| YouTube Channel

पार्श्वः (pArzvaH)

 
Apte Hindi
Hindi
पार्श्वः
पुं*
- पृथा + अण्
"युधिष्ठिर, भीम और अर्जुन का मातृकुलसूचक नाम, परन्तु अर्जुन का विशेषरूप से"
पार्श्वः
पुं*
- पृथा + अण्
राजा
पार्श्वः
पुं*
- पशूनां समूहः
"काँख से नीचे का शरीर का भाग, स्थान जहाँ पसलियाँ है"
पार्श्वः
पुं*
- पशूनां समूहः
"पाँसू, कोख, (सजीव और निर्जीव पदार्थों का) पार्श्वांग"
पार्श्वः
पुं*
- पशूनां समूहः
आस-पास
पार्श्वः
पुं*
- पशूनां समूहः
जिनका विशेषण
पार्श्वः
पुं*
- पर्शु+अण्
"एक ऋषि, जैनियों के २३वें तीर्थकर का विशेषण"
पार्श्वः
पुं*
- पर्शु+अण्
पार्श्वभाग
Wordnet
Sanskrit
Synonyms:
क्रोडः, पक्षः, पार्श्वः, पार्श्वम्, उपपार्श्वः, कुक्षिः, पार्श्वङ्गम्
noun
भुजकोटरस्य कटेः मध्यस्थः सः भागः यत्र पर्शुकाः भवन्ति।
"सीमा स्वभर्तुः क्रोडे सङ्कोचिता"।"
Synonyms:
पार्श्वः, पक्षः, पार्श्वम्
noun
कस्यापि वस्तुनः शरीरस्य वा दक्षिणतः वामतः वा भागः।
"कस्मिन् पार्श्वे पीडाम् अनुभवसि।"
Synonyms:
पार्श्वः
noun
विशेषस्थितौ दक्षिणतः वामतः वा विस्तारः।
"श्यामः मम पार्श्वे उपाविशत्।"
Tamil
Tamil
பார்ச்’வ: : பக்கம், அருகாமைல், உடலின் கக்கத்திற்கும் இடுப்புக்குமிடைப்பட்ட பகுதி.
शब्दकल्पद्रुमः
Sanskrit
पार्श्वः,
पुं,
जिनः (अयमेव जैनागमोक्तत्रयो-विंशतीर्थङ्करः अस्य पिता विश्वसेनः माता चब्रह्मी यदुक्तं पार्श्वनाथचरित्रे १० ७१ ।“श्रीलश्रीपार्श्वतीर्थेशो विश्वसेननृपालये ।ब्रह्मीगर्भे जगन्नाथोऽवतरिष्यति मुक्तये
”तथा तत्रैव ११ ३९ ।“विश्वसेनपतेर्ब्रह्म्याः सद्गर्भेऽवतरिष्यति ।श्रीपार्श्वनाथ एवाद्यतीर्थकर्त्ता जगद्गुरुः
”हेमचन्द्राचार्य्यादिमते तु अस्य पितृनाम अश्व-सेनः मातृनाम वामा
*
अस्य जन्मकालादिर्यथा तत्रैव ११ ४५ -- ४६, ९६ -- ९७ ।“वैशाखकृष्णपक्षस्य द्वितीयायां निशात्यये ।विशाखर्क्षे सुलग्नादौ सुमुहूर्त्ते सुरेश्वरः
अवतीर्णो दिवश्च्युत्त्वा भुक्त्वा भोगान् सुनिर्म्मले ।राज्ञ्या गर्भे निरौपम्ये शुद्धस्फाटिकसन्निभे
”“नवमे मासि संपूर्णे पौषे मासि वृषोदयात् ।कृष्णपक्षेनिले योगे शुभे एकादशीतिथौ
शुभलग्नमुहूर्त्तादौ सुषुवेऽतिसुखेन सा ।सती देवकुमारीभिः सेव्या तीर्थङ्करं सुतम्
”बाल्यकाले एवास्य वैराग्योत्पत्तिर्जाता ।ततोऽसौ संसारासक्तिं तुच्छीकृत्य गृहादिकंविहाय वनं प्रस्थितवान् एतत्प्रचलितमतंयथा, तत्रैव १४ ७८ -- ९० ।“मिथ्यात्वेनाविरत्या प्रमादेन कषायतः ।दुष्टयोगेन मूढानां महापापं प्रजायते
