पाशुपतव्रतं (pAzupatavrataM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritपाशुपतव्रतं, (पाशुपतं पशुपतिसम्बन्धिव्रतम् ।) पशुपतिव्रतविशेषः । यथा, --“यथा पशुपतिर्नित्यं हत्वा सर्व्वमिदं जगत् ।न लिप्यते पुनः सोऽपि यो नित्यं व्रतमाचरेत् ॥
इहजन्मकृतं पापं पूर्व्वजन्मकृतञ्च यत् ।व्रतं पाशुपतं नाम कृत्वा हन्ति द्विजोत्तम ! ॥
द्बादश्यामेकभक्ताशी त्रयोदश्यामयाचितम् ।चतुर्द्दश्यां तथा नक्तमुपवासं परेऽहनि ॥
गोवृषञ्चैव हैरण्यं रौप्यं ताम्रमयन्तथा ।सौवर्णं कारयेत् पत्रं गुञ्जाशीत्या पृथक् पृथक् ॥
तत्रैवोल्लेखयेन्मूर्त्तिं शिवायाश्च शिवस्य च ।तत्प्रमाणं वृषं कुर्य्याद्रौप्यं हेम्नश्चतुर्गुणैः ॥
रौप्यादष्टमुणं ताम्रं तदर्द्धं वापि कारयेत् ।क्षारपत्रे समारोप्य वस्त्रोत्तमयुतन्तथा ॥
त्रयोदश्यामेकभक्तं रिक्तायां नक्तमाचरेत् ।कुर्य्यादयाचितं दर्शे पादकृच्छ्रव्रतञ्चरेत् ॥
गन्धपुष्पैः सुनैवेद्यैर्व्वस्त्राभरणदीपकैः ।गङ्गाधरं समभ्यर्च्च्य प्रार्थयेत् प्रवरं वरम् ॥
गङ्गाधर ! महादेव ! सर्व्वलोकचराचर ! ।जहि मे सर्व्वपापानि पूजितस्त्विह शङ्कर ! ॥
शङ्कराय नमस्तुभ्यं सर्व्वपापहराय च ।यथा यमं न पश्यामि तथा मे कुरु शङ्कर ! ॥
यममार्गं यया शम्भो ! न पश्यामि कदाचन ।संपूजितो मया भक्त्या तथा मे कुरु शङ्कर ! ॥
गङ्गाधर ! धराधीश ! परात्पर वरप्रद ! ।श्रीकण्ठ ! नीलकण्ठस्त्वसुमाकान्त ! नमोऽस्तु ते ॥
संपूज्यैवंविधानेन प्रतिपद्युदिते रवौ ।हैरण्यादीन् गोवृषांश्च ब्राह्मणेभ्यो निवेदयेत् ॥
यथा त्वं सर्व्वगः सर्व्वः सर्व्ववासस्तु सर्व्वहृत् ।न लिप्यसे विकुर्व्वाणस्तथा मां कुरु शङ्कर ! ॥
एवं स्तुत्वा नमस्कृत्य वृषादींश्च यथोदितान् ।गुर्व्वादिभ्यो द्विजेभ्यश्च शङ्करः प्रीयतामिति ॥
एवं व्रतमिदं कृत्वा वृषं दद्याद्द्विजातये ।यममार्गं महाघोरं न पश्यति कदाचन ॥
यः करोति व्रतेनैव सर्व्वपापप्रणाशनम् ।न स लिप्येत पापेन पद्मपत्रमिवाम्भसा ॥
ब्रह्महत्यादिभिः पापैरगम्यागमनादिभिः ।मुच्यते पातकेभ्योऽथ ह्यभक्ष्यापेयजैः पुमान् ॥
यः करोति महाभाग ! दानं सर्व्वसुखावहम् ।हत्वा पापान्यशेषाणि स्वर्गलोकं स गच्छति ॥
”इति वह्निपुराणे पाशुपतव्रतदानाध्यायः ॥
(यथा च शिवपुराणे वायुसंहितायां पूर्व्वभागे२९ अध्याये ।ऋषय ऊचुः ।“भगवन् ! श्रोतुमिच्छामो व्रतं पाशुपतं परम् ।ब्रह्मादयोऽपि यत् श्रुत्वा सर्व्वे पाशुपताः स्मृताः ॥
वायुरुवाच ।रहस्यं वः प्रवक्ष्यामि सर्व्वपाशनिकृन्तनम् ।व्रतं पाशुपतं श्रौतमथर्व्वशिरसि श्रुतम् ॥
