।सर्व्वात्मिकां सर्व्वलिङ्गां जानीयादिरिवेल्वि-काम्
१०
बाहुपार्श्वांसकक्षेषु कृष्णस्फोटां सवेदनाम् ।पित्तप्रकोपसम्भूतां कक्षामित्यभिनिर्द्दिशेत्
११
एकामेतादृशीं दृष्ट्वा पिडकां स्फोटसन्निभाम् ।त्वग्गतां पित्तकोपेन गन्धनामां प्रचक्षते
१२
कक्षभागेषु ये स्फोटा जायन्ते मांसदारुणाः ।अन्तर्द्दाहज्वरकरा दीप्तपावकसन्निभाः
सप्ताहाद्द्वादशाहाद्वा पक्षाद्बा घ्नन्ति मानवम् ।तामग्निरोहिणीं विद्यादसाध्यां सन्निपाततः
१३
नखमांसमधिष्ठाय वातः पित्तञ्च देहिनाम् ।कुरुते दाहपाकौ व्याधिन्तं चिप्यमादिशेत्
तदेवाल्पतरैर्द्दोषैः कुनखं परुषं वदेत्
१४
गम्भीरामल्पसंरम्भां सवर्णामुपरिस्थिताम् ।पादस्यानुशयीं तान्तु विद्यादन्तःप्रपाकिणीम्
१५विदारीकन्दवद्वृत्तां कक्षावङ्क्षणसन्धिषु ।विदारीति तां विद्यात् सर्व्वजां सर्व्वलक्ष-णाम्
१६
इति माधवकरः
वाचस्पत्यम्
Sanskrit
पिडका स्त्री पीडयति पीड--ण्वुल् क्षिपकादि० नि०कुष्ठाधिकारे पीडादायके क्षुद्रस्फोटके भावप्रका० सुश्रुतादौ रोगभेदे नानाविधैव पिडका उक्ता तत्र भगन्दरे“अपक्वाः पिडकाः पक्वास्तु भगन्दराः” इत्युपक्रमे पि-त्तादिपिडका उक्ता यथा “पित्तन्तु प्रकुपितमनिलेना-धःप्रेरितं पूर्ववदवस्थितं रक्ता तन्वीमुच्छितामुष्ट्रग्रीवा-कारां पिडकां जनयति सास्य चोषादीन् वेदनावि-शेषान् जनयत्यप्रतिक्रियमाणा पाकमुपैति व्रण-श्चाग्निक्षाराभ्यामिव दह्यते दुर्गन्धमुष्णमास्रावं स्रवति”“श्लेष्मजालक्षणादिकं तु परिस्रोविन्शब्दे दर्शितम्वायुजालक्षणादि तत्रोक्तं यथा“वायुः प्रकुपितः प्रकुपितौ पित्तश्लेष्माणौ परिगृह्यापोगत्वा पूर्ववदवस्थितः पादाङ्गुष्ठप्रमाणां सर्वलिङ्गां पिडकाजनयति सास्य तोददाहकण्ड्वादीन् वेदनाविशेषान् जन-यत्यप्रतिक्रियमाणा पाकमुपैति व्रणश्च नानाविधवर्ण-मास्रावं स्रवति पूर्णनदीशम्बूकावर्त्तवच्चात्र समुत्ति-ष्ठन्ति वेदनाविशेषाः” मेहजास्तु भावप्र० उक्ता यथा“शराविका कच्छपिका जालिनी विनताऽलजी मसू-रिका सर्षपिका पुत्रिणी सविदारिका विद्रधिश्चेतिपिडकाः प्रमेहापेक्षर्यां दश सन्धिमर्मसु जायन्ते मां-सलेषु धामसु अन्तोन्नता तद्रूपा निम्रमध्याशराविका सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका २बुधैः जालिनी तीव्रदाहा तु मांसजालसमावृता ।अविमाढरुजाक्लेदा पृष्ठे वाप्युदरेऽपि वा महतीपिडका नीला सा वुवैर्विनता स्मृता रक्ताऽसितास्फोटचिता विज्ञेया त्वलजी बुधैः मसूरदलसंस्थानाविज्ञेया तु मसूरिका गौरसर्षपसंस्थाना तत्प्रमाण ।च सर्षपी महत्यल्पचिता ज्ञेया षिडकापि पु-त्रिणी विदारीकन्दवद्वृत्ता कठिना विदारिका ।