पञ्चाग्निसाधनेनैव पृथिव्याद्यंगिराशयः ।म्रियते षडविधः सर्व्वदिक्षु तत्तापसो भृशम् ।जीवघातेन घोराघं तस्य पाकेन दुर्गतिः ।जायते महद्दुःखं तापसानां जडात्मनाम्
ज्ञानहीनो वपुःक्लेशो व्यर्थः पापाश्रवान्नॄणाम् ।दयां विना तपो धर्म्मः सर्व्वमस्ति निरर्थकम्
तुषखण्डनयोगेन लभ्यन्ते तण्डुला यथा ।न तथा ज्ञानकष्टेन मोक्षमार्गादयः क्वचित्
यथाम्बुमथनान्नैवोत्पद्यते जातुचिद्घृतम् ।तथा हिंसाकरेणैव तपसात्र सुखादि
अत्रान्धाश्माद्यथा स्वर्णं गोशृङ्गाच्च पयो हि ।जायते जातु धर्म्मो वा सुखं पञ्चाग्निसाधनात्
दावभीत्या यथान्धो धावन्नपि म्रियते यथा ।कुर्व्वन्नपि तपो ज्ञानी मज्जत्येव भवार्णवे
हेयाहेयविचारञ्च पुण्यपापं हिताहितम् ।देवादेवं भवं मोक्षं स्वाश्रवं सम्बरं शुभम्
निर्ज्जरा तत्त्वविज्ञानं गुरुं चक्रुर्गुरुं शुभम् ।कुशास्त्रं वेत्ति नज्ञानी जात्यन्ध इव दन्तिनम्
अतो जैनमतं तथ्यं धर्म्मजीवदयावहम् ।तपोनाथं गृहाणत्वं त्यक्त्रेमञ्च दुराग्रहम्
नैग्रन्थतपसा मोक्षः सुखं वाचामगोचरम् ।अज्ञानं तपसा दुःखं भ्रमणञ्च भवाटवौ
भवत्स्नेहेन तथ्यंते हितञ्च धर्म्मसाधनम् ।वचः प्रोक्तं मयेति त्वां हीच्छता शुभमञ्जसा
”तत्प्रचलितानुप्रेक्षादिमतं तत्रैव १५ अध्यायेविशेषंतो द्रष्टव्यम्
*
जैनशास्त्रोक्ततत्त्वादीनि यथा, तत्रैव २०अध्याये ।“शृणु तत्त्वं गणाधीश ! सार्द्धं द्बादशभिर्गणैः ।तत्त्वादीनि प्रवक्ष्येऽहं स्वैकचित्तेन संप्रति
जीवादिसत्पदार्थानां याथार्थ्यं तत्त्वमिष्यति ।सम्यग् जैनागमे तत्त्वं विद्धि नान्यत् कुशासने
जीवाजीवाश्रवबन्धः स्वम्बरो निर्ज्जरा शिवः ।इत्युक्तानि जिनाधीशैः सप्त तत्त्वानि चागमे
संसारिमुक्तभेदेन द्विधा जीवा रुवन्त्यहो ।मुक्ता भेदविनिष्क्रान्ता अनन्तगुणभाजनाः
भव्याभव्यप्रभेदेन द्विधा संसारिणोऽङ्गिनः ।त्रसस्थावरभेदेन वा मुक्ति भवे गामिनः
एकाक्षा विकलाक्षाः पञ्चाक्षास्त्रेधेति ते मताः ।देवनारकतिर्य्यग्नृभेदा इति चतुर्व्विधाः
एकद्वित्रिचतुःपञ्चेन्द्रियगेहोच्चपञ्चधा ।पृथ्वप्तेजोमरुद्वृक्षत्रसभेदात् षडङ्गिनः
संज्ञिनोऽसंज्ञिनोद्व्यक्षास्त्र्यक्षा हि चतु-रिन्द्रियाः ।एकाक्षा वादराः सूक्ष्माः सप्तधेत्यङ्गिराशयः
पर्य्याप्तेतरभेदेन ताः सप्त जीवयोनयः ।गुणिता अखिला जीवसमासाः स्युश्चतुर्द्दश
अष्टधा धातवो वादरसूक्ष्मेण चतुर्व्विधा ।नित्येतरनिकोता हि विकलत्रयदेहिनः
