| YouTube Channel

पार्व्वती (pArvvatI)

 
शब्दकल्पद्रुमः
Sanskrit
पार्व्वती,
स्त्री,
(पर्व्वतो हिमाचलस्तस्य तदधिष्ठा-तृदेवस्येति भावः अपत्यमिति अण् ङीप् ।)दुर्गा इत्यमरः
तस्या व्युत्पत्तिर्यथा, --“तिथिभेदे कल्पभेदे पर्व्वभेदप्रभेदतः ।ख्यातौ तेषु विख्याता पार्व्वती तेन कीर्त्तिता
महोत्सवविशेषश्च पर्व्वस्विति प्रकीर्त्तितम् ।तस्याधिदेवी या सा पार्व्वती परिकींर्त्तिता
पर्व्वतस्य सुता देवी साविर्भूता पर्व्वते ।पर्व्वताधिष्ठातृदेवी पार्व्वती तेन कीर्त्तिता
”इति प्रकृतिखण्डे दुर्गोपाख्याने ५४ अध्यायः
शल्लकी गोपालपुत्त्रिका इति मेदिनी
द्रौपदी जीवनी इति विश्वः
सौराष्ट्र- ।मृत्तिका इति रत्नमाला
क्षुद्रपाषाणभेदा ।घातकी सैंहली इति राजनिर्घण्टः