| YouTube Channel

पाशुपतास्त्रं (pAzupatAstraM)

 
शब्दकल्पद्रुमः
Sanskrit
पाशुपतास्त्रं,
क्ली,
(पाशुपतं पशुपतिसम्बन्धिअस्त्रम् ।) पशुपतेः शूलास्त्रम् तस्य स्वरूपंयथा, --“गजाननोऽपि सञ्चिन्त्य यत्तत् पाशुपतं परम् ।महारूपं महाकायं युगान्ताग्निसमप्रभम्
पञ्चवक्त्रं महाघोरं दशबाहुं त्रिलोचनम् ।सौम्यं घोरं सुघोरास्यमूर्द्ध्वकेशं भयोत्कटम्
जटाभारेन्दुगङ्गाहिध्रियमाणं शिवाङ्गजम् ।वेणुवीणाशङ्खघण्टं डमरुकारावसंकुलम्
शिवारावं भयात्त्रासि गृध्रवायसचेष्टितम् ।उल्कादण्डज्वलज्वालं गोनाशकृतभूषणम्
ललन्मेखलनागेन्द्रं गजचर्म्मार्द्रवाससम् ।केकरं तर्ज्जमानन्तु शूलखट्वाङ्गधारिणम्
ग्रसमानं सममिदं त्रैलोक्यं सचराचरम् ।पुरतो विघ्ननाशस्य लेलिहानं व्यवस्थितम्
”इति देवीपुराणम्