संज्ञिनोऽसंज्ञिनः सुप्रतिष्ठिताः अप्रतिष्ठिताः ।इति संसारिणो जीवभेदा एकोनविंशतिः
ते पर्य्याप्तेरालब्धिपर्य्याप्तैर्वर्गिता भुवि ।सर्व्वे जीवसमासाः सप्तपञ्चाशत्प्रमा मता
स्थावराश्च द्बिचत्वारिंशद्भेदाः सुरनारकाः ।द्विधापञ्चाक्षतिर्य्यञ्चश्चतुस्त्रिंशत्प्रमाः स्मृताः
नवधा मानवाश्चैव नवधा विकलाङ्गिनः ।इति जीवसमासाः स्युरष्टानवतिसंख्यकाः
पृथवप्तेजःसमीरा अष्टधा वादरसूक्ष्मता ।नित्येतरनिकोताश्चतुर्द्धा वादरसूक्ष्मतः
निकोतसहितास्तद्रहिताः प्रत्येककायिनः ।एकत्र मेलिता एते सर्व्वे भेदाश्चतुर्द्दश
एकाक्षा गुणितास्ते द्विचत्वारिंशत्प्रमाः स्फुटम् ।पर्य्याप्तकेतरालब्धिपर्य्याप्तैः स्युर्ज्जिनागमे
द्विप्रकाराः सुराः स्युः पर्य्याप्तापर्य्याप्तभेदतः ।तथा नारको ज्ञेयो द्विधा दुःखाब्धिमध्यगः
जलस्थलनभश्चारिणं संज्ञासंज्ञिभेदतः ।षड्विधा गर्भजा जीवाः पञ्चेन्द्रियसमाह्वयाः
भोगभूमिभवा जीवा द्विधा स्थलखगामिनः ।ते सर्व्वे मेलिता अष्टभेदाश्च गुणिताः पुनः
पर्य्याप्तेतरभेदाभ्यां षोडशैव भवत्यपि ।संज्ञ्यसंज्ञित्वभेदाभ्यां जलस्थलखचारिणः
षड्वासन्मूर्च्छितास्ते पर्य्याप्तियुक्तास्तथेतराः ।भवन्त्यलब्धिपर्य्याप्तकाः प्रत्येकं किलाङ्गिनः
कृता एकत्र ते सर्व्वे भेदा अष्टादशप्रमाः ।गर्भसन्मूर्च्छिताः सर्व्वे स्युश्चतुस्त्रिंशदङ्गिनः
आर्य्यम्लेच्छभवा भोगकुभोगभूमिजा नराः ।अष्टभेदा मता वै पर्य्याप्तापर्य्याप्तभेदतः
सन्मूर्च्छिनो मनुष्या अलब्धिपर्य्याप्तसंज्ञकाः ।इति विश्वे भवन्त्यत्र नव भेदा नृयोनिजाः
पर्य्याप्तादित्रिभेदेन गुणिता विकलाङ्गिनः ।नवधा श्रीजिनैः प्रोक्ता ज्ञाननेत्रैर्व्वरागमे
अष्टानवतिरेते जीवसमासा विचक्षणैः ।विज्ञेया यत्नतस्तेषां दया कार्य्या मुमुक्षुभिः
भूरोदकाग्निवाताख्या नित्येतरनिकोतकाः ।सप्तसप्तपृथग्लक्षाश्च वनस्पतयो दश
द्वित्रितुर्य्येन्द्रिया द्वौ द्वौ लक्षौ देवाश्च नारकाः ।पशवो हि चतुर्लक्षाश्चतुर्द्दशनृजातयः
चतुरशीतिलक्षा इमा जीवजातयोऽखिलाः ।रक्षणीया प्रयत्नेन ज्ञात्वा दक्षैः स्वमुक्तये
कोटीकोटैकानवनवतिलक्षाश्च कोटयः ।सत्पञ्चाशत्सहस्रा इत्यखिलाङ्गिकुलान्यपि
जीवितः प्रागनादौ हि जीविष्यति पुनः सदा ।जीवत्ययं ततस्तज्ज्ञो जीवद्रव्यं किलोच्यते
अक्षजाः पञ्च प्राणा मनोवाक्कायतस्त्रयः ।आयुरुच्छ्वासनिश्वासो दशेति संज्ञिनां मता
असंज्ञिनां नवस्युस्ते विनात्र मनसाखिलाः ।चतुरेन्द्रियजीवानां ह्यष्टौ कर्णैर्व्विना स्मृताः
