पार्व्वणः (pArvvaNaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritपार्व्वणः, (पर्व्वणि ग्रहणयोग्यः इत्यण् ।)मृगविशेषः । इति शब्दचन्द्रिका ॥
(पर्व्वणिक्रियते यत् तत् ।) अमावस्यापर्व्वसामान्ययोःकर्त्तव्यश्राद्धम् । यथा, --“अमावस्यां यत् क्रियते तत् पार्व्वणमुदाहृतम् ।क्रियते पर्व्वणि वा यत्तत् पार्व्वणमुदाहृतम् ॥
”इति भविष्यपुराणम् ॥
पर्व्वणि यत् क्रियते इत्यनेनामावास्यायाः पर्व्व-त्वात्तच्छ्राद्धस्य वैदिकप्रयोगाधीनयौगिकत्वेनपार्व्वणत्वप्राप्तौ अमावास्यायां पृथगभिधानं तद-मावास्याश्राद्धस्य रूढित्वार्थं तेन पार्व्वणेनविधानेनेत्यादौ यौगिकनानावयवशक्त्यपेक्षयाएकस्याः समुदायशक्तेर्लघुत्वात् अमावास्या-पार्व्वणातिदेशो लभ्यते न तु पूपाष्टकादि-पार्व्वणधर्म्मातिदेशः ।” इति श्राद्धतत्त्वम् ॥
* ॥
सामगानां तस्य प्रयोगो यथा, --“विप्राप्राप्त्या श्राद्धकृतौ सुखार्थं क्रमसूचनम् ।श्राद्धपूर्व्वदिने मांसस्त्रीत्यागश्चैकभोजनम् ॥
श्राद्धाहे दन्तकाष्ठस्य त्यागः स्नानं तथोषसि ।याम्यास्यत्वं पादशौचे वास्त्वर्च्चा विष्णुचिन्तनम् ॥
तस्मै पूजा मूल्यदानं परभूस्वामिनेऽथवा ।तत् पितृभ्यश्चाग्रदानं रक्षादीपकुंशद्विजाः ॥
श्राद्धानुज्ञा च गायत्त्री देक्ताभ्य इति त्रिधा ।मृज्जलप्रोक्षणं रक्षाजलस्थापनमेकतः ॥
पूर्व्वं विप्रकरे तोयं कुशासनमनन्तरम् ।दक्षिणे देवविप्रस्य पितृविप्रस्य वामतः ॥
आवाहनार्घ्ये न्युब्जञ्च ततो गन्धादिपञ्चकम् ।ऐशानीक्रमतो रेखा प्रागग्रा देवमण्डले ॥
नैरृतीक्रमतो रेखा दक्षाग्रा पितृमण्डले ।पात्राणां तेषु विन्यासो होमप्रश्नोऽग्निहोमकः ॥
हुतशेषप्रदानञ्च पात्रालम्भोऽन्नवेशनम् ।इदमित्यङ्गुलेः क्षेपस्तूष्णीं दैवे यवस्य च ॥
पित्रे मन्त्रेण निःक्षेपस्तिलस्यापहता इति ।मधुनोऽन्ने च निःक्षेपो गायत्त्र्यास्त्रिर्ज्जपस्ततः ॥
मधुवाता त्वृचा चैव मधुशब्दत्रयेण च ।अन्नाभिमन्त्रणं तस्य दानं जलनिवेदनम् ॥
गायत्त्र्यादित्रिकजपोऽप्यन्नहीनजपस्तथा ।द्बिजाभावेऽपि तृप्त्यर्थं गायत्त्र्यादित्रिकस्य च ॥
पुण्याख्यानस्य च जपः सतिलप्रोक्षिते कुशे ।अग्निदग्धेतिमन्त्राभ्यां सतिलान्ननिवेदनम् ॥
हस्तक्षालश्चाचमनं हरिस्मृतिर्जलस्य च ।पित्रादिक्रमतो दानं गायत्त्र्यादिजपः पुनः ॥
शेषान्नपिण्डयोः प्रश्नो निहन्मीति च मण्डले ।अपहतानिहन्मिभ्यां रेखायुग्मं पितृक्रमात् ॥
आस्तरो देवतेत्यस्य जप आवाहनं तिलैः ।अवनेजनदानञ्च मधुवाता मधुत्रयम् ॥
अक्षन्नमी पिण्डदानं दर्भलेपापघर्षणम् ।आचमनं स्मृतिर्व्विष्णोः पात्रक्षालावनेजनम् ॥
अत्रेत्यादिजपो वामावर्त्तेनोदङ्मुखस्ततः ।आवृत्यामीजपश्चैव श्वासत्यागोऽञ्जलिस्ततः ॥
नम इत्यादिकजपो वासोदानञ्च पूजनम् ।वसन्ताय जपश्चैव द्बिजाग्रभूमिसेचनम् ॥
दैवादिब्राह्मणे दानं जलादित्रतयस्य च ।शिवा इत्यादिनाक्षय्यमघोरा गोत्रमित्यपि ॥
सपवित्रकुशाः पिण्डे स्वधावाचनमूर्जनम् ।न्युब्जोत्थानं पितुः पक्षे दक्षिणादानमग्रतः ॥
विश्वेदेवाश्च दातारो देवतेतिजपस्त्रिधा ।विसर्जनं वाज इति आमावेति प्रदक्षिणम् ॥
अन्नादेः प्रतिपत्तिश्च वामदेव्यजपस्त्रिधा ।दीपप्रच्छादनं हस्तक्षालमाचमने तथा ॥
अच्छिद्रवाचनं विष्णुस्मरणं शेषभोजनम् ।उपवासदिने घ्राणं मांसेतराशिताव्रते ॥
तद्दिने मैथुनत्यागः श्राद्धकृच्छ्राद्धभोजिनोः ॥
” * ॥
यजुषां विशेषो यथा, --“आस्तरो देवताभ्यश्च तिलपुष्पजलैस्ततः ।अवनेजनपिण्डौ च हस्तालेपापघर्षणम् ॥
हस्तक्षालश्चाचमनं विष्णोः संस्मरणाय वै ।अत्रेत्यादिजपो वामावर्त्तेनोदङ्मुखस्ततः ॥
आवृत्यामीजपश्चैव श्वासः प्रत्यवनेजनम् ।नीवीविस्रंसनञ्चैव तथैवाचमनद्वयम् ॥
नमो वः पितरः सुष्मायेत्यादिकषडञ्जलिः ।ऋतुनत्यर्थमेवायं वासः पिण्डप्रपूजनम् ॥
दैवादिब्राह्मणे दानं जलादित्रितयस्य च ।शिवा इत्यादिनाक्षय्यमघोरा गोत्रमित्यपि ॥
दातारोऽन्नञ्चनञ्चैव एताः सत्याशिषोऽस्त्वितिसपवित्रकुशाः पिण्डे स्वधावाचनमूर्जनम् ॥
आघ्राणञ्चैव पिण्डानां तेषामुत्तोलनन्ततः ।न्युब्जोत्थानं पितुः पक्षे दक्षिणादानमग्रतः ॥
विश्वेदेवाश्च प्रीयन्तां दैवे वा जलमित्यपि ।विसर्जनं वाज इति आमावेति प्रदक्षिणम् ॥
अन्यत् सर्व्वं समानम् ।” इति श्राद्धप्रयोगतत्त्वम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
