| YouTube Channel

पाषाणगर्द्दभः (pASANagarddabhaH)

 
शब्दकल्पद्रुमः
Sanskrit
पाषाणगर्द्दभः,
पुं,
हनुसन्धिजक्षुद्ररोगविशेषः ।तल्लक्षणमाह ।“वातश्लेष्मसमुद्भूतः श्वयथुर्हनुसन्धिजः ।स्थिरो मन्दरुजः स्निग्धो ज्ञेयः पाषाणगर्द्दभः
”स्थिरः कठिनः
*
तच्चिकित्सा यथा, --“पाषाणगर्द्दभं पूर्व्वं स्वेदयेत् कुशलो भिषक् ।ततः पनसिकाप्रोक्तैः कल्कैरुष्णैः प्रलेपयेत्
वातश्लैष्मिकशोथघ्नैः कल्कैरन्यैश्च लेपयेत् ।परिपाकगतं भित्त्वा व्रणवत्तमुपाचरेत्
जलोकाभिर्हृते रक्ते शाम्यति विनौषधम् ।एतत्स्थलेषु बहुषु प्रेक्षितं लिखितं ततः
”इति भावप्रकाशः