| YouTube Channel

पाषाणगर्दभ (pASANagardabha)

 
Monier Williams Cologne
English
पाषाण—गर्दभ
m.
a hard swelling on the maxillary joint,
Suśr.
शब्दकल्पद्रुमः
Sanskrit
पाषाणगर्द्दभः,
पुं,
हनुसन्धिजक्षुद्ररोगविशेषः ।तल्लक्षणमाह ।“वातश्लेष्मसमुद्भूतः श्वयथुर्हनुसन्धिजः ।स्थिरो मन्दरुजः स्निग्धो ज्ञेयः पाषाणगर्द्दभः
”स्थिरः कठिनः
*
तच्चिकित्सा यथा, --“पाषाणगर्द्दभं पूर्व्वं स्वेदयेत् कुशलो भिषक् ।ततः पनसिकाप्रोक्तैः कल्कैरुष्णैः प्रलेपयेत्
वातश्लैष्मिकशोथघ्नैः कल्कैरन्यैश्च लेपयेत् ।परिपाकगतं भित्त्वा व्रणवत्तमुपाचरेत्
जलोकाभिर्हृते रक्ते शाम्यति विनौषधम् ।एतत्स्थलेषु बहुषु प्रेक्षितं लिखितं ततः
”इति भावप्रकाशः
वाचस्पत्यम्
Sanskrit
पाषाणगर्दभ
पु०
सुश्रुतोक्ते क्षुद्ररोगभेदे “हनुसन्धौसमुद्भूतं शोफमल्परुजं स्थिरम् पाषाणगर्ढभं विद्याद्बलासपबनात्मकम्”