विद्रधेर्लक्षणैर्युक्ता ज्ञेया विद्रधिका तु सा ये यन्मयाःस्मृता मेहास्तेषामेतास्तु तन्मयाः विना प्रमेहमप्येताजायन्ते दुष्टमेदसः तावच्चैता लक्ष्यन्ते यावद्वास्तुपरिग्रहः गुदे हृदि शिरस्यंसे पृष्ठे मर्मसु चोत्थि-ताः १० सोपद्रर्वा दुर्बलाग्नेः पिडकाः परिवर्जयेत् ।तृट्च्छासमांससङ्कोचमेहहिक्कामदज्वराः विसर्पध-र्मसंरोधाः पिडकानामुपद्रवाः” ।कुष्ठाधिकारे भावप्र० पिडकानां वृहत्त्वे स्फोटत्वम्क्षुद्रत्वे पिडकत्वमुक्त्वा तद्भेदा उक्ता यथा“यवाकारा सुकठिना ग्रथिता मांससंश्रिता पिडकाश्लेष्मवाताभ्यां यवप्रख्येति सोच्यते घनामवक्रो पि-डकामुन्नतां परिमण्डलाम् अन्त्रालजीमल्पपयां तांविद्यात् कफवातजाम् विवृतास्यां महादाहां पक्वो-डुम्बरसन्निभाम् परिमण्डलां पित्तकृतां विवृता नामतां विदुः ग्रथिताः पञ्च वा षड्वा दारुणाः कच्छ-पोपमाः कफानिलाभ्यां पिडका ज्ञेयाः कच्छपिका ४बुधैः ग्रीवांसकक्षाकरपाददेशे सन्धौ गले वा त्रि-भिरेव दीषैः ग्रन्थिः वल्मीकवदक्रियाणां जातःक्रमेणैव गतप्रवृद्धिः मुखैरनेकैः श्रुतितोदवद्भिर्विसर्प-वत् सर्पति चोन्नताग्रैः वल्मीक माहुर्भिषजोवि-कारं निष्प्रत्यनीकं चिरजं विशेषात् पद्मकर्णिक-वन्मध्ये पिडकाभिः सदाचिताम् इन्द्रवृद्धान्तु तां वि-द्याद्वातपित्तोत्थितां भिषक् मण्डलं वृत्तमुत्सन्नं रक्तंपिडकाचितम् रुजाकरीं गर्दभिकां तां विद्याद्वातपित्तजाम् वातश्लेष्मसमुद्भूतः श्वयथुर्हनुसन्धिजः ।स्थिरो मन्दरुजः स्निग्धो ज्ञेयः पाषाणगर्दभः ।कर्णस्याभ्यन्तरे जातां पिडकामुग्रवेदनाम् स्थिरां पन-सिका९ न्तान्तु विद्यादन्तःप्रपाकिनीम् विसर्पवत् स-र्पति यः शोथस्तनुरपाकवान् दाहज्वरकरः पित्तात्स ज्ञेयो जालगर्दभः १० पिडकामुत्तमाङ्गस्थां वृत्ताम-त्युग्ररुग्ज्वराम् सर्वात्मिकां सर्वलिङ्गां जानीयादि-रिवेल्विकाम् ११ बाहुपार्श्वांसकक्षेषु कृष्णस्फोटां स-वेदनाम् पित्तप्रकोप्रसम्भूतां कक्षा १२ मित्यभिनिर्दिशेत् ।एकामेतादृशीं दृष्ट्वा पिडकां स्फोटसन्निभाम् तद्गतांपित्तकोपेन गन्धनामां १३ प्रचक्षते कक्षभागेषु ये स्फोटाजायन्ते मांसदारुणाः अन्तर्दाहज्वरकरा दीप्तपा-वकसन्निभाः सप्ताहाद्द्वादशाद्वा पक्षाद्वा घ्नन्ति मान-वम् तामग्निरोहिणीं १४ विद्यादसाध्या सन्निपाततः ।नखमांसमधिष्ठाय वातपित्तञ्च देहिनाम् कुरुते दाहपाकौ व्याधिन्तं चिप्य १५ मादिशेत् तदेवाल्पतरैर्दोषैःकुनखं परुषं १६ वदेत् गम्भीरामल्पसंरम्भां सवर्णा-मुपरिस्थिताम् पादस्यानुशयीं १७ तान्तु विद्यादन्तः-प्रपाकिनीम् विदारीकन्दवद्वृत्तां कक्षावङ्क्षणसन्धिषु ।विदारी १८ मिति तां विद्यात् सर्वजां सर्वलक्षणाम्”