| YouTube Channel

पिच्छिलं (picchilaM)

 
शब्दकल्पद्रुमः
Sanskrit
पिच्छिलं, त्रि, (पिच्छा भक्तसम्भूतमण्डं अस्त्य-स्येति पिच्छादित्वात् इलच् ।) भक्तमण्ड-युक्तम् इति रायमुकुटः
सरसव्यञ्जनादि ।इति भरतः
सूपादि इति रमानाथः ।स्निग्धसूपादि इति भानुदीक्षितः
मण्ड-युक्तभक्तम् जलयुक्तव्यञ्जनम् इति नील-कण्ठः
तत्पर्य्यायः विजिलम् इत्यमरः ।२ ४६
विजयिनम् विजिनम् विज्ज-लम् इज्जलम् लालसीकम् इतिवाचस्पतिः
(यथा, छन्दोमञ्जर्य्याम् ।“तरुणं सर्षपशाकं नवौदनानि पिच्छिलानि चदधीनि ।अल्पव्ययेन सुन्दरि ! ग्राम्यजनो मिष्टमश्नाति
”)पिच्छयुक्तः
(स्निग्धसरसपदार्थविशेषः पेचलइति भाषा
यथा, साहित्यदर्पणे १० ५५ ।“काले वारिधराणामपतितया नैव शक्यतेस्थातुम् ।उत्कण्ठितासि तरले ! नहि नहि सखि !पिच्छिलः पन्थाः
”)