पाषण्डिन् (pASaNDin)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishShabdartha Kaustubha
Kannadaपाषण्डिन्
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ವೇದಧರ್ಮವನ್ನು ತ್ಯಜಿಸಿರುವವನು /ವೇದವಿಹಿತ ಕರ್ಮಗಳನ್ನು ಆಚರಿಸದೆ ನಿಂದಿಸುವವನು
निष्पत्तिः - > षण्ड + णिच् - "णिनिः" (३-१-१३४)
व्युत्पत्तिः - > पां वेदधर्मः षण्डयन्ति
L R Vaidya
Englishवाचस्पत्यम्
Sanskritपाषण्डिन् पां वेदधर्मं षण्डयति षण्ड + णिच--इनिपाषण्डे शब्दच० तस्य लक्षणं यथा“येऽन्यदेवं परत्वेन वदन्त्यज्ञानमोहिताः । नारायणादुजगद्वन्द्यात् ते वै पाषण्डिनस्तथा । कपालभस्मास्थिधराये ह्यवैदिकलिङ्गिनः । ऋते वनस्थाश्रमांश्च जटावल्कलधारिणः । अवैदिकक्रियोपेतास्ते वै पाषण्डिनस्तथा ।शङ्खचक्रोर्द्ध्वपुण्ड्रादिचिह्नैः प्रियतमैर्हरेः । रहिता येद्विजा देवि! ते वै पाषण्डिनो मताः । श्रतिस्मृत्युक्तमा-चारं यस्तु नाचरति द्विजः । स पाषण्डीति विज्ञेयःसर्वलोकेषु गर्हितः । समस्तयज्ञभोक्तारं विष्णुं ब्रह्म-ण्यदैवतम् । उदस्य देवतान्येभ्यो जहोति च ददाति च ।स पाषण्डीति विज्ञेयः स्वतन्त्रो वापि कर्म्मसु । स्वात-न्त्र्यात् क्रियते यैस्तु कर्म वेदोदितं महत् । विना वैभगवत्प्रीत्या ते वै पाषण्डिनः स्मृताः । यस्तु नारायणंदेवं व्रह्मरुद्रादिदैवतैः । समत्वेनैव जानाति स पाषण्डीभवेत् सदा । अनास्था क्रियते यैस्तु मनोवाक्कायकर्मभिः ।वासुदेवं न जानाति स पाषण्डी भवेत् द्विजः । हरे-र्नामकमन्त्राभ्यां लोकाः सद्भिर्विवर्जिताः । यदि वर्णाश्र-माद्या ये ते वै पाषण्डितः स्मृताः । वर्णानां गुरवोनित्यं शिवे! यद्यप्यवैष्णवाः । भगवद्धर्मरहिता वैष्णवा-दिविनिन्दकाः । रजस्तमोमया जीवहिंसका जीवभ-क्षकाः । असत्प्रतिग्रहरता देवला ग्रामयाजकाः ।भ्रष्टाचारास्तथा व्रात्या नानाविबुधपूजकाः । देवतो-च्छिष्टश्राद्धादिभोजिनः शूद्रवत्क्रियाः । विविधासत्क-र्मरता भक्षणाद्यविचारिणः । लोभमोहमदक्रोधकामा-हङ्कारिणः सदा । एवंविधाः पारदारिकाद्या येऽत्रशुभानने! । अन्येषां का कथा तत्र पाषण्डा ब्रा-ह्मणाः स्मृताः । वर्णाश्रमाद्या ये मर्त्याः स्वस्वधर्मविव-र्जिताः । ते वै पाषण्डिनो देवि! नारायणबहिर्मु-खाः । सर्वाशिनो द्विजा येऽपि सर्वविक्रयिणस्तथा ।ये वेदाचाररहितास्ते वै पाषण्डिनो मताः । ये त्वस-द्भक्ष्यपानादिरता लोका निरन्तरम् । शिवे! पाषण्डिनोज्ञेया इह नास्त्यत्र संशयः । विष्णुवैष्णवगोभूमिदेवा-दिषु विशेषतः । अश्वत्थतुलसीतीर्थक्षेत्रादिषु महागुरौ । लक्ष्मीसरस्वतीगङ्गायमुनासु वरानने! । स्मृताःपाषण्डिनस्तेऽपि ये न सेवापरायणाः । रुद्राक्षेन्द्रा-क्षभद्राक्षस्फटिकाक्षादिधारिणः । जटिला भस्मलि-प्ताङ्गास्ते वै पाषण्डिनः प्रिये! । असिजीवी मसीजीवी-घावकः पाचकस्तथा । एते पाषण्डिनो विप्रा मादकद्रव्यभोजिनः । देवि! कार्ष्णादयो भक्ता अनन्यशरणास्तुये । पाषण्डसङ्गं न कुर्युस्तद्गेहे पानभोजने । तत्स्पर्शजलपानञ्च चक्रुस्तत्सङ्गमादिकम् । तत्पानभो-जनालापसङ्गालिङ्गनतोऽचिरात् । पाषण्डिनो वैष्णवाःस्युरन्येषामपि का कथा । किमत्र बहुनोक्तेन ब्राह्मणाये ह्यवैष्णवाः । असदाचरणाश्चेत् स्युस्तदा पाषण्डिनःस्मृताः । एतद्भोजनपानादिकर्मभिर्वैष्णवा जनाः । पाष-ण्डिनस्तथा स्युर्वै जटामस्मादिधारिणः” पाद्मोत्तरखण्डेपाषण्डाचरणं नाम ४२ अ० । एतच्च वैष्णवप्रशंसार्थंशैवलिङ्गधारणस्यापि शास्त्रसिद्धत्वात् । तत्संसर्गादिनिषेधोयथा “तस्मात् पाषण्डिभिः प्रापैरालापं स्पर्शनं त्यजेत् ।विशेषतः क्रियाकाले यज्ञादौ चापि दीक्षितः । क्रि-याहानिर्गृहे सूर्यं पश्येत सतिमान् नरः । किं पुनर्येस्तुसन्त्यक्ता त्रयी सर्वात्मना द्विज! । पाषण्डभोजिभिःपापैर्वेदवादविरोधिभिः । पाषण्डिनो विकर्मस्थान्वैडालव्रतिकान् शठान् । हैतुकान् वकवृत्तींश्च वाङ्-मात्रेणापि नार्च्चयेत् । दूरापास्तस्तु संसर्गः सहास्यावापि पापिभिः । पाषण्डिभिर्दुराचारैस्तस्मात्तान् परि-वजयेत् । एते नग्नास्तवाख्याता दृष्ट्या श्राद्धोपघातकाः ।येषां सम्भाषणात् पुंसां दिनपुण्यं प्रणश्यति । एतेपाषण्डिनामानो ह्येतान्न चालपेद्बुधः । पुण्यं नश्यतिसम्भाषादेतेषां तद्दिनोद्भवम् । पुसां जटाधरणमौण्ड्यवतांवृथैव मोघाशिनामखिलशौचनिराकृतानाम् । तोयप्र-दानपितृपिण्डबहिष्कृताना सम्भाषणादप्रि नरा नरकंप्रयान्ति” विष्णु ३ अंशे १८ अ० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