त्रीन्द्रियाणां विना चक्षुः सप्त प्राणाः प्रकीर्त्तिताः ।द्वीन्द्रियाणां हि षट्प्राणाः कथिता नासिकांविना
मुखवाग्भ्यां विनैकाक्षाणां प्राणाः स्युश्चतुः-प्रमाः ।यथायोग्यमपर्य्याप्तानां ज्ञेयास्ते जिनागमे
आहाराङ्गेन्द्रियोच्छ्वासनिश्वासवाक्यचेतसः ।षड्वा पर्य्याप्तयश्चेति विज्ञेया संज्ञिदेहिनाम्
विकला संज्ञिनां पञ्चपर्य्याप्तयो मनो विना ।चतुःपर्य्याप्तयो ज्ञेया एकाक्षाणां वचो विना
निश्चयेन भवेत् केवलज्ञानदृग्मयोऽसुमान् ।अनन्तसुखवीर्य्याढ्यसिद्धसादृश्य एव हि
व्यवहारेण मित्यादिविभावगुणसंयुतः ।नेत्रादिदर्शनैर्युक्तः प्राणी कर्म्मकृतैः कलौ
मूर्त्तपुद्गलसंयोगान्मूर्त्तो गीर्व्यवहारतः ।अमूर्त्तो निष्कलः शुद्धो ज्ञानमूर्त्तिश्च निश्चयात्
व्यवहारे नयेनाङ्ग्यनुपचारमृषात्मना ।कर्म्मणो कर्म्मणां कर्त्ता भोक्ता तत्फलमञ्जसा
उपचारमृषानाम्ना नयेन प्राणभृद्भुवि ।कटवस्त्रगृहादीनां कर्त्ता शिल्पिकर्म्मणाम्
अशुद्धनिश्चयेनाङ्गी कर्त्ता भावकर्म्मणाम् ।रागद्वेषमदोन्मादशोकादिविषयात्मनाम्
प्राग्वपुस्त्यजनान्मृत्युः प्रादुर्भावाद्यसम्भवः ।द्रव्यरूपेण नित्यत्वं चतुर्गतिषु देहिनाम्
जायतेऽतो गणाधीशैरुत्पादव्यय एव ।ध्रौव्यभावोऽत्र संप्रोक्तः सर्व्वेषां व्यवहारतः
कायप्रमाण आत्मायं पर्य्यायनयतः क्वचित् ।युक्तः प्रदेशसंहारविसर्पाभ्यां प्रदीपवत्
विना सप्तसमुद्घातैर्निश्चयेन भवेत् पुनः ।कर्म्मोत्पन्नाङ्गहीनाङ्गी ह्यसंख्यातप्रदेशमः
वेदनाख्यः कषायाख्यो विकुर्व्वणसमाह्वयः ।मारणान्तिकसंज्ञस्तेजसाहारकसंज्ञकौ
केवलाख्यः समुद्घाताः सप्तेति श्रीजिनैर्मताः ।कैवल्यतैजसाहारायोगिनां स्युः परेऽङ्गिनाम्
पुण्यपापफलानां हि विविधानां चतुर्गतौ
शर्म्माशर्म्मकराणां प्राणी भोक्ता व्यवहारतः
स्वस्वरूपस्य कर्त्ता शुद्धनिश्चयनयादसौ ।जन्ममृत्युजरातीतो कर्त्ता बन्धमोक्षयोः
अतोऽत्रात्माप्यसौ ध्येयो निर्व्विकल्पपदाश्रितैः ।गुणैः सिद्धेन सादृश्यो ज्ञानमूर्त्तिरमूर्त्तिमान्
यथाग्निकणिकेनात्र दह्यन्ते काष्ठराशयः ।अनन्तकर्म्मकाष्ठानि तथाध्यानलवाग्निना
दन्तभग्नो यथा नागो दंष्ट्र्याभग्नोक्षमो हरिः ।स्वकार्य्ये तथा ध्यानहीनः कर्म्मारिघातने
चिन्तामणिश्च रत्नानां कल्पवृक्षोऽत्र शाखिनाम् ।त्रिदशानां यथा शक्रो नृणां मध्ये परो जिनः
आत्मतत्त्वञ्च तत्त्वानां पदार्थानां तथा महान् ।स्वकीयात्मपदार्थो द्रव्याणां स्वद्रव्य एव हि
