| YouTube Channel

पारिप्लवं (pAriplavaM)

 
शब्दकल्पद्रुमः
Sanskrit
पारिप्लवं, त्रि, (परि + प्लु + अच् ततः प्रज्ञा-द्यण् ।) चञ्चलम् इत्यमरः ७५
(यथा, रघुः ११ ।“तयोपचाराञ्जलिखिन्नहस्तयाननन्द पारिप्लवनेत्रया नृपः
”)आकुलः इति मेदिनी वे, ६०
(क्ली, तीर्थ-विशेषः यथा, महाभारते ८३ १२ ।“ततः पारिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् ।अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति भारत !
”पुं, जलपक्षी इति रामानुजः
यथा, रामा-यणे २७ २३ ।“पारिप्लवशतैर्ज्जुष्टा बर्हिक्रौञ्चनिनादिता ।रमणीया नदी सौम्या मुनिसङ्घनिषेविता
”पञ्चममन्वन्तरीयप्रकृतिविशेषः यथा, हरि-वंशे २७ ।“देवाश्चाभूतरजसस्तथा प्रकृतयोऽपरे ।पारिप्लवश्च रैभ्यश्च मनोरन्तरमुच्यते
”)