कालश्चित्रापौर्णमासी देशः शिवपरिग्रहः ।क्षेत्रारामादिरम्यो वा प्रशस्तः शुभलक्षणः ॥
तत्र पूर्व्वं त्रयोदश्यां सुस्नातः सुकृताह्निकः ।अनुज्ञाप्य स्वमाचार्य्यं संपूज्य प्रणिपत्य च ॥
पूजां वशेषिकीं कृत्वा शुक्लाम्बरधरः स्वयम् ।शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः ॥
दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च ।प्राणायामत्रयं कृत्वा प्राङ्मुखो वाप्युदङ्मुखः ॥
ध्यात्वा देवञ्च देवीञ्च तद्विज्ञापनवर्त्मना ।व्रतमेतत् करोमीति भवेत् संकल्प्य दीक्षितः ॥
यावच्छरीरपातं वा द्बादशाब्दमथापि वा ।तदर्द्धं वा तदर्द्धं वा मासद्वादशकन्तु वा ॥
तदर्द्धं वा तदर्द्धं वा मासमेकमथापि वा ।दिनद्वादशकं वाथ दिनषट्कमथापि वा ॥
तदर्द्धं दिनमेकं वा व्रतसंकल्पनावधि ।अग्निमाधाय विधिवद्विरजा होमकारणात् ॥
हुत्वाज्येन समिद्भिश्च चरुणा च यथाक्रमम् ।पूर्णाद्याः पुरतो भूयस्तत्वानां शुद्धिमुद्दिशन् ॥
जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः ।तत्वान्येतानि मद्देहे शुध्यन्तामित्यनुस्मरन् ॥
पञ्च भूतानि तन्मात्राः पञ्च कर्म्मेन्द्रियाणि च ।ज्ञानकर्म्मविभेदेन पञ्च पञ्च विभागशः ॥
त्वगादिधातवः सप्त पञ्च प्राणादिवायवः ।मनोबुद्धिरहंख्यातिर्गुणाः प्रकृतिपूरुषौ ॥
रागो विद्या कला चैव नियतिः काल एव च ।माया च शुद्धविद्या च महेश्वरसदाशिवौ ॥
शक्तिश्च शिवतत्वञ्च तत्वानि क्रमशो विदुः ।मन्त्रैस्तु विरजैर्हुत्वा होतासौ विरजो भवेत् ॥
अथ गोमयमादाय पिण्डीकृत्याभिमन्त्र्य च ।न्यस्याग्नौ तच्च संरक्ष्य दिने तस्मिन् हविष्य-भुक् ॥
प्रभाते तु चतुर्द्दश्यां कृत्वा सर्व्वं पुरोदितम् ।दिने तस्मिन्मिताहारः कालशेषं समापयेत् ॥
प्रातःपर्व्वणि चाप्येवं कृत्वा होमावसानतः ।उपसंहृत्य रुद्राग्निं गृह्णीयाद्भस्म यत्नतः ॥
ततस्तु जटिलो मुण्डः शिखैकजट एव वा ।भूत्वा स्नात्वा पुनर्वीतलज्जश्चेत् स्याद्दिगम्बरः ॥
अन्यः काषायवसनश्चर्म्मचीराम्बरोऽथवा ।एकाम्बरो वल्कली वा भवेद्दण्डी च मेखली ॥
प्रक्षाल्य चरणौ पश्चाद्द्विराचम्यात्मनस्तनुम् ।संकलीकृत्य तद्भस्म विरजानलसम्भवम् ॥
अग्निरित्याभिर्म्मन्त्रैः षड्भिराथर्व्वणैः क्रमात् ।विमृज्याङ्गानि मूर्द्धादिचरणान्तञ्च संस्पृशेत् ॥
ततस्तेन क्रमेणैव समुद्धृत्य च भस्मना ।सर्व्वाङ्गोद्धूलनं कुर्य्यात् प्रणवेन शिवेन वा ॥
ततस्त्रिपुण्ड्रं रचरेत्त्रियायुषसमाह्वयम् ।शिवभावं सगागम्य शिवयोगं समाचरेत् ॥