इति मत्वा स्वसंसिद्ध्यै मनः कृत्वातिनिश्चलम् ।विषयेभ्यो विनिष्क्रान्तं संवेगादिगुणाङ्कितम्
सर्व्वद्रव्यबहिर्भूतोऽप्यनन्तगुणसागरः ।सर्व्वावस्थासु सर्व्वत्र स्वात्मा ध्येयो मुमुक्षुभिः
इत्यात्मतत्त्वमाख्याय तीर्थनाथो गणान् प्रति ।मार्गणादिकमाख्यातुं प्रारेभे मार्गसिद्धये
गतिरिन्द्रियकायौ हि योगवेदकषायकः ।ज्ञानसंयमदृग्लेश्याभव्यसम्पत्कसंज्ञिनः
आहारे मार्गणञ्चेति चतुर्द्दश निरूपिताः ।जिनैस्तासु बुधैर्मृग्यो जीवतत्त्वो महांश्चिदे
मिथ्याशासादनौ मिश्रो विरताख्यश्चतुर्थकः ।वैदेशविरताख्यः प्रमत्तोऽप्रमत्तसंज्ञकः
अपूर्व्वकरणो नाम्ना निवृत्तिकरणाभिधः ।द्विसूक्ष्मसाम्परायोपशान्तक्षीणकषायकाः
सयोग्ययोगिनामानौ सद्गुणाश्रयणादिमे ।चतुर्द्दश जिनैः प्रोक्ता गुणस्थानगुणाकराः
मुक्तेः सोपानमाला एते भव्यानां जिनोदिताः ।अभव्यानां किलैको मिथ्यागुणस्थानशाश्वतः
हीनाधिकगुणैर्युक्ता अन्येष्यास्तेषु धीयुतैः ।गुणानां स्थानकेष्वङ्गिनः परीक्ष्य गुणव्रजैः
इत्यादिवाक्सुधापूरैराप्लाव्य निखिलां सभाम् ।अजीवतत्त्वमाख्यातुं पुनरारब्धवान् प्रभुः
पुद्गलो बहुधा धर्म्मोऽधर्म्म आकाश एव हि ।कालश्चेति जिनैः प्रोक्तो जीवद्रव्योऽत्र पञ्चधा
पूरणाद्गलनाद्दक्षैः पुद्गलोऽयं निरूपितः ।मूर्त्तोऽनेकविधः सार्थनामकः कर्म्मदेहकृत्
अष्टौ स्पर्शा रसाः पञ्च वर्णाः पञ्च गन्धौ द्बिधा ।इति विंशतिरस्यैव गुणाः प्रोक्ता द्विधात्मकाः
शुद्धाणोर्येगुणाः शुद्धा मताः स्वाभाविकाश्च ते ।गुणाः स्कन्धेषु ये शुद्धा विभवाख्या हि ते बुधैः
अणुस्कन्धविभेदेन पुद्गलस्य द्बिधा स्थितिः ।स्निग्धरूक्षमयाणूनां सङ्घातः स्कन्ध उच्यते
अणवः कार्य्यलिङ्गाः स्युरत्रैकैकतयाखिलाः ।नित्या द्रव्यार्थिकेनानित्याः पर्य्यार्थिकेन
सूक्ष्मसूक्ष्मास्तथा सूक्ष्माः सूक्ष्मस्थूलाभिधाः परे ।स्थूलसूक्ष्मात्मकाः स्थूलाः स्थूलस्थूलाश्च पुद्गलाः
एकोऽणुः सूक्ष्मसूक्ष्मः स्याददृश्यो नयनैर्नृणाम् ।सूक्ष्मास्तेऽपि मताः सद्भिर्ये कर्म्ममयपुद्गलाः
रसनस्पर्शनघ्राणश्रोत्रैर्ये यान्ति पुद्गलाः ।व्यक्ततान्ते समुद्दिष्टाः सूक्ष्मस्थूला जिनागमे
स्थूलसूक्ष्मा जिनैर्ज्ञेयाश्छायाज्योत्स्नातपादयः ।जलव्यालादयः स्थूला उच्यन्ते पुद्गला बुधैः
भूकायाद्रिविमानादयः स्थूलस्थूलपुद्गलाः ।षड्भेदा इति तीर्थेशैः पुद्गला हि निरूपिताः
शब्दो बन्धस्तथा सूक्ष्मः स्थूलः संस्थानसंज्ञकः ।भेदस्तमस्तथाच्छायाद्युद्योतआतपादयः
