| YouTube Channel

पिका (pikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तुप हिंसार्थः”@} 2 ‘शपि तोपति हिंसायां तत्रैव तुपतीति शे।।’ 3 इति देवः।
तोपकः-पिका, तोपकः-पिका, तुतोपिषकः-तुतुपिषकः-षिका, तोतुपकः- पिका
तोपिता-त्री, तोपयिता-त्री, तुतोपिषिता-तुतुपिषिता-त्री, तोतुपिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि कुचधातुवत् 4 ज्ञेयानि।
5
प्रासङ्गिक्यः
01
=>
(७४६)
02
=>
(१-भ्वादिः-४०४। सक। सेट्। पर।)
03
=>
(श्लो। १३८)
04
=>
(२००)
05
=>
[पृष्ठम्०६७१+ २३]
1 {@“त्रुन्प हिंसार्थः”@} 2 त्रुम्पकः-म्पिका, त्रुम्पकः-म्पिका, तुत्रुम्पिषकः-षिका, तोत्रुपकः पिका
इत्यादीनि सर्वाण्यपि रूपाणि तुम्पतिवत् 3 ज्ञेयानि।
4 त्रुम्प्यम्।
प्रासङ्गिक्यः
01
=>
(७९५)
02
=>
(१-भ्वादिः-४०७। सक। सेट्। पर।)
03
=>
(७४२)
04
=>
[[आ। ‘अत्रुम्प्यधामानमिनं प्रतोफितुं प्रतुम्फशीलान् मिलतोऽथ राक्षसान्।’ धा। का। १। ५३।]]
1 {@“युप विमोहने”@} 2 ‘युपु--’ इति 3 धातुकाव्ये 4 पाठः।
5 योपकः-पिका, योपकः-पिका, युयुपिषकः-युयोपिषकः-षिका, योयुपकः- पिका, योपिता-त्री, योपयिता-त्री, युयुपिषिता-युयोपिषिता-त्री, योयुपिता-त्री
इत्यादिकानि सर्वाण्यपि रूपाणि दैवादिककुप्यतिवत् 6 ज्ञेयानि।
7 योप्यम्।
प्रासङ्गिक्यः
01
=>
(१३५५)
02
=>
(४-दिवादिः-१२३५। सक। सेट्। पर।)
03
=>
[[१०। एतत्पक्षे क्त्वायाम्, ‘उदितो वा’ (७-२-५६) इति इड्विकल्पः। इट्पक्षे ‘न क्त्वा सेट्’ (१-२-१८) इत्यमुं योगं परत्वात्, प्रतिपदविधित्वाच्च बाधित्वा, ‘रलो व्युपधात्--’ (६-४-१६) इति कित्त्वविकल्पे युपित्वा--योपित्वा, इति रूपद्वयम्। इडभावपक्षे तु युप्त्वा, इत्यपि रूपम्। वस्तुतस्तु उदित्त्वमस्य प्रामाणिकम्--प्रसिद्धेषु धातुपाठकोशेषु युप इत्येव पाठात्।]]
04
=>
(२-६७)
05
=>
[पृष्ठम्१०८८+ २२]
06
=>
(२२४)
07
=>
[[आ। ‘किञ्चायोप्यविरोपिलोपक वा लोभादिसंक्षोभिता।’ धा। का। २-६७।]]