कुर्य्यात्त्रिसन्ध्यमप्येवमेतत् पाशुपतं व्रतम् ।पूजनीयो महादेवो लिङ्गमूर्त्तिः सनातनः ॥
पद्ममष्टदलं हैमं नवरत्नैरलङ्कृतम् ।कर्णिकाकेसरोपेतमासनं परिकल्पयेत् ॥
विभवे तदभावे तु रक्तं सितमथापि वा ।पद्मं तस्याप्यभावे तु केवलं भावनामयम् ॥
तत्पद्मकर्णिकामध्ये कृत्वा लिङ्गं कनीयसम् ।स्फाटिकं पीठिकोपेतं पूजयेद्धि ततःक्रमात् ॥
प्रतिष्ठाप्य विधानेन तल्लिङ्गं कृतशोधनम् ।परिकल्प्यासनं मूर्त्तिं पञ्चवक्त्रप्रकारतः ॥
पञ्चगव्यादिभिः पूण्यैर्यथाविभवविस्तरैः ।स्नापयेत् कलशैः पूर्णैः सहस्रादिषु सम्भवैः ॥
गन्धद्रव्यैः सकर्पूरैश्चन्दनाद्यैः सकुङ्कुमैः ।सवेदिकं समालिप्य लिङ्गं भूषणभूषितम् ॥
बिल्वपत्रैश्च पद्मैश्च रक्तश्वेतैस्तथोत्पलैः ।नीलोत्पलैस्तथान्यैश्च पुष्पैस्तैस्तैः सुगन्धिभिः ॥
पुण्यैश्च शतपत्रैश्च चित्रैर्दूर्षाक्षतादिभिः ।समभ्यर्च्य यथालाभं महापूजाविधानतः ॥
धूपं दीपं तथाचार्घ्यं नैवेद्यञ्च समादिशेत् ।निवेदयित्वा विभवे कल्याणञ्च समाचरेत् ॥
इष्टानि च विशिष्टानि न्यायेनोपार्जितानि च ।सर्व्वद्रव्याणि देयानि व्रते तस्मिन् विशेषतः ॥
श्रीपत्रोत्पलपद्मानां संख्या साहस्रिकी मता ।प्रत्येकमपरा संख्या शतमष्टोत्तरं द्विजाः ॥
तत्रापि च विशेषेण न त्यजेद्बिल्वपत्रकम् ।हैममेकं परं प्राहुः पद्मं पद्मसहस्रकात् ॥
नीलोत्पलादिष्वप्येतत्समानं बिल्वपत्रकैः ।पुष्पान्तरान्यनियमाद्यथालाभं निवेदयेत् ॥
अष्टाङ्गमर्घ्यमुत्कृष्टं धूपालेपौ विशेषतः ।कृष्णागुरुमघोराख्ये वक्रे सद्ये मनःशिलाम् ॥
चन्दनं वामदेवाख्ये हरितालञ्च पौरुषे ।ईशाने भसितं केचिदालेपनमितीदृशम् ॥
न धूप इति मन्यन्ते धूपान्तरविधानतः ।सितागुरुमघोराख्ये मुखे कृष्णागुरुं पुनः ॥
पौरुषे गुग्गुलुं सद्ये सौम्ये सौगन्धिकं मुखे ।ईशानेऽपि उशीरादि दद्याद्धूपं विशेषतः ॥
शर्करामधुकर्पूरकपिलाघृतसंयुतम् ।चन्दनागुरुकाष्ठाद्यं सामान्यं संप्रचक्षते ॥
कर्पूरवर्तिराज्याढ्या देया दीपावली ततः ।अर्घ्यमाचमनं देयं प्रतिवक्त्रमतःपरम् ॥
प्रथमावरणे पूज्यौ क्रमाद्धेरम्बषण्मुखौ ।ब्रह्माङ्गानि ततश्चैवं प्रथमावरणेऽर्च्चिते ॥
द्बितीयावरणे पूज्या विघ्नेशाश्चक्रवर्त्तिनः ।तृतीयावरणे पूज्या भवाद्याश्चाष्टमूर्त्तयः ॥
महादेवादयस्तत्र तथैकादशमूर्त्तयः ।चतुर्थावरणे पूज्याः सर्व्व एव गणेश्वराः ॥
बहिरेव तु पद्मस्य पञ्चमावरणे क्रमात् ।दश दिक्पतयः पूज्याः सास्त्राः सानुचरास्तथा ॥