एते पुद्गलपर्य्याया विभावाख्या मता जिनैः ।स्वाभाविकाश्च पर्य्याया अणुरूपाः पृथक्पृथक्
शरीरवाङ्मनःप्राणापानदुःखसुखादिकान् ।कुर्व्वन्ति पुद्गला जीवानां मृत्युजीवितादिकान्
जीवपुद्वलयोः साद्यकर्त्ता जिनैर्म्मतो गतौ ।अमूर्त्तो निष्क्रियो धर्म्मो मत्स्यानाञ्च यथा जलम् ।सहकारी मतो धर्म्मः स्थितौ पुद्गलजीवयोः ।अमूर्त्तो निष्क्रियो नित्यो यथा च्छायाध्वगामि-नाम्
लोकालोकावभदेन द्विधाकाशस्त्वमूर्त्तिमान् ।अवकाशप्रदः सर्व्वद्रव्याणां निष्क्रियोऽव्ययः
पदार्था यत्र लोक्यन्ते लोकाकाशो मतो हि सः ।तस्माद्बहिरनन्तोऽप्यलोकाकाशोऽस्ति केवलः
धर्म्माधर्म्मैकजीवानां लोकाकाशस्य सन्ति ।असंख्याताः प्रदेशा हि पुद्गलानामनेकधा
निश्चयव्यवहारेण द्विधा कालोऽतिनिष्क्रियः ।द्रव्याणां सहकारी परिणतौ मूर्त्तिवर्ज्जितः
समयादिमयः कालो व्यवहारोऽत्र लक्ष्यते ।गोदोहादिक्रियाद्यैः परत्वापरत्वयोगतः
भिन्नाभिन्नाणवो येऽत्र लोकाकाशे सुसंस्थिताः ।राशयश्चैव रत्नानां कालो निश्चयाभिधः
एकत्र सह जीवेन षड्द्रव्या मुनिभिः स्मृताः ।ते कालेन विना ज्ञेयाः पञ्चास्तिकायसंज्ञकः
पुद्गलौघो आयाति कर्म्मरूपोऽत्र रागिणः ।द्रव्यभावविभेदेन द्विधा आश्रवो भवेत्
रागद्बेषादियुक्तेन परिणामेन येन हि ।आश्रवन्त्यत्र कर्म्माणि स्याद्भावाश्रवोऽ-ङ्गिनाम्
मिथ्यात्वपञ्चकं द्वादशधा विरतयोशुऽभाः ।प्रमादा हि त्रयश्चैव योगाः पञ्चदशात्मकाः
सर्व्वदुःखाकरीभूताः कषायाः पञ्चविशतिः ।एतेऽत्र प्रत्यया ज्ञेया भावाश्रवनिबन्धनाः
आयाति कर्म्मरूपेण पुद्गलौघोऽत्र योगिनः ।द्रव्याश्रवः विज्ञेयोऽप्यनन्तभवकारकः
ध्यानाद्यैराश्रवो रुद्वो यैस्ते स्युर्मुक्तिवल्लभाः ।अन्यथा विफलक्लेशस्तपोवृत्तादितः सताम्
संश्लेषो जीवकर्म्मणोर्यः सम्बन्धो द्विधा मतः ।भावद्रव्यप्रभेदेन विश्वाशर्म्माकरोऽशुभः
बध्यन्ते येन भावेन रागादिदूषितेन हि ।कर्म्माणि भावबन्धोऽत्र सोऽनन्तसंसृतिप्रदः
प्रकृतिस्थितिबन्धानुभागप्रदेशतोऽङ्गिनाम् ।चतुर्धा बन्ध आम्रातोऽत्रानेकविक्रियाकरः
प्रकृतिः स्वभावः स्याच्च स्थितिः कालावधारणम्
रसतुल्योऽनुभागः प्रदेशो जीवप्रदेशयुक्
सप्रकृतिप्रदेशाख्यौ बन्धौ योगतो सताम् ।स्थित्यनुभागबन्धौ कषायैर्भवनिबन्धनौ
यथा बन्धनबन्धो लभते दुःखमनेकशः ।कर्म्मशृङ्खलबद्धोऽङ्गी तथा श्वभ्रादिदुर्गतौ
सर्व्वाश्रवनिरोधो यो ध्यानाद्यैर्द्रव्यभावतः ।स द्विधा संवरः प्रोक्तः स्वर्गमुक्त्यादिकारकः
