| YouTube Channel

पाषाणचतुर्द्दशी (pASANacaturddazI)

 
शब्दकल्पद्रुमः
Sanskrit
पाषाणचतुर्द्दशी,
स्त्री,
(पाषाणसाध्या पाषाणवत्-पिष्टकभोजनसाध्या चतुर्द्दशी ।) वृश्चिकराशिस्थ-रविकशुक्लपक्षीयचतुर्द्दशी यथा, भविष्ये ।“वृश्चिके शुक्लपक्षे तु या पाषाणचतुर्द्दशी ।तस्यामाराधयेद्गौरीं नक्तं पाषाणभोजनैः
पाषाणभोजनैः पाषाणाकारपिष्टकभोजनैः ।”इति तिथ्यादितत्त्वम्