| YouTube Channel

पिजि (piji)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
पिञ्ज्
मूलधातुः:
पिजि
धात्वर्थः:
हिंसा-बलादान-निकेतनेषु
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
पेजयति-ते
धातुः:
पिञ्ज्
मूलधातुः:
पिजि
धात्वर्थः:
वर्णे, सम्पर्चने, भाषायां
गणः:
अदादिः
कर्मकत्वं:
यथायथं
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
पिङ्क्ते
धातुः:
पिञ्ज्
मूलधातुः:
पिजि
धात्वर्थः:
हिंसा-बलादान-निकेतनेषु
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
पिञ्जयति-ते
धातुप्रदीपः
Sanskrit
पिजिँ पिजि वर्णे
- पिङ्क्ते पिञ्जाते पिपिञ्जे पिञ्जरः पिङ्गलः पिङ्गली ।। 18 ।।
धातुवृत्तिः
Sanskrit
पिजिँ पिजि (अर्थः) वर्णे
सम्पर्वने इति शाकटायनः उभयत्रेति संमता अवयवे इति काश्यपः अयंशिञ्जिश्च द्वावव्यक्ते शब्द इति काश्यपः (पिङ्क्त) इत्यादि पूर्व्ववत् ( पिङ्गः ) घञ् ( पिञ्जरः, पिङ्गलः, ) बाहुलकादरालौ ( पुरुषपिङ्गलः पिङ्गलपुरुषः ) "कडाराः कर्म्मधारये'' इति विशेषणस्य वा परनिपतः, कडारादिपाठादेव जकारस्य गकारः, पिङ्गली पिङ्गलिका गौरादिपाठान् ङीष्, ( पिङ्गलिमा पैङ्गल्यम्) "वर्णदृढादिभ्यः ष्यञ् च'' इतीमनिच्ष्यञौ, ( पिञ्जूलः ) शूलं सङ्घातश्च, "खर्जपिञ्जादिभ्य उरोलचौ'' इत्यूलच् पृजीत्येके, ( पृङ्ते )इति मैत्रेयः, एवमात्रेयश्च, पिजि भाषार्थः तुजि पिजि हिंसाबलादाननिकेतनेष्विति चुरादौ 17
कृदन्तरूपमाला
Sanskrit
1 {@“पिजि वर्णे”@} 2 ‘-- सम्पर्चने’ इति शाकटायनः।
‘-- वर्णसम्पर्चनयोः’ इति सम्मता- कारः।
‘--अवयवे’, ‘अव्यक्ते शब्दे च’ इति काश्यपः।
‘पृजि--’ इत्येके।
इति मा।
धा।
वृत्तौ।
‘वर्णे पिङ्क्ते भवेत् पिञ्जेर्भाषार्थे पिञ्जयेदिति।’ 3 इति देवः।
पिञ्जकः-ञ्जिका, पिञ्जकः-ञ्जिका, पिपिञ्जिषकः-षिका, पेपिञ्जकः-ञ्जिका
इत्यादीनि समस्तान्यपि रूपाणि आदादिकनिजतिवत् 4 ज्ञेयानि।
शानचि-- 5 पिञ्जानः।
प्रासङ्गिक्यः
01
=>
(९९३)
02
=>
(२-अदादिः-१०२८। अक। सेट्। आत्म।)
03
=>
(श्लो। ६७)
04
=>
(६७२)
05
=>
[[B। ‘शिञ्जानपिञ्जानसुवर्णभूषासम्पृञ्जितो वृज्यविवृञ्जिसेव्यः।’ धा। का। २। ४६।]]
1 {@“पिजि हिंसाबलादाननिकेतनेषु”@} 2 ‘पिज--’ इति शाकटायनः।
पिञ्जकः-ञ्जिका, पिपिञ्जयिषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि 3 चौरादिककुंशयतिवत् 4 ज्ञेयानि।
भावे घञर्थेऽचि 5 विपिञ्जः।
प्रासङ्गिक्यः
01
=>
(९९४)
02
=>
(१०-चुरादिः-१५६७। सक। सेट्। उभ।)
03
=>
[पृष्ठम्०८६१+ २५]
04
=>
(२३२)
05
=>
[[आ। ‘आश्वाठितारिकुलतुञ्जविपिञ्जशीलः संपेसयन् गृहमसान्त्वयद् एष गोपीः।’ धा। का। ३। १७।]]
1 {@“पिजि भाषार्थः”@} 2 ‘… भाषार्थे पिञ्जयेदिति।’ 3 इति देवः।
आस्वदीयः।
पिञ्जकः-ञ्जिका, पिपिञ्जयिषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककुंशयतिवत् 4 ज्ञेयानि।
इदित्करणात् णिचो वैकल्पिकत्वम्।
प्रासङ्गिक्यः
01
=>
(९९५)
02
=>
(१०-चुरादिः-१७५८। सक। सेट्। उभ।)
03
=>
(श्लो। ६७)
04
=>
(२३२)