ब्रह्मणो मानसाः पुत्त्राः सर्व्वेऽपि ज्योतिषाङ्गणाः ।सर्व्वे देवाश्च देव्यश्च सर्व्वाः सर्व्वेऽपि खेचराः ॥
पातालवासिनश्चान्ये सर्व्वे मुनिगणा अपि ।योगिनो मुख्यतः सर्व्वे पञ्चमे मातरस्तथा ॥
क्षेत्रपालश्च सगणः सर्व्वं चैतच्चराचरम् ।अथावरणपूजान्ते सम्पूज्य परमेश्वरम् ॥
साज्यं सव्यञ्जनं हृद्यं हविर्भक्त्या निवेदयेत् ।मुखवासादिकं दत्त्वा ताम्बूलं सोपदंशकम् ॥
अलङ्कृत्य च भूयोऽपि नानापुष्पविभूषणैः ।नीराजनान्ते विस्तीर्णं पूजाशेषं समापयेत् ॥
चन्द्रसङ्काशहारञ्च शयनीये समर्पयेत् ।आढ्यं नृपोचितं हृद्यं तत्सर्व्वमनुरूपतः ॥
कृत्वा च कारयित्वा च हुत्वा च प्रतिपूजनम् ।स्तोत्रं व्यपोहनं जप्त्वा विद्यां पञ्चाक्षरीं जपेत् ॥
प्रदक्षिणां प्रणामञ्च कृत्वात्मानं समर्च्चयेत् ।ततः पुरस्ताद्देवस्य गुरुविद्ये च पूजयेत् ॥
दत्वार्घ्यमष्टौ पुष्पाणि देवमुद्बास्य लिङ्गतः ।अग्नेश्चाग्निं सुसंरक्ष्य उद्बास्य च तमप्युत ॥
प्रत्यहं जन इत्येवं कुर्य्यात्सर्व्वं पुरोदितम् ।ततस्तत्साम्बुजं लिङ्गं सर्व्वोपकरणान्वितम् ॥
समर्पयेत् स्वगुरवे स्थापयेद् वा शिवालये ।संपूज्य च गुरूनन्यान् व्रतिनश्च विशेषतः ॥
भक्तान् द्विजांश्च शक्तश्चेद्दीनानाथांश्च तोषयेत् ।स्वयं चानशनप्रायः फलमूलाशनोऽथवा ॥
पयोव्रती वा भिक्षाशी भवेदेकाशनस्तथा ।नक्तं युक्ताशनो नित्यं भूशय्यानिरतः शुचिः ॥
भस्मशायी तृणे शायी चीराजिनशयोऽथवा ।ब्रह्मचर्य्यरतो नित्यं व्रतमेतत् समाचरेत् ॥
अर्कवारे तथार्द्वायां पञ्चदश्याञ्च पक्षयोः ।अष्टम्याञ्च चतुद्दश्यां शक्तस्तूपवसेदपि ॥
पाषण्डपतितोदक्यासूतिकान्त्यजपूर्व्वकान् ।वर्ज्जयेत्सर्व्वत्नेन मनसा कर्म्मणा गिरा ॥
क्षमादानदयासत्याहिंसाशीलः सदा भवेत् ।सन्तुष्टश्च प्रशान्तश्च तपोध्यानरतः सदा ॥
कुर्य्यात्त्रिषवणस्नानं भस्मस्नानमथापि वा ।पूजां षैशेषिकोञ्चैव मनसा कर्म्मणा गिरा ॥
बहुनात्र किमुक्तेन नाचरेदशिवं व्रती ।प्रमादात्तु तथाचारे निरूप्य गुरुलाघवम् ॥
उचितां निष्कृतिं कुर्य्यात् पूजाहोमजपादिभिः ।आसमाप्तेर्व्रतस्यैवमाचरेन्न प्रमादतः ॥
गोदानञ्च वृषोत्सर्गं कुर्य्यात् पूजां जपं सदा ।सामान्यमेतत् कथितं व्रतस्यास्य समासतः ॥
प्रतिमासं विशेषञ्च प्रवक्ष्यामि यथाक्रमम् ।वैशाखे वज्रलिङ्गन्तु ज्येष्ठे मारकतं शुभम् ॥
आषाढे मौक्तिकं विद्याच्छ्रावणे नीलनिर्म्मितम् ।मासे भाद्रपदे चैव पद्मरागमयं परम् ॥
आश्वयुज्याञ्च विधिवद्गोमेदकमयं शुभम् ।कार्त्तिक्यां वै द्रुमं लिङ्गं वैदूर्य्यं मार्गशीर्षके ॥
पुष्परागमयं पौषे माघे द्युमणिजं तथा ।फाल्गुन्यां चन्द्रकान्तोत्थं चैत्रे तद्ब्यत्ययोऽथवा ॥
सर्व्वमासेषु रत्नानामलाभे हैममेव वा ।हैमाभावे राजतं वा ताम्रं शैलजमेव वा ॥
मृण्मयं वा यथालाभं क्षणिकं चान्यदेव वा ।सर्व्वगन्धमयं वाथ लिङ्गं कुर्य्याद्यथारुचि ॥
व्रतावसानसमये समाचरितनैत्यकः ।कृत्त्वा वैशेशिकीं पूजां हुत्वा चैव यथा पुरा ॥
संपूज्य च सदाचार्य्यं व्रतिनश्च विशेषतः ।दैशिकेनाभ्यनुज्ञातः प्राङ्मुखो वाप्युदङ्मुखः ॥
दर्भासनो दर्भपाणिः प्राणापानौ नियम्य च ।जपित्वा शक्तितो मूलं ध्यात्वा शाम्बं त्रियम्बकम् ॥
अनुज्ञाप्य यथापूर्व्वं नमस्कृत्य कृताञ्जलिः ।समुत्सृजामि भगवन् ! व्रतमेतत्त्वदाज्ञया ॥
इत्युक्त्वा लिङ्गमूलन्तु दर्भानुत्तरतस्त्यजेत् ।ततो दण्डजटाचीरमेखलाद्यपि चोत्सृजेत् ॥
पुनराचम्य विधिवत् पञ्चाक्षरमुदीरयेत् ।यः कृत्वात्यन्तिकीं दीक्षामादेहान्तमनाकुलः ॥
व्रतमेतत् प्रकुर्वीत स तु वै नैष्ठिकः स्मृतः ।सोऽत्याश्रमी च विज्ञेयो महापाशुतस्तथा ॥
स एव तपसां श्रेष्ठः स एव च महाव्रती ।न तेन सदृशः कश्चित् कृतकृत्यो मुमुक्षुषु ॥
यतिर्यो नैष्ठिको जातस्तमाहुर्नैष्ठिकोत्तमम् ।योऽनश्नन्द्वादशाहं वा व्रतमेतत् समाचरेत् ॥
सोऽपि नैष्ठिकतुल्यः स्यात्तीव्रव्रतसमन्वयात् ।घृताक्ता यश्चरेदेतद्व्रतं व्रतपरायणः ॥
द्वित्र्यैकदिवसं वापि स च कश्चन नैष्ठिकः ।कृत्यमित्येव निष्कामो यश्चरेद् व्रतमुत्तमम् ॥
शिवार्पितात्मा सततं न तेन सदृशः क्वचित् ।भस्मच्छन्नो द्बिजो विद्वान् महापातकसम्भवैः ॥
पापैर्विमुच्यते सद्यो मुच्यते नात्र संशयः ।रुद्राग्नेर्यत्परं वीर्य्यं तद्भस्म परिकीर्त्तितम् ॥
तस्मात्सर्व्वेषु कालेषु वीर्य्यवान् भस्मसंयुतः ।भस्मनिष्ठस्य दह्यन्ते दोषा भस्माग्निसङ्गमात् ॥
भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः ।भस्मना दिग्धसर्व्वाङ्गो भस्मदीप्तत्रिपुण्ड्रकः ॥
भस्मशायी च पुरुषो भस्मकल्मषभक्षणात् ।भूतिर्भूतिकरी पुंसां रक्षा रक्षाकरी परम् ॥
किमन्यदिह वक्तव्यं भस्ममाहात्म्यकारणम् ।व्रती च भस्मना स्नातः स्वयं देवो महेश्वरः ॥
परमास्त्रञ्च शैवानां भस्मैतत्पारमेश्वरम् ।धौभ्याग्रजस्य तपसि ह्यापदो यन्निवारिताः ॥
तस्मात्सर्व्वप्रयत्नेन कृत्वा पाशुपतं व्रतम् ।धनवद्भस्म संगृह्य भस्मस्नानरतो भवेत् ॥
”इति श्रीशिवपुराणे वायुसंहितायां पूर्व्वभागेएकोनत्रिंशोऽध्यायः ॥
* ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
