| YouTube Channel

पार्श्वपरिवर्त्तनं (pArzvaparivarttanaM)

 
शब्दकल्पद्रुमः
Sanskrit
पार्श्वपरिवर्त्तनं,
क्ली,
(पार्श्वस्य पार्श्वेन वा परि-वर्त्तनम् ।) कटिदानम् कर्णिकापरिवृत्तिः ।पाशफेराण इति भाषा श्रीहरेः पार्श्वपरि-वर्त्तनोत्सवो यथा, --“भाद्रस्य शुक्लैकादश्यां शयनोत्सववत् प्रभोः ।कटिदानोत्सवं कुर्य्याद्वैष्णवैः सह वैष्णवः
”तथा भविष्योत्तरे ।“प्राप्ते भाद्रपदे मासि एकादश्यां सितेऽहनि ।कटिदानं भवेद्विष्णोर्महापातकनाशनम्
जलाशयान्तिकं नीत्वा संपूज्याभ्यर्च्च्य प्रभुम् ।कर्णिकापरिवृत्तिञ्च दक्षिणाङ्गे प्रकल्पयेत्
”अस्य व्याख्या शयनोत्सवात् कथञ्चिद्बिशेपमनु-वादपूर्व्वकं लिखति जलेति त्रिभिः कर्णिकायाःकट्याः परिवृत्तिं दक्षिणाङ्गे प्रकल्पयेदिति पूर्व्वंवामाङ्गेन सुप्तस्याधुना दक्षिणाङ्गेन शाययेदि-त्यर्थः तत्कालविशेषश्च पूर्व्वमेव निर्णीतोऽस्ति ।अभ्यर्थनामन्त्रः ।“देवदेव ! जगन्नाथ योगिगम्य ! निरञ्जन ! ।कटिदानं कुरुष्वाद्य मासि भाद्रपदे शुभे
महापूजां ततः कृत्वा वैष्णवान् परितोष्य ।देवं स्वमन्दिरे नीत्वा यथापूर्व्वं निवेशयेत्
”इति श्रीहरिभक्तिविलासे १५ विलासः