चैतन्यपरिणामो एकीभूतो निजात्मकः ।निर्व्विकल्पमयो ज्ञेयो भावसंवर एव सः ।त्रयोदशविधं वृत्तं परो धर्म्मो दशात्मकः ।द्विषड्भेदा अनुप्रेक्षाः परीषदजयोखिलः
पञ्चधा संयमो ध्यानश्रुतास्यासंयमादयः ।भवन्त्यमी सतां सर्व्वे भावसंवरकारणम् ।निरोधः क्रियते योऽत्र कर्म्मणां यत्नतो बुधैः ।सद्रव्यसंवरः प्रोक्तोऽप्यनन्तगुणसागरः
संवरेण स्वयं ह्येत्य दत्तेऽत्रालिङ्गनं मुदा ।सतां स्वस्त्रीव मुक्तिश्रीर्नान्यथा क्लशकोटिभिः
प्राक्तनः कर्म्मबन्धो यः कालेन तपसाथवा ।क्षीयते निर्ज्जरासासविपाकेन रता द्विधा
कर्म्मपाकेन या जाता सविपाकाखिलात्मनाम् ।सायभाजनिता हेया परकर्म्मनिबन्धनाः
संवरेण समयात्र निर्ज्जरा क्रियते बुधैः ।तपोभिः साविपाका प्रादेयानेकसुखाकरा
निर्ज्जराकर्म्मणामत्र जायतेऽपि यथा यथा ।आयाति निकटं मुक्तिस्तत्कारिणां तथा तथा
अत्यन्तं योऽत्र विश्लेषः कर्म्मात्मनो स्वयोगिनाम् ।काललब्ध्या मोक्षः स्यात् द्रव्यभावाद्द्विधा-त्मकः
क्षये हेतुर्व्वरो यः परिणामोऽखिलकर्म्मणाम् ।भावमोक्षः विज्ञेयः कर्म्ममोचनहेतुकृत्
समस्तकर्म्मदेहाद्यदैवात्मा जायते पृथक् ।तदैव द्रव्यमोक्षः स्यादनन्तगुणदायकः
आपादमस्तकान्तं यथा बद्धो बन्धनैर्दृढैः ।मोचनाल्लभते सौख्यं तथा मुक्तो विधेः क्षयात्
तस्मात् कर्म्मातिगो जीव एरण्डादिकबीजवत् ।समयेन व्रजेदूर्द्ध्वं यावल्लोकाग्रमस्तकम्
तत्रैवास्थानिरावाधः सोग्रे गमनवर्ज्जितः ।सिद्धो धर्म्मोऽस्ति कायाभावादनन्तसुखा-ब्धिगः
तत्र भुक्ते निरावाधं स्वात्मजं विषयातिगम् ।वृद्धिह्रासव्यपेतं सिद्धः शुद्धो महान् सुखम्
दुःखातीतं निरौपम्यं शाश्वतं मुखसम्भवम् ।अवन्तं परमं ह्यन्यद्द्रव्यानप्रेक्षमेव हि
यद्देवमनुजैः सर्व्वैः सुखं त्रैलोक्यगोचरम् ।भुक्तं तस्मादनन्तं तज्जायते परमेष्ठिनाम्
एकेन समयेनैव भूषितानां गुणाष्टकैः ।नित्यानामशरीराणां सर्व्वोत्कृष्टं व्ययच्युतम्
इति विविधविभागैः सप्ततत्त्वानि मुक्त्यैदृगवगमसुवीजानि प्ररूप्यात्मवान् यः ।परमुदमपि भव्यानाञ्चकार स्वबीजै-रमृतपरमतुल्यैर्मेऽत्र दद्यात् स्वशक्तिम्
पार्श्वः सर्व्वसुखाकरोऽसुखहरः पार्श्वं श्रिताधर्म्मिणःपार्श्वेणाशु समाप्यतेऽमरपदं पार्श्वाय मूर्द्ध्व्ना नमः ।पार्श्वान्नास्ति हितङ्करो भवभृतां पार्श्वस्य मुक्तिःप्रियापार्श्वे चित्तमहं दधेऽखिलचिदे मां पार्श्व ! पार्श्वंनय
”इति श्रीपार्श्वनाथचरित्रे २० सर्गः
*
)सनिकृष्टे, त्रि इति हेमचन्द्रः