| YouTube Channel

पिचुमर्द्दः (picumarddaH)

 
शब्दकल्पद्रुमः
Sanskrit
पिचुमर्द्दः,
पुं,
(पिचुं कुष्ठविशेषं मर्द्दयति मृद्ना-तीति वा मृद् + अण् ।) निम्बवृक्षः इत्य-मरः ६२
(यथा, देवीभागवते ।३ १० १२ ।“असतामुपकाराय दुर्ज्जनानां विभूतयः ।पिचुमर्द्दः फलाढ्योऽपि काकैरेवोपभुज्यते
”पर्य्यायोऽस्य यथा, वैद्यकरत्नमालायाम् ।“कैटर्य्यः पिचुमर्द्दश्च निम्बोऽरिष्टो वरत्वचा ।दर्द्दुघ्नो हिङ्गुनिर्य्यासः सर्व्वतोभद्र इत